धर्मDharmic Data

आदिपर्व · Adi Parva

अध्याय 7

  1. [सूत] शप्तस तु भृगुणा वह्निः करुद्धॊ वाक्यम अथाब्रवीत किम इदं साहसं बरह्मन कृतवान असि सांप्रतम ॥ 1 ॥

  2. धर्मे परयतमानस्य सत्यं च वदतः समम पृष्टॊ यद अब्रुवं सत्यं वयभिचारॊ ऽतर कॊ मम ॥ 2 ॥

  3. पृष्टॊ हि साक्षी यः साक्ष्यं जानमानॊ ऽनयथा वदेत स पूर्वान आत्मनः सप्त कुले हन्यात तथा परान ॥ 3 ॥

  4. यश च कार्यार्थतत्त्वज्ञॊ जानमानॊ न भाषते सॊ ऽपि तेनैव पापेन लिप्यते नात्र संशयः ॥ 4 ॥

  5. शक्तॊ ऽहम अपि शप्तुं तवां मान्यास तु बराह्मणा मम जानतॊ ऽपि च ते वयक्तं कथयिष्ये निबॊध तत ॥ 5 ॥

  6. यॊगेन बहुधात्मानं कृत्वा तिष्ठामि मूर्तिषु अग्निहॊत्रेषु सत्रेषु करियास्व अथ मखेषु च ॥ 6 ॥

  7. वेदॊक्तेन विधानेन मयि यद धूयते हविः देवताः पितरश चैव तेन तृप्ता भवन्ति वै ॥ 7 ॥

  8. आपॊ देवगणाः सर्वे आपः पितृगणास तथा दर्शश च पौर्णमासश च देवानां पितृभिः सह ॥ 8 ॥

  9. देवताः पितरस तस्मात पितरश चापि देवताः एकीभूताश च पूज्यन्ते पृथक्त्वेन च पर्वसु ॥ 9 ॥

  10. देवताः पितरश चैव जुह्वते मयि यत सदा तरिदशानां पितॄणां च मुखम एवम अहं समृतः ॥ 10 ॥

  11. अमावास्यां च पितरः पौर्णमास्यां च देवताः मन मुखेनैव हूयन्ते भुञ्जते च हुतं हविः सर्वभक्षः कथं तेषां भविष्यामि मुखं तव अहम ॥ 11 ॥

  12. चिन्तयित्वा ततॊ वह्निश चक्रे संहारम आत्मनः दविजानाम अग्निहॊत्रेषु यज्ञसत्र करियासु च ॥ 12 ॥

  13. निरॊं कारवषट्काराः सवधा सवाहा विवर्जिताः विनाङ्गिना परजाः सर्वास तत आसन सुदुःखिताः ॥ 13 ॥

  14. अथर्षयः समुद्विग्ना देवान गत्वाब्रुवन वचः अग्निनाशात करिया भरंशाद भरान्ता लॊकास तरयॊ ऽनघाः विधध्वम अत्र यत कार्यं न सयात कालात्ययॊ यथा ॥ 14 ॥

  15. अथर्षयश च देवाश च बराह्मणम उपगम्य तु अग्नेर आवेदयञ शापं करिया संहारम एव च ॥ 15 ॥

  16. भृगुणा वै महाभाग शप्तॊ ऽगनिः कारणान्तरे कथं देव मुखॊ भूत्वा यज्ञभागाग्र भुक तथा हुतभुक सर्वलॊकेषु सर्वभक्षत्वम एष्यति ॥ 16 ॥

  17. शरुत्वा तु तद वचस तेषाम अग्निम आहूय लॊककृत उवाच वचनं शलक्ष्णं भूतभावनम अव्ययम ॥ 17 ॥

  18. लॊकानाम इह सर्वेषां तवं कर्ता चान्त एव च तवं धारयसि लॊकांस तरीन करियाणां च परवर्तकः स तथा कुरु लॊकेश नॊच्छिद्येरन करिया यथा ॥ 18 ॥

  19. कस्माद एवं विमूढस तवम ईश्वरः सन हुताशनः तवं पवित्रं यदा लॊके सर्वभूतगतश च ह ॥ 19 ॥

  20. न तवं सर्वशरीरेण सर्वभक्षत्वम एष्यसि उपादाने ऽरचिषॊ यास ते सर्वं धक्ष्यन्ति ताः शिखिन ॥ 20 ॥

  21. यथा सूर्यांशुभिः सपृष्टं सर्वं शुचि विभाव्यते तथा तवद अर्चिर निर्दग्धं सर्वं शुचि भविष्यति ॥ 21 ॥

  22. तद अग्ने तवं महत तेजः सवप्रभावाद विनिर्गतम सवतेजसैव तं शापं कुरु सत्यम ऋषेर विभॊ देवानां चात्मनॊ भागं गृहाण तवं मुखे हुतम ॥ 22 ॥

  23. एवम अस्त्व इति तं वह्निः परत्युवाच पितामहम जगाम शासनं कर्तुं देवस्य परमेष्ठिनः ॥ 23 ॥

  24. देवर्षयश च मुदितास ततॊ जग्मौर यथागतम ऋषयश च यथापूर्वं करियाः सर्वाः परचक्रिरे ॥ 24 ॥

  25. दिवि देवा मुमुदिरे भूतसंघाश च लौकिकाः अग्निश च परमां परीतिम अवाप हतकल्मषः ॥ 25 ॥

  26. एवम एष पुरावृत्त इतिहासॊ ऽगनिशापजः पुलॊमस्य विनाशश च चयवनस्य च संभवः ॥ 26 ॥

Reach this point to mark the section finished.

Continue to अध्याय 8

Previous: अध्याय 6