धर्मDharmic Data

आदिपर्व · Adi Parva

अध्याय 80

  1. [व] पौरवेणाथ वयसा ययातिर नहुषात्मजः परीतियुक्तॊ नृपश्रेष्ठश चचार विषयान परियान ॥ 1 ॥

  2. यथाकामं यथॊत्साहं यथाकालं यथासुखम धर्माविरुद्धान राजेन्द्रॊ यथार्हति स एव हि ॥ 2 ॥

  3. देवान अतर्पयद यज्ञैः शराद्धैस तद्वत पितॄन अपि दीनान अनुग्रहैर इष्टैः कामैश च दविजसत्तमान ॥ 3 ॥

  4. अतिथीन अन्नपानैश च विशश च परिपालनैः आनृशंस्येन शूद्रांश च दस्यून संनिग्रहेण च ॥ 4 ॥

  5. धर्मेण च परजाः सर्वा यथावद अनुरञ्जयन ययातिः पालयाम आस साक्षाद इन्द्र इवापरः ॥ 5 ॥

  6. स राजा सिंहविक्रान्तॊ युवा विषयगॊचरः अविरॊधेन धर्मस्य चचार सुखम उत्तमम ॥ 6 ॥

  7. स संप्राप्य शुभान कामांस तृप्तः खिन्नश च पार्थिवः कालं वर्षसहस्रान्तं सस्मार मनुजाधिपः ॥ 7 ॥

  8. परिसंख्याय कालज्ञः कलाः काष्ठाश च वीर्यवान पूर्णं मत्वा ततः कालं पूरुं पुत्रम उवाच ह ॥ 8 ॥

  9. यथाकामं यथॊत्साहं यथाकालम अरिंदम सेविता विषयाः पुत्र यौवनेन मया तव ॥ 9 ॥

  10. पूरॊ परीतॊ ऽसमि भद्रं ते गृहाणेदं सवयौवनम राज्यं चैव गृहाणेदं तवं हि मे परियकृत सुतः ॥ 10 ॥

  11. परतिपेदे जरां राजा ययातिर नाहुषस तदा यौवनं परतिपेदे च पूरुः सवं पुनर आत्मनः ॥ 11 ॥

  12. अभिषेक्तु कामं नृपतिं पूरुं पुत्रं कनीयसम बराह्मण परमुखा वर्णा इदं वचनम अब्रुवन ॥ 12 ॥

  13. कथं शुक्रस्य नप्तारं देव यान्याः सुतं परभॊ जयेष्ठं यदुम अतिक्रम्य राज्यं पूरॊः परदास्यसि ॥ 13 ॥

  14. यदुर जयेष्ठस तव सुतॊ जातस तम अनु तुर्वसुः शर्मिष्ठायाः सुतॊ दरुह्युस ततॊ ऽनुः पूरुर एव च ॥ 14 ॥

  15. कथं जयेष्ठान अतिक्रम्य कनीयान राज्यम अर्हति एतत संबॊधयामस तवां धर्मं तवम अनुपालय ॥ 15 ॥

  16. [य] बराह्मण परमुखा वर्णाः सर्वे शृण्वन्तु मे वचः जयेष्ठं परति यथा राज्यं न देयं मे कथं चन ॥ 16 ॥

  17. मम जयेष्ठेन यदुना नियॊगॊ नानुपालितः परतिकूलः पितुर यश च न सपुत्रः सतां मतः ॥ 17 ॥

  18. मातापित्रॊर वचनकृद धितः पथ्यश च यः सुतः सपुत्रः पुत्रवद यश च वर्तते पितृमातृषु ॥ 18 ॥

  19. यदुनाहम अवज्ञातस तथा तुर्वसुनापि च दरुह्युना चानुना चैव मय्य अवज्ञा कृता भृशम ॥ 19 ॥

  20. पूरुणा मे कृतं वाक्यं मानितश च विशेषतः कनीयान मम दायादॊ जरा येन धृता मम मम कामः स च कृतः पूरुणा पुत्र रूपिणा ॥ 20 ॥

  21. शुक्रेण च वरॊ दत्तः काव्येनॊशनसा सवयम पुत्रॊ यस तवानुवर्तेत स राजा पृथिवीपतिः भवतॊ ऽनुनयाम्य एवं पूरू राज्ये ऽभिषिच्यताम ॥ 21 ॥

  22. [परकृतयह] यः पुत्रॊ गुणसंपन्नॊ मातापित्रॊर हितः सदा सर्वम अर्हति कल्याणं कनीयान अपि स परभॊ ॥ 22 ॥

  23. अर्हः पूरुर इदं राज्यं यः सुतः परियकृत तव वरदानेन शुक्रस्य न शक्यं वक्तुम उत्तरम ॥ 23 ॥

  24. [व] पौरजानपदैस तुष्टैर इत्य उक्तॊ नाहुषस तदा अभ्यषिञ्चत ततः पूरुं राज्ये सवे सुतम आत्मजम ॥ 24 ॥

  25. दत्त्वा च पूरवे राज्यं वनवासाय दीक्षितः पुरात स निर्ययौ राजा बराह्मणैस तापसैः सह ॥ 25 ॥

  26. यदॊस तु यादवा जातास तुर्वसॊर यवनाः सुताः दरुह्यॊर अपि सुता भॊजा अनॊस तु मलेच्छ जातयः ॥ 26 ॥

  27. पूरॊस तु पौरवॊ वंशॊ यत्र जातॊ ऽसि पार्थिव इदं वर्षसहस्राय राज्यं कारयितुं वशी ॥ 27 ॥

Reach this point to mark the section finished.

Continue to अध्याय 81

Previous: अध्याय 79