[व] कृतविद्ये कचे पराप्ते हृष्टरूपा दिवौकसः कचाद अधीत्य तां विद्यां कृतार्था भरतर्षभ ॥ 1 ॥
सर्व एव समागम्य शतक्रतुम अथाब्रुवन कालस ते विक्रमस्याद्य जहि शत्रून पुरंदर ॥ 2 ॥
एवम उक्तस तु सहितैस तरिदशैर मघवांस तदा तथेत्य उक्त्वॊपचक्राम सॊ ऽपश्यत वने सत्रियः ॥ 3 ॥
करीडन्तीनां तु कन्यानां वने चैत्ररथॊपमे वायुभूतः स वस्त्राणि सर्वाण्य एव वयमिश्रयत ॥ 4 ॥
ततॊ जलात समुत्तीर्य कन्यास ताः सहितास तदा वस्त्राणि जगृहुस तानि यथासन्नान्य अनेकशः ॥ 5 ॥
तत्र वासॊ देव यान्याः शर्मिष्ठा जगृहे तदा वयतिमिश्रम अजानन्ती दुहिता वृषपर्वणः ॥ 6 ॥
ततस तयॊर मिथस तत्र विरॊधः समजायत देव यान्याश च राजेन्द्र शर्मिष्ठायाश च तत कृते ॥ 7 ॥
[देव] कस्माद गृह्णासि मे वस्त्रं शिष्या भूत्वा ममासुरि समुदाचार हीनाया न ते शरेयॊ भविष्यति ॥ 8 ॥
[षर] आसीनं च शयानं च पिता ते पितरं मम सतौति वन्दति चाभीक्ष्णं नीचैः सथित्वा विनीतवत ॥ 9 ॥
याचतस तवं हि दुहिता सतुवतः परतिगृह्णतः सुताहं सतूयमानस्य ददतॊ ऽपरतिगृह्णतः ॥ 10 ॥
अनायुधा सायुधाया रिक्ता कषुभ्यसि भिक्षुकि लप्स्यसे परतियॊद्धारं न हि तवां गणयाम्य अहम ॥ 11 ॥
[व] समुच्छ्रयं देव यानीं गतां सक्तां च वाससि शर्मिष्ठा पराक्षिपत कूपे ततः सवपुरम आव्रजत ॥ 12 ॥
हतेयम इति विज्ञाय शर्मिष्ठा पापनिश्चया अनवेक्ष्य ययौ वेश्म करॊधवेगपरायणाः ॥ 13 ॥
अथ तं देशम अभ्यागाद ययातिर नहुषात्मजः शरान्तयुग्यः शरान्तहयॊ मृगलिप्सुः पिपासितः ॥ 14 ॥
स नाहुषः परेक्षमाण उदपानं गतॊदकम ददर्श कन्यां तां तत्र दीप्ताम अग्निशिखाम इव ॥ 15 ॥
ताम अपृच्छत स दृष्ट्वैव कन्याम अमर वर्णिनीम सान्त्वयित्वा नृपश्रेष्ठः साम्ना परमवल्गुना ॥ 16 ॥
का तवं ताम्रनखी शयामा सुमृष्टमणिकुण्डला दीर्घं धयायसि चात्यर्थं कस्माच छवसिषि चातुरा ॥ 17 ॥
कथं च पतितास्य अस्मिन कूपे वीरुत तृणावृते दुहिता चैव कस्य तवं वद सर्वं सुमध्यमे ॥ 18 ॥
[देव] यॊ ऽसौ देवैर हतान दैत्यान उत्थापयति विद्यया तस्य शुक्रस्य कन्याहं स मां नूनं न बुध्यते ॥ 19 ॥
एष मे दक्षिणॊ राजन पाणिस ताम्रनखाङ्गुलिः समुद्धर गृहीत्वा मां कुलीनस तवं हि मे मतः ॥ 20 ॥
जानामि हि तवां संशान्तं वीर्यवन्तं यशस्विनम तस्मान मां पतिताम अस्मात कूपाद उद्धर्तुम अर्हसि ॥ 21 ॥
[व] ताम अथ बराह्मणीं सत्रीं च विज्ञाय नहुषात्मजः गृहीत्वा दक्षिणे पाणाव उज्जहार ततॊ ऽवटात ॥ 22 ॥
उद्धृत्य चैनां तरसा तस्मात कूपान नराधिपः आमन्त्रयित्वा सुश्रॊणीं ययातिः सवपुरं ययौ ॥ 23 ॥
[देव] तवरितं घूर्णिके गच्छ सर्वम आचक्ष्व मे पितुः नेदानीं हि परवेक्यामि नगरं वृषपर्वणः ॥ 24 ॥
[व] सा तु वै तवरितं गत्वा घूर्णिकासुरमन्दिरम दृष्ट्वा काव्यम उवाचेदं संभ्रमाविष्टचेतना ॥ 25 ॥
आचक्षे ते महाप्राज्ञ देव यानी वने हता शर्मिष्ठया महाभाग दुहित्रा वृषपर्वणः ॥ 26 ॥
शरुत्वा दुहितरं काव्यस तत्र शर्मिष्ठया हताम तवरया निर्ययौ दुःखान मार्गमाणः सुतां वने ॥ 27 ॥
दृष्ट्वा दुहितरं काव्यॊ देव यानीं ततॊ वने बाहुभ्यां संपरिष्वज्य दुःखितॊ वाक्यम अब्रवीत ॥ 28 ॥
आत्मदॊषैर नियच्छन्ति सर्वे दुःखसुखे जनाः मन्ये दुश्चरितं ते ऽसति यस्येयं निष्कृतिः कृता ॥ 29 ॥
[देव] निष्कृतिर मे ऽसतु वा मास्तु शृणुष्वावहितॊ मम शर्मिष्ठया यद उक्तास्मि दुहित्रा वृषपर्वणः सत्यं किलैतत सा पराह दैत्यानाम असि गायनः ॥ 30 ॥
एवं हि मे कथयति शर्मिष्ठा वार्षपर्वणी वचनं तीक्ष्णपरुषं करॊधरक्तेक्षणा भृशम ॥ 31 ॥
सतुवतॊ दुहिता हि तवं याचतः परतिगृह्णतः सुताहं सतूयमानस्य ददतॊ ऽपरतिगृह्णतः ॥ 32 ॥
इति माम आह शर्मिष्ठा दुहिता वृषपर्वणः करॊधसंरक्तनयना दर्पपूर्णा पुनः पुनः ॥ 33 ॥
यद्य अहं सतुवतस तात दुहिता परतिगृह्णतः परसादयिष्ये शर्मिष्ठाम इत्य उक्ता हि सखी मया ॥ 34 ॥
[षुक्र] सतुवतॊ दुहिता न तवं भद्रे न परतिगृह्णतः अस्तॊतुः सतुयमानस्य दुहिता देव यान्य असि ॥ 35 ॥
वृषपर्वैव तद वेद शक्रॊ राजा च नाहुषः अचिन्त्यं बरह्म निर्द्वन्द्वम ऐश्वरं हि बलं मम ॥ 36 ॥
आदिपर्व · Adi Parva
अध्याय 73
Reach this point to mark the section finished.
Continue to अध्याय 74