[षु] यः परेषां नरॊ नित्यम अतिवादांस तितिक्षति देव यानि विजानीहि तेन सर्वम इदं जितम ॥ 1 ॥
यः समुत्पतितं करॊधं निगृह्णाति हयं यथा स यन्तेत्य उच्यते सद्भिर न यॊ रश्मिषु लम्बते ॥ 2 ॥
यः समुत्पतितं करॊधम अक्रॊधेन निरस्यति देव यानि विजानीहि तेन सर्वम इदं जितम ॥ 3 ॥
यः समुत्पतितं करॊधं कषमयेह निरस्यति यथॊरगस तवचं जीर्णां स वै पुरुष उच्यते ॥ 4 ॥
यः संधारयते मन्युं यॊ ऽतिवादांस तितिक्षति यश च तप्तॊ न तपति दृढं सॊ ऽरथस्य भाजनम ॥ 5 ॥
यॊ यजेद अपरिश्रान्तॊ मासि मासि शतं समाः न करुध्येद यश च सर्वस्य तयॊर अक्रॊधनॊ ऽधिकः ॥ 6 ॥
यत कुमारा कुमार्यश च वैरं कुर्युर अचेतसः न तत पराज्ञॊ ऽनुकुर्वीत विदुस ते न बलाबलम ॥ 7 ॥
[देव] वेदाहं तात बालापि धर्माणां यद इहान्तरम अक्रॊधे चातिवादे च वेद चापि बलाबलम ॥ 8 ॥
शिष्यस्याशिष्य वृत्तेर हि न कषन्तव्यं बुभूषता तस्मात संकीर्ण वृत्तेषु वासॊ मम न रॊचते ॥ 9 ॥
पुमांसॊ ये हि निन्दन्ति वृत्तेनाभिजनेन च न तेषु निवसेत पराज्ञः शरेयॊ ऽरथी पापबुद्धिषु ॥ 10 ॥
ये तव एनम अभिजानन्ति वृत्तेनाभिजनेन च तेषु साधुषु वस्तव्यं स वासः शरेष्ठ उच्यते ॥ 11 ॥
वाग दुरुक्तं महाघॊरं दुहितुर वृषपर्वणः न हय अतॊ दुष्करतरं मन्ये लॊकेष्व अपि तरिषु यः सपत्नश्रियं दीप्तां हीनश्रीः पर्युपासते ॥ 12 ॥
आदिपर्व · Adi Parva
अध्याय 74
Reach this point to mark the section finished.
Continue to अध्याय 75