धर्मDharmic Data

आदिपर्व · Adi Parva

अध्याय 72

  1. [व] समावृत्त वरतं तं तु विसृष्टं गुरुणा तदा परस्थितं तरिदशावासं देव यान्य अब्रवीद इदम ॥ 1 ॥

  2. ऋषेर अङ्गिरसः पौत्र वृत्तेनाभिजनेन च भराजसे विद्यया चैव तपसा च दमेन च ॥ 2 ॥

  3. ऋषिर यथाङ्गिरा मान्यः पितुर मम महायशाः तथा मान्यश च पूज्यश च भूयॊ मम बृहस्पतिः ॥ 3 ॥

  4. एवं जञात्वा विजानीहि यद बरवीमि तपॊधन वरतस्थे नियमॊपेते यथा वर्ताम्य अहं तवयि ॥ 4 ॥

  5. स समावृत्त विद्यॊ मां भक्तां भजितुम अर्हसि गृहाण पाणिं विधिवन मम मन्त्रपुरस्कृतम ॥ 5 ॥

  6. [कच] पूज्यॊ मान्यश च भगवान यथा तव पिता मम तथा तवम अनवद्याङ्गि पूजनीयतरा मम ॥ 6 ॥

  7. आत्मप्राणैः परियतमा भार्गवस्य महात्मनः तवं भद्रे धर्मतः पूज्या गुरुपुत्री सदा मम ॥ 7 ॥

  8. यथा मम गुरुर नित्यं मान्यः शुक्रः पिता तव देव यानि तथैव तवं नैवं मां वक्तुम अर्हसि ॥ 8 ॥

  9. [देव] गुरुपुत्रस्य पुत्रॊ वै न तु तवम असि मे पितुः तस्मान मान्यश च पूज्यश च ममापि तवं दविजॊत्तम ॥ 9 ॥

  10. असुरैर हन्यमाने च कच तवयि पुनः पुनः तदा परभृति या परीतिस तां तवम एव समरस्व मे ॥ 10 ॥

  11. सौहार्दे चानुरागे च वेत्थ मे भक्तिम उत्तमाम न माम अर्हसि धर्मज्ञ तयक्तुं भक्ताम अनागसम ॥ 11 ॥

  12. [क] अनियॊज्ये नियॊगे मां नियुनक्षि शुभव्रते परसीद सुभ्रु तवं मह्यं गुरॊर गुरुतरी शुभे ॥ 12 ॥

  13. यत्रॊषितं विशालाक्षि तवया चन्द्रनिभानने तत्राहम उषितॊ भद्रे कुक्षौ काव्यस्य भामिनि ॥ 13 ॥

  14. भगिनी धर्मतॊ मे तवं मैवं वॊचः शुभानने सुखम अस्म्य उषितॊ भद्रे न मन्युर विद्यते मम ॥ 14 ॥

  15. आपृच्छे तवां गमिष्यामि शिवम आशंस मे पथि अविरॊधेन धर्मस्य समर्तव्यॊ ऽसमि कथान्तरे अप्रमत्तॊत्थिता नित्यम आराधय गुरुं मम ॥ 15 ॥

  16. [देव] यदि मां धर्मकामार्थे परत्याख्यास्यसि चॊदितः ततः कच न ते विद्या सिद्धिम एषा गमिष्यति ॥ 16 ॥

  17. [क] गुरुपुत्रीति कृत्वाहं परत्याचक्षे न दॊषतः गुरुणा चाभ्यनुज्ञातः कामम एवं शपस्व माम ॥ 17 ॥

  18. आर्षं धर्मं बरुवाणॊ ऽहं देव यानि यथा तवया शप्तॊ नार्हॊ ऽसमि शापस्य कामतॊ ऽदय न धर्मतः ॥ 18 ॥

  19. तस्माद भवत्या यः कामॊ न तथा स भविष्यति ऋषिपुत्रॊ न ते कश चिज जातु पाणिं गरहीष्यति ॥ 19 ॥

  20. फलिष्यति न ते विद्या यत तवं माम आत्थ तत तथा अध्यापयिष्यामि तु यं तस्य विद्या फलिष्यति ॥ 20 ॥

  21. [व] एवम उक्त्वा दविजश्रेष्ठॊ देव यानीं कचस तदा तरिदशेशालयं शीघ्रं जगाम दविजसत्तमः ॥ 21 ॥

  22. तम आगतम अभिप्रेक्ष्य देवा इन्द्रपुरॊगमाः बृहस्पतिं सभाज्येदं कचम आहुर मुदान्विताः ॥ 22 ॥

  23. यत तवम अस्मद्धितं कर्म चकर्थ परमाद्भुतम न ते यशः परणशिता भागभान नॊ भविष्यसि ॥ 23 ॥

Reach this point to mark the section finished.

Continue to अध्याय 73

Previous: अध्याय 71