धर्मDharmic Data

आदिपर्व · Adi Parva

अध्याय 78

  1. [व] शरुत्वा कुमारं जातं तु देव यानी शुचिस्मिता चिन्तयाम आस दुःखार्ता शर्मिष्ठां परति भारत ॥ 1 ॥

  2. अभिगम्य च शर्मिष्ठां देव यान्य अब्रवीद इदम किम इदं वृजिनं सुभ्रु कृतं ते कामलुब्धया ॥ 2 ॥

  3. [षर] ऋषिर अभ्यागतः कश चिद धर्मात्मा वेदपारगः स मया वरदः कामं याचितॊ धर्मसंहितम ॥ 3 ॥

  4. नाहम अन्यायतः कामम आचरामि शुचिस्मिते तस्माद ऋषेर ममापत्यम इति सत्यं बरवीमि ते ॥ 4 ॥

  5. [देव] शॊभनं भीरु सत्यं चेद अथ स जञायते दविजः गॊत्र नामाभिजनतॊ वेत्तुम इच्छामि ते दविजम ॥ 5 ॥

  6. [षर] ओजसा तेजसा चैव दीप्यमानं रविं यथा तं दृष्ट्वा मम संप्रष्टुं शक्तिर नासीच छुचि समिते ॥ 6 ॥

  7. [देव] यद्य एतद एवं शर्मिष्ठे न मनुर विद्यते मम अपत्यं यदि ते लब्धं जयेष्ठाच छरेष्ठाच च वै दविजात ॥ 7 ॥

  8. [व] अन्यॊन्यम एवम उक्त्वा च संप्रहस्य च ते मिथः जगाम भार्गवी वेश्म तथ्यम इत्य एव जज्ञुषी ॥ 8 ॥

  9. ययातिर देव यान्यां तु पुत्राव अजनयन नृपः यदुं च तुर्वसुं चैव शक्र विष्णू इवापरौ ॥ 9 ॥

  10. तस्माद एव तु राजर्षेः शर्मिष्ठा वार्षपर्वणी दरुह्युं चानुं च पूरुं च तरीन कुमारान अजीजनत ॥ 10 ॥

  11. ततः काले तु कस्मिंश चिद देव यानी शुचिस्मिता ययाति सहिता राजन निर्जगाम महावनम ॥ 11 ॥

  12. ददर्श च तदा तत्र कुमारान देवरूपिणः करीडमानान सुविश्रब्धान विस्मिता चेदम अब्रवीत ॥ 12 ॥

  13. कस्यैते दारका राजन देवपुत्रॊपमाः शुभाः वर्चसा रूपतश चैव सदृशा मे मतास तव ॥ 13 ॥

  14. एवं पृष्ट्वा तु राजानं कुमारान पर्यपृच्छत किंनामधेय गॊत्रॊ वः पुत्रका बराह्मणः पिता विब्रूत मे यथातथ्यं शरॊतुम इच्छामि तं हय अहम ॥ 14 ॥

  15. ते ऽदर्शयन परदेशिन्या तम एव नृपसत्तमम शर्मिष्ठां मातरं चैव तस्याचख्युश च दारकाः ॥ 15 ॥

  16. इत्य उक्त्वा सहितास ते तु राजानम उपचक्रमुः नाभ्यनन्दत तान राजा देव यान्यास तदान्तिके रुदन्तस ते ऽथ शर्मिष्ठाम अभ्ययुर बालकास ततः ॥ 16 ॥

  17. दृष्ट्वा तु तेषां बालानां परणयं पार्थिवं परति बुद्ध्वा च तत्त्वतॊ देवी शर्मिष्ठाम इदम अब्रवीत ॥ 17 ॥

  18. मदधीना सती कस्माद अकार्षीर विप्रियं मम तम एवासुरधर्मं तवम आस्थिता न बिभेषि किम ॥ 18 ॥

  19. [ष] यद उक्तम ऋषिर इत्य एव तत सत्यं चारुहासिनि नयायतॊ धर्मतश चैव चरन्ती न बिभेमि ते ॥ 19 ॥

  20. यदा तवया वृतॊ राजा वृत एव तदा मया सखी भर्ता हि धर्मेण भर्ता भवति शॊभने ॥ 20 ॥

  21. पूज्यासि मम मान्या च जयेष्ठा शरेष्ठा च बराह्मणी तवत्तॊ ऽपि मे पूज्यतमॊ राजर्षिः किं न वेत्थ तत ॥ 21 ॥

  22. [व] शरुत्वा तस्यास ततॊ वाक्यं देव यान्य अब्रवीद इदम राजन नाद्येह वत्स्यामि विप्रियं मे कृतं तवया ॥ 22 ॥

  23. सहसॊत्पतितां शयामां दृष्ट्वा तां साश्रुलॊचनाम तवरितं सकाशं काव्यस्य परस्थितां वयथितस तदा ॥ 23 ॥

  24. अनुवव्राज संभ्रान्तः पृष्ठतः सान्त्वयन नृपः नयवर्तत न चैव सम करॊधसंरक्तलॊचना ॥ 24 ॥

  25. अविब्रुवन्ती किं चित तु राजानं चारुलॊचना अचिराद इव संप्राप्ता काव्यस्यॊशनसॊ ऽनतिकम ॥ 25 ॥

  26. सा तु दृष्ट्वैव पितरम अभिवाद्याग्रतः सथिता अनन्तरं ययातिस तु पूजयाम आस भार्गवम ॥ 26 ॥

  27. [देव] अधर्मेण जितॊ धर्मः परवृत्तम अधरॊत्तरम शर्मिष्ठयातिवृत्तास्मि दुहित्रा वृषपर्वणः ॥ 27 ॥

  28. तरयॊ ऽसयां जनिताः पुत्रा राज्ञानेन ययातिना दुर्भगाया मम दवौ तु पुत्रौ तात बरवीमि ते ॥ 28 ॥

  29. धर्मज्ञ इति विख्यात एष राजा भृगूद्वह अतिक्रान्तश च मर्यादां काव्यैतत कथयामि ते ॥ 29 ॥

  30. [षु] धर्मज्ञः सन महाराज यॊ ऽधर्मम अकृथाः परियम तस्माज जरा तवाम अचिराद धर्षयिष्यति दुर्जया ॥ 30 ॥

  31. [य] ऋतुं वै याचमानाया भगवन नान्यचेतसा दुहितुर दानवेन्द्रस्य धर्म्यम एतत कृतं मया ॥ 31 ॥

  32. ऋतुं वै याचमानाया न ददाति पुमान वृतः भरूणहेत्य उच्यते बरह्मन स इह बरह्मवादिभिः ॥ 32 ॥

  33. अभिकामां सत्रियं यस तु गम्यां रहसि याचितः नॊपैति स च धर्मेषु भरूणहेत्य उच्यते बुधैः ॥ 33 ॥

  34. इत्य एतानि समीक्ष्याहं कारणानि भृगूद्वह अधर्मभयसंविग्नः शर्मिष्ठाम उपजग्मिवान ॥ 34 ॥

  35. [षु] नन्व अहं परत्यवेष्क्यस ते मदधीनॊ ऽसि पार्थिव मिथ्याचारस्य धर्मेषु चौर्यं भवति नाहुष ॥ 35 ॥

  36. [व] करुद्धेनॊशनसा शप्तॊ ययातिर नाहुषस तदा पूर्वं वयः परित्यज्य जरां सद्यॊ ऽनवपद्यत ॥ 36 ॥

  37. [य] अतृप्तॊ यौवनस्याहं देव यान्यां भृगूद्वह परसादं कुरु मे बरह्मञ जरेयं मा विशेत माम ॥ 37 ॥

  38. [षु] नाहं मृषा बरवीम्य एतज जरां पराप्तॊ ऽसि भूमिप जरां तव एतां तवम अन्यस्मै संक्रामय यदीच्छसि ॥ 38 ॥

  39. [य] राज्यभाक स भवेद बरह्मन पुण्यभाक कीर्तिभाक तथा यॊ मे दद्याद वयः पुत्रस तद भवान अनुमन्यताम ॥ 39 ॥

  40. [षु] संक्रामयिष्यसि जरां यथेष्टं नहुषात्मज माम अनुध्याय भावेन न च पापम अवाप्स्यसि ॥ 40 ॥

  41. वयॊ दास्यति ते पुत्रॊ यः स राजा भविष्यति आयुष्मान कीर्तिमांश चैव बह्व अपत्यस तथैव च ॥ 41 ॥

Reach this point to mark the section finished.

Continue to अध्याय 79

Previous: अध्याय 77