धर्मDharmic Data

आदिपर्व · Adi Parva

अध्याय 81

  1. [व] एवं स नाहुषॊ राजा ययातिः पुत्रम ईप्सितम राज्ये ऽभिषिच्य मुदितॊ वानप्रस्थॊ ऽभवन मुनिः ॥ 1 ॥

  2. उषित्वा च वनेवासं बराह्मणैः सह संश्रितः फलमूलाशनॊ दान्तॊ यथा सवर्गम इतॊ गतः ॥ 2 ॥

  3. स गतः सुरवासं तं निवसन मुदितः सुखम कालस्य नातिमहतः पुनः शक्रेण पातितः ॥ 3 ॥

  4. निपतन परच्युतः सवर्गाद अप्राप्तॊ मेदिनी तलम सथित आसीद अन्तरिक्षे स तदेति शरुतं मया ॥ 4 ॥

  5. तत एव पुनश चापि गतः सवर्गम इति शरुतिः राज्ञा वसुमता सार्धम अष्टकेन च वीर्यवान परतर्दनेन शिबिना समेत्य किल संसदि ॥ 5 ॥

  6. [ज] कर्मणा केन स दिवं पुनः पराप्तॊ महीपतिः सर्वम एतद अशेषेण शरॊतुम इच्छामि तत्त्वतः कथ्यमानं तवया विप्र विप्रर्षिगणसंनिधौ ॥ 6 ॥

  7. देवराजसमॊ हय आसीद ययातिः पृथिवीपतिः वर्धनः कुरुवंशस्य विभावसु समद्युतिः ॥ 7 ॥

  8. तस्य विस्तीर्णयशसः सत्यकीर्तेर महात्मनः चरितं शरॊतुम इच्छामि दिवि चेह च सर्वशः ॥ 8 ॥

  9. [व] हन्त ते कथयिष्यामि ययातेर उत्तरां कथाम दिवि चेह च पुण्यार्थां सर्वपापप्रणाशिनीम ॥ 9 ॥

  10. ययातिर नाहुषॊ राजा पूरुं पुत्रं कनीयसम राज्ये ऽभिषिच्य मुदितः परवव्राज वनं तदा ॥ 10 ॥

  11. अन्तेषु स विनिक्षिप्य पुत्रान यदुपुरॊगमान फलमूलाशनॊ राजा वने संन्यवसच चिरम ॥ 11 ॥

  12. संशितात्मा जितक्रॊधस तर्पयन पितृदेवताः अग्नींश च विधिवज जुह्वन वानप्रस्थविधानतः ॥ 12 ॥

  13. अतिथीन पूजयाम आस वन्येन हविषा विभुः शिलॊञ्छ वृत्तिम आस्थाय शेषान्न कृतभॊजनः ॥ 13 ॥

  14. पूर्णं वर्षसहस्रं स एवंवृत्तिर अभून नृपः अब्भक्षः शरदस तरिंशद आसीन नियतवान मनाः ॥ 14 ॥

  15. ततश च वायुभक्षॊ ऽभूत संवत्सरम अतन्द्रितः पञ्चाग्निमध्ये च तपस तेपे संवत्सरं नृपः ॥ 15 ॥

  16. एकपादस्थितश चासीत षण मासान अनिलाशनः पुण्यकीर्तिस ततः सवर्गं जगामावृत्य रॊदसी ॥ 16 ॥

Reach this point to mark the section finished.

Continue to अध्याय 82

Previous: अध्याय 80