धर्मDharmic Data

आदिपर्व · Adi Parva

अध्याय 70

  1. [व] परजापतेस तु दक्षस्य मनॊर वैवस्वतस्य च भरतस्य कुरॊः पूरॊर अजमीढस्य चान्वये ॥ 1 ॥

  2. यादवानाम इमं वंशं पौरवाणां च सर्वशः तथैव भारतानां च पुण्यं सवस्त्य अयनं महत धन्यं यशस्यम आयुष्यं कीर्तयिष्यामि ते ऽनघ ॥ 2 ॥

  3. तेजॊभिर उदिताः सर्वे महर्षिसमतेजसः दश परचेतसः पुत्राः सन्तः पूर्वजनाः समृताः मेघजेनाग्निना ये ते पूर्वं दग्धा महौजसः ॥ 3 ॥

  4. तेभ्यः पराचेतसॊ जज्ञे दक्षॊ दक्षाद इमाः परजाः संभूताः पुरुषव्याघ्र स हि लॊकपितामहः ॥ 4 ॥

  5. वीरिण्या सह संगम्य दक्षः पराचेतसॊ मुनिः आत्मतुल्यान अजनयत सहस्रं संशितव्रतान ॥ 5 ॥

  6. सहस्रसंख्यान समितान सुतान दक्षस्य नारदः मॊक्षम अध्यापयाम आस सांख्यज्ञानम अनुत्तमम ॥ 6 ॥

  7. ततः पञ्चाशतं कन्याः पुत्रिका अभिसंदधे परजापतेः परजा दक्षः सिसृक्षुर जनमेजय ॥ 7 ॥

  8. ददौ स दश धर्माय कश्यपाय तरयॊदश कालस्य नयने युक्ताः सप्त विंशतिम इन्दवे ॥ 8 ॥

  9. तरयॊदशानां पत्नीनां या तु दाक्षायणी वरा मारीचः कश्यपस तस्याम आदित्यान समजीजनत इन्द्रादीन वीर्यसंपन्नान विवस्वन्तम अथापि च ॥ 9 ॥

  10. विवस्वतः सुतॊ जज्ञे यमॊ वैवस्वतः परभुः मार्तण्डश च यमस्यापि पुत्रॊ राजन्न अजायत ॥ 10 ॥

  11. मार्तण्डस्य मनुर धीमान अजायत सुतः परभुः मनॊर वंशॊ मानवानां ततॊ ऽयं परथितॊ ऽभवत बरह्मक्षत्रादयस तस्मान मनॊर जातास तु मानवाः ॥ 11 ॥

  12. तत्राभवत तदा राजन बरह्मक्षत्रेण संगतम बराह्मणा मानवास तेषां साङ्गं वेदम अदीधरन ॥ 12 ॥

  13. वेनं धृष्णुं नरिष्यन्तं नाभागेक्ष्वाकुम एव च करूषम अथ शर्यातिं तत्रैवात्राष्टमीम इलाम ॥ 13 ॥

  14. पृषध्र नवमान आहुः कषत्रधर्मपरायणान नाभागारिष्ट दशमान मनॊः पुत्रान महाबलान ॥ 14 ॥

  15. पञ्चाशतं मनॊः पुत्रास तथैवान्ये ऽभवन कषितौ अन्यॊन्यभेदात ते सर्वे निनेशुर इति नः शरुतम ॥ 15 ॥

  16. पुरूरवास ततॊ विद्वान इलायां समपद्यत सा वै तस्याभवन माता पिता चेति हि नः शरुतम ॥ 16 ॥

  17. तरयॊदश समुद्रस्य दवीपान अश्नन पुरूरवाः अमानुषैर वृतः सत्त्वैर मानुषः सन महायशाः ॥ 17 ॥

  18. विप्रैः स विग्रहं चक्रे वीर्यॊन्मत्तः पुरूरवाः जहार च स विप्राणां रत्नान्य उत्क्रॊशताम अपि ॥ 18 ॥

  19. सनत्कुमारस तं राजन बरह्मलॊकाद उपेत्य ह अनुदर्शयां ततश चक्रे परत्यगृह्णान न चाप्य असौ ॥ 19 ॥

  20. ततॊ महर्षिभिः करुद्धैः शप्तः सद्यॊ वयनश्यत लॊभान्वितॊ मदबलान नष्टसंज्ञॊ नराधिपः ॥ 20 ॥

  21. स हि गन्धर्वलॊकस्थ उर्वश्या सहितॊ विराट आनिनाय करियार्थे ऽगनीन यथावद विहितांस तरिधा ॥ 21 ॥

  22. षट पुत्रा जज्ञिरे ऽथैलाद आयुर धीमान अमावसुः दृढायुश च वनायुश च शरुतायुश चॊर्वशी सुताः ॥ 22 ॥

  23. नहुषं वृद्धशर्माणं रजिं रम्भम अनेनसम सवर भावनी सुतान एतान आयॊः पुत्रान परचक्षते ॥ 23 ॥

  24. आयुषॊ नहुषः पुत्रॊ धीमान सत्यपराक्रमः राज्यं शशास सुमहद धर्मेण पृथिवीपतिः ॥ 24 ॥

  25. पितॄन देवान ऋषीन विप्रान गन्धर्वॊरगराक्षसान नहुषः पालयाम आस बरह्मक्षत्रम अथॊ विशः ॥ 25 ॥

  26. स हत्वा दस्यु संघातान ऋषीन करम अदापयत पशुवच चैव तान पृष्ठे वाहयाम आस वीर्यवान ॥ 26 ॥

  27. कारयाम आस चेन्द्रत्वम अभिभूय दिवौकसः तेजसा तपसा चैव विक्रमेणौजसा तथा ॥ 27 ॥

  28. यतिं ययातिं संयातिम आयातिं पाञ्चम उद्धवम नहुषॊ जनयाम आस षट पुत्रान परियवाससि ॥ 28 ॥

  29. ययातिर नाहुषः सम्राड आसीत सत्यपराक्रमः स पालयाम आस महीम ईजे च विविधैः सवैः ॥ 29 ॥

  30. अतिशक्त्या पितॄन अर्चन देवांश च परयतः सदा अन्वगृह्णात परजाः सर्वा ययातिर अपराजितः ॥ 30 ॥

  31. तस्य पुत्रा महेष्वासाः सर्वैः समुदिता गुणैः देव यान्यां महाराज शर्मिष्ठायां च जज्ञिरे ॥ 31 ॥

  32. देव यान्याम अजायेतां यदुस तुर्वसुर एव च दरुह्युश चानुश च पूरुश च शर्मिष्ठायां परजज्ञिरे ॥ 32 ॥

  33. स शाश्वतीः समा राजन परजा धर्मेण पालयन जराम आर्छन महाघॊरां नाहुषॊ रूपनाशिनीम ॥ 33 ॥

  34. जराभिभूतः पुत्रान स राजा वचनम अब्रवीत यदुं पूरुं तुर्वसुं च दरुह्युं चानुं च भारत ॥ 34 ॥

  35. यौवनेन चरन कामान युवा युवतिभिः सह विहर्तुम अहम इच्छामि साह्यं कुरुत पुत्रकाः ॥ 35 ॥

  36. तं पुत्रॊ देवयानेयः पूर्वजॊ यदुर अब्रवीत किं कार्यं भवतः कार्यम अस्माभिर यौवनेन च ॥ 36 ॥

  37. ययातिर अब्रवीत तं वै जरा मे परतिगृह्यताम यौवनेन तवदीयेन चरेयं विषयान अहम ॥ 37 ॥

  38. यजतॊ दीर्घसत्रैर मे शापाच चॊशनसॊ मुनेः कामार्थः परिहीणॊ मे तप्ये ऽहं तेन पुत्रकाः ॥ 38 ॥

  39. मामकेन शरीरेण राज्यम एकः परशास्तु वः अहं तन्वाभिनवया युवा कामान अवाप्नुयाम ॥ 39 ॥

  40. न ते तस्य परत्यगृह्णन यदुप्रभृतयॊ जराम तम अब्रवीत ततः पूरुः कनीयान सत्यविक्रमः ॥ 40 ॥

  41. राजंश चराभिनवया तन्वा यौवनगॊचरः अहं जरां समास्थाय राज्ये सथास्यामि त आज्ञया ॥ 41 ॥

  42. एवम उक्तः स राजर्षिर तपॊ वीर्यसमाश्रयात संचारयाम आस जरां तदा पुत्रे महात्मनि ॥ 42 ॥

  43. पौरवेणाथ वयसा राजा यौवनम आस्थितः यायातेनापि वयसा राज्यं पूरुर अकारयत ॥ 43 ॥

  44. ततॊ वर्षसहस्रान्ते ययातिर अपराजितः अतृप्त एव कामानां पूरुं पुत्रम उवाच ह ॥ 44 ॥

  45. तवया दायादवान अस्मि तवं मे वंशकरः सुतः पौरवॊ वंश इति ते खयातिं लॊके गमिष्यति ॥ 45 ॥

  46. ततः स नृपशार्दूलः पूरुं राज्ये ऽभिषिच्य च कालेन महता पश्चात कालधर्मम उपेयिवान ॥ 46 ॥

Reach this point to mark the section finished.

Continue to अध्याय 71

Previous: अध्याय 69