धर्मDharmic Data

आदिपर्व · Adi Parva

अध्याय 76

  1. [व] अथ दीर्घस्य कालस्य देव यानी नृपॊत्तम वनं तद एव निर्याता करीडार्थं वरवर्णिनी ॥ 1 ॥

  2. तेन दासी सहस्रेण सार्धं शर्मिष्ठया तदा तम एव देशं संप्राप्ता यथाकामं चचार सा ताभिः सखीभिः सहिता सर्वाभिर मुदिता भृशम ॥ 2 ॥

  3. करीडन्त्यॊ ऽभिरताः सर्वाः पिबन्त्यॊ मधुमाधवीम खादन्त्यॊ विविधान भक्ष्यान विदशन्त्यः फलानि च ॥ 3 ॥

  4. पुनश च नाहुषॊ राजा मृगलिप्सुर यदृच्छया तम एव देशं संप्राप्तॊ जलार्थी शरमकर्शितः ॥ 4 ॥

  5. ददृशे देव यानीं च शर्मिष्ठां ताश च यॊषितः पिबन्तीर ललमानाश च दिव्याभरणभूषिताः ॥ 5 ॥

  6. उपविष्टां च ददृशे देव यानीं शुचिस्मिताम रूपेणाप्रतिमां तासां सत्रीणां मध्ये वराङ्गनाम शर्मिष्ठया सेव्यमानां पादसंवाहनादिभिः ॥ 6 ॥

  7. [य] दवाभ्यां कन्या सहस्राभ्यां दवे कन्ये परिवारिते गॊत्रे च नामनी चैव दवयॊः पृच्छामि वाम अहम ॥ 7 ॥

  8. [देव] आख्यास्याम्य अहम आदत्स्व वचनं मे नराधिप शुक्रॊ नामासुरगुरुः सुतां जानीहि तस्य माम ॥ 8 ॥

  9. इयं च मे सखी दासी यत्राहं तत्र गामिनी दुहिता दानवेन्द्रस्य शर्मिष्ठा वृषपर्वणः ॥ 9 ॥

  10. [य] कथं नु ते सखी दासी कन्येयं वरवर्णिनी असुरेन्द्र सुता सुभ्रु परं कौतूहलं हि मे ॥ 10 ॥

  11. [देव] सर्व एव नरव्याघ्र विधानम अनुवर्तते विधानविहितं मत्वा मा विचित्राः कथाः कृथाः ॥ 11 ॥

  12. राजवद रूपवेषौ ते बराह्मीं वाचं बिभर्षि च किंनामा तवं कुतश चासि कस्य पुत्रश च शंस मे ॥ 12 ॥

  13. [य] बरह्मचर्येण कृत्स्नॊ मे वेदः शरुतिपथं गतः राजाहं राजपुत्रश च ययातिर इति विश्रुतः ॥ 13 ॥

  14. [देव] केनास्य अर्थेन नृपते इमं देशम उपागतः जिघृक्षुर वारिजं किं चिद अथ वा मृगलिप्सया ॥ 14 ॥

  15. [य] मृगलिप्सुर अहं भद्रे पानीयार्थम उपागतः बहु चाप्य अनुयुक्तॊ ऽसमि तन मानुज्ञातुम अर्हसि ॥ 15 ॥

  16. [देव] दवाभ्यां कन्या सहस्राभ्यां दास्या शर्मिष्ठया सह तवदधीनास्मि भद्रं ते सखा भर्ता च मे भव ॥ 16 ॥

  17. [य] विद्ध्य औशनसि भद्रं ते न तवाम अर्हॊ ऽसमि भामिनि अविवाह्या हि राजानॊ देव यानि पितुस तव ॥ 17 ॥

  18. [देव] संसृष्टं बरह्मणा कषत्रं कषत्रं च बरह्म संहितम ऋषिश च ऋषिपुत्रश च नाहुषाङ्ग वदस्व माम ॥ 18 ॥

  19. [य] एकदेहॊद्भवा वर्णाश चत्वारॊ ऽपि वराङ्गने पृथग धर्माः पृथक शौचास तेषां तु बराह्मणॊ वरः ॥ 19 ॥

  20. [देव] पाणिधर्मॊ नाहुषायं न पुम्भिः सेवितः पुरा तं मे तवम अग्रहीर अग्रे वृणॊमि तवाम अहं ततः ॥ 20 ॥

  21. कथं नु मे मनस्विन्याः पाणिम अन्यः पुमान सपृशेत गृहीतम ऋषिपुत्रेण सवयं वाप्य ऋषिणा तवया ॥ 21 ॥

  22. [य] करुद्धाद आशीविषात सर्पाज जवलनात सर्वतॊ मुखात दुराधर्षतरॊ विप्रः पुरुषेण विजानता ॥ 22 ॥

  23. [देव] कथम आशीविषात सर्पाज जवलनात सर्वतॊ मुखात दुराधर्षतरॊ विप्र इत्य आत्थ पुरुषर्षभ ॥ 23 ॥

  24. [य] एकम आशीविषॊ हन्ति शस्त्रेणैकश च वध्यते हन्ति विप्रः सराष्ट्राणि पुराण्य अपि हि कॊपितः ॥ 24 ॥

  25. दुराधर्षतरॊ विप्रस तस्माद भीरु मतॊ मम अतॊ ऽदत्तां च पित्रा तवां भद्रे न विवहाम्य अहम ॥ 25 ॥

  26. [देव] दत्तां वहस्व पित्रा मां तवं हि राजन वृतॊ मया अयाचतॊ भयं नास्ति दत्तां च परतिगृह्णतः ॥ 26 ॥

  27. [व] तवरितं देव यान्याथ परेषितं पितुर आत्मनः शरुत्वैव च स राजानं दर्शयाम आस भार्गवः ॥ 27 ॥

  28. दृष्ट्वैव चागतं शुक्रं ययातिः पृथिवीपतिः ववन्दे बराह्मणं काव्यं पराञ्जलिः परणतः सथितः ॥ 28 ॥

  29. [देव] राजायं नाहुषस तात दुर्गे मे पाणिम अग्रहीत नमस ते देहि माम अस्मै नान्यं लॊके पतिं वृणे ॥ 29 ॥

  30. [षु] वृतॊ ऽनया पतिर वीर सुतया तवं ममेष्टया गृहाणेमां मया दत्तां महिषीं नहुषात्मज ॥ 30 ॥

  31. [य] अधर्मॊ न सपृशेद एवं महान माम इह भार्गव वर्णसंकरजॊ बरह्मन्न इति तवां परवृणॊम्य अहम ॥ 31 ॥

  32. [षु] अधर्मात तवां विमुञ्चामि वरयस्व यथेप्षितम अस्मिन विवाहे मा गलासीर अहं पापं नुदामि ते ॥ 32 ॥

  33. वहस्व भार्यां धर्मेण देव यानीं सुमध्यमाम अनया सह संप्रीतिम अतुलां समवाप्स्यसि ॥ 33 ॥

  34. इयं चापि कुमारी ते शर्मिष्ठा वार्षपर्वणी संपूज्या सततं राजन मा चैनां शयने हवयेः ॥ 34 ॥

  35. [व] एवम उक्तॊ ययातिस तु शुक्रं कृत्वा परदक्षिणम जगाम सवपुरं हृष्टॊ अनुज्ञातॊ महात्मना ॥ 35 ॥

Reach this point to mark the section finished.

Continue to अध्याय 77

Previous: अध्याय 75