[व] ततः काव्यॊ भृगुश्रेष्ठः समन्युर उपगम्य ह वृषपर्वाणम आसीनम इत्य उवाचाविचारयन ॥ 1 ॥
नाधर्मश चरितॊ राजन सद्यः फलति गौर इव पुत्रेषु वा नप्तृषु वा न चेद आत्मनि पश्यति फलत्य एव धरुवं पापं गुरु भुक्तम इवॊदरे ॥ 2 ॥
यद अघातयथा विप्रं कचम आङ्गिरसं तदा अपापशीलं धर्मज्ञं शुश्रूषं मद्गृहे रतम ॥ 3 ॥
वधाद अनर्हतस तस्य वधाच च दुहितुर मम वृषपर्वन निबॊधेदं तयक्ष्यामि तवां सबान्धवम सथातुं तवद विषये राजन न शक्ष्यामि तवया सह ॥ 4 ॥
अहॊ माम अभिजानासि दैत्य मिथ्या परलापिनम यथेमम आत्मनॊ दॊषं न नियच्छस्य उपेक्षसे ॥ 5 ॥
[वृ] नाधर्मं न मृषावादं तवयि जानामि भार्गव तवयि धर्मश च सत्यं च तत परसीदतु नॊ भवान ॥ 6 ॥
यद्य अस्मान अपहाय तवम इतॊ गच्छसि भार्गव समुद्रं संप्रवेष्क्यामॊ नान्यद अस्ति परायणम ॥ 7 ॥
[षु] समुद्रं परविशध्वं वा दिशॊ वा दरवतासुराः दुहितुर नाप्रियं सॊढुं शक्तॊ ऽहं दयिता हि मे ॥ 8 ॥
परसाद्यतां देव यानी जीवितं हय अत्र मे सथितम यॊगक्षेम करस ते ऽहम इन्द्रस्येव बृहस्पतिः ॥ 9 ॥
[वृ] यत किं चिद असुरेन्द्राणां विद्यते वसु भार्गव भुवि हस्तिगवाश्वं वा तस्य तवं मम चेश्वरः ॥ 10 ॥
[षु] यत किं चिद अस्ति दरविणं दैत्येन्द्राणां महासुर तस्येश्वरॊ ऽसमि यदि ते देव यानी परसाद्यताम ॥ 11 ॥
[देव] यदि तवम ईश्वरस तात राज्ञॊ वित्तस्य भार्गव नाभिजानामि तत ते ऽहं राजा तु वदतु सवयम ॥ 12 ॥
[वृ] यं कामम अभिकामासि देव यानि शुचिस्मिते तत ते ऽहं संप्रदास्यामि यदि चेद अपि दुर्लभम ॥ 13 ॥
[देव] दासीं कन्या सहस्रेण शर्मिष्ठाम अभिकामये अनु मां तत्र गच्छेत सा यत्र दास्यति मे पिता ॥ 14 ॥
[वृ] उत्तिष्ठ हे संग्रहीत्रि शर्मिष्ठां शीघ्रम आनय यं च कामयते कामं देव यानी करॊतु तम ॥ 15 ॥
[व] ततॊ धात्री तत्र गत्वा शर्मिष्ठां वाक्यम अब्रवीत उत्तिष्ठ भद्रे शर्मिष्ठे जञातीनां सुखम आवह ॥ 16 ॥
तयजति बराह्मणः शिष्यान देव यान्या परचॊदितः सा यं कामयते कामं स कार्यॊ ऽदय तवयानघे ॥ 17 ॥
[षर] सा यं कामयते कामं करवाण्य अहम अद्य तम मा तव एवापगमच छुक्रॊ देव यानी च मत्कृते ॥ 18 ॥
[व] ततः कन्या सहस्रेण वृता शिबिकया तदा पितुर नियॊगात तवरिता निश्चक्राम पुरॊत्तमात ॥ 19 ॥
[षर] अहं कन्या सहस्रेण दासी ते परिचारिका अनु तवां तत्र यास्यामि यत्र दास्यति ते पिता ॥ 20 ॥
[देव] सतुवतॊ दुहिता ते ऽहं बन्दिनः परतिगृह्णतः सतूयमानस्य दुहिता कथं दासी भविष्यसि ॥ 21 ॥
[षर] येन केन चिद आर्तानां जञातीनां सुखम आवहेत अतस तवाम अनुयास्यामि यत्र दास्यति ते पिता ॥ 22 ॥
[व] परतिश्रुते दासभावे दुहित्रा वृषपर्वणः देव यानी नृपश्रेष्ठ पितरं वाक्यम अब्रवीत ॥ 23 ॥
परविशामि पुरं तात तुष्टास्मि दविजसत्तम अमॊघं तव विज्ञानम अस्ति विद्या बलं च ते ॥ 24 ॥
एवम उक्तॊ दुहित्रा स दविजश्रेष्ठॊ महायशाः परविवेश पुरं हृष्टः पूजितः सर्वदानवैः ॥ 25 ॥
आदिपर्व · Adi Parva
अध्याय 75
Reach this point to mark the section finished.
Continue to अध्याय 76