धर्मDharmic Data

आदिपर्व · Adi Parva

अध्याय 77

  1. [व] ययातिः सवपुरं पराप्य महेन्द्र पुरसंनिभम परविश्यान्तःपुरं तत्र देव यानीं नयवेशयत ॥ 1 ॥

  2. देव यान्याश चानुमते तां सुतां वृषपर्वणः अशॊकवनिकाभ्याशे गृहं कृत्वा नयवेशयत ॥ 2 ॥

  3. वृतां दासी सहस्रेण शर्मिष्ठाम आसुरायणीम वासॊभिर अन्नपानैश च संविभज्य सुसत्कृताम ॥ 3 ॥

  4. देव यान्या तु सहितः स नृपॊ नहुषात्मजः विजहार बहून अब्दान देववन मुदितॊ भृशम ॥ 4 ॥

  5. ऋतुकाले तु संप्राप्ते देव यानी वराङ्गना लेभे गर्भं परथमतः कुमारं च वयजायत ॥ 5 ॥

  6. गते वर्षसहस्रे तु शर्मिष्ठा वार्षपर्वणी ददर्श यौवनं पराप्ता ऋतुं सा चान्वचिन्तयत ॥ 6 ॥

  7. ऋतुकालश च संप्राप्तॊ न च मे ऽसति पतिर वृतः किं पराप्तं किं नु कर्तव्यं किं वा कृत्वा कृतं भवेत ॥ 7 ॥

  8. देव यानी परजातासौ वृथाहं पराप्तयौवना यथा तया वृतॊ भर्ता तथैवाहं वृणॊमि तम ॥ 8 ॥

  9. राज्ञा पुत्रफलं देयम इति मे निश्चिता मतिः अपीदानीं स धर्मात्मा इयान मे दर्शनं रहः ॥ 9 ॥

  10. अथ निष्क्रम्य राजासौ तस्मिन काले यदृच्छया अशॊकवनिकाभ्याशे शर्मिष्ठां पराप्य विष्ठितः ॥ 10 ॥

  11. तम एकं रहिते दृष्ट्वा शर्मिष्ठा चारुहासिनी परत्युद्गम्याञ्जलिं कृत्वा राजानं वाक्यम अब्रवीत ॥ 11 ॥

  12. सॊमस्येन्द्रस्य विष्णॊर वा यमस्य वरुणस्य वा तव वा नाहुष कुले कः सत्रियं सप्रष्टुम अर्हसि ॥ 12 ॥

  13. रूपाभिजन शीलैर हि तवं राजन वेत्थ मां सदा सा तवां याचे परसाद्याहम ऋतुं देहि नराधिप ॥ 13 ॥

  14. [य] वेद्मि तवां शीलसंपन्नां दैत्य कन्याम अनिन्दिताम रूपे च ते न पश्यामि सूच्य अग्रम अपि निन्दितम ॥ 14 ॥

  15. अब्रवीद उशना काव्यॊ देव यानीं यदावहम न यम आह्वयितव्या ते शयने वार्षपर्वणी ॥ 15 ॥

  16. [षर] न नर्म युक्तं वचनं हिनस्ति; न सत्रीषु राजन न विवाह काले पराणात्यये सर्वधनापहारे; पञ्चानृतान्य आहुर अपातकानि ॥ 16 ॥

  17. पृष्टं तु साक्ष्ये परवदन्तम अन्यथा; वदन्ति मिथ्यॊपहितं नरेन्द्र एकार्थतायां तु समाहितायां; मिथ्या वदन्तम अनृतं हिनस्ति ॥ 17 ॥

  18. [य] राजा परमाणं भूतानां स नश्येत मृषा वदन अर्थकृच्छ्रम अपि पराप्य न मिथ्या कर्तुम उत्सहे ॥ 18 ॥

  19. [षर] समाव एतौ मतौ राजन पतिः सख्याश च यः पतिः समं विवाहम इत्य आहुः सख्या मे ऽसि पतिर वृतः ॥ 19 ॥

  20. [य] दातव्यं याचमानेभ्य इति मे वरतम आहितम तवं च याचसि मां कामं बरूहि किं करवाणि ते ॥ 20 ॥

  21. [षर] अधर्मात तराहि मां राजन धर्मं च परतिपादय तवत्तॊ ऽपत्यवती लॊके चरेयं धर्मम उत्तमम ॥ 21 ॥

  22. तरय एवाधना राजन भार्या दासस तथा सुतः यत ते समधिपच्छन्ति यस्य ते तस्य तद धनम ॥ 22 ॥

  23. देव यान्या भुजिष्यास्मि वश्या च तव भार्गवी सा चाहं च तवया राजन भरणीये भजस्व माम ॥ 23 ॥

  24. [व] एवम उक्तस तु राजा स तथ्यम इत्य एव जज्ञिवान पूजयाम आस शर्मिष्ठां धर्मं च परत्यपादयत ॥ 24 ॥

  25. समागम्य च शर्मिष्ठां यथाकामम अवाप्य च अन्यॊन्यम अभिसंपूज्य जग्मतुस तौ यथागतम ॥ 25 ॥

  26. तस्मिन समागमे सुभ्रूः शर्मिष्ठा चारु हासिनी लेभे गर्भं परथमतस तस्मान नृपतिसत्तमात ॥ 26 ॥

  27. परजज्ञे च ततः काले राजन राजीवलॊचना कुमारं देवगर्भाभं राजीवनिभ लॊचनम ॥ 27 ॥

Reach this point to mark the section finished.

Continue to अध्याय 78

Previous: अध्याय 76