[व] परतिज्ञाय तु दुःषन्ते परतियाते शकुन्तला गर्भं सुषाव वामॊरुः कुमारम अमितौजसम ॥ 1 ॥
तरिषु वर्षेषु पूर्णेषु दिप्तानल समद्युतिम रूपौदार्यगुणॊपेतं दौःषन्तिं जनमेजय ॥ 2 ॥
जातकर्मादि संस्कारं कण्वः पुण्यकृतां वरः तस्याथ कारयाम आस वर्धमानस्य धीमतः ॥ 3 ॥
दन्तैः शुक्लैः शिखरिभिः सिंहसंहननॊ युवा चक्राङ्कित करः शरीमान महामूर्धा महाबलः कुमारॊ देवगर्भाभः स तत्राशु वयवर्धत ॥ 4 ॥
षड वर्ष एव बालः स कण्वाश्रमपदं परति वयाघ्रान सिंहान वराहांश च गजांश च महिषांस तथा ॥ 5 ॥
बद्ध्वा वृक्षेषु बलवान आश्रमस्य समन्ततः आरॊहन दमयंश चैव करीडंश च परिधावति ॥ 6 ॥
ततॊ ऽसय नाम चक्रुस ते कण्वाश्रमनिवासिनः अस्त्व अयं सर्वदमनः सर्वं हि दमयत्य अयम ॥ 7 ॥
स सर्वदमनॊ नाम कुमारः समपद्यत विक्रमेणौजसा चैव बलेन च समन्वितः ॥ 8 ॥
तं कुमारम ऋषिर दृष्ट्वा कर्म चास्यातिमानुषम समयॊ यौव राज्यायेत्य अब्रवीच च शकुन्तलाम ॥ 9 ॥
तस्य तद बलम आज्ञाय कण्वः शिष्यान उवाच ह शकुन्तलाम इमां शीघ्रं सहपुत्राम इत आश्रमात भर्त्रे परापयताद्यैव सर्वलक्षणपूजिताम ॥ 10 ॥
नारीणां चिरवासॊ हि बान्धवेषु न रॊचते कीर्तिचारित्रधर्मघ्नस तस्मान नयत माचिरम ॥ 11 ॥
तथेत्य उक्त्वा तु ते सर्वे परातिष्ठन्तामितौजसः शकुन्तलां पुरस्कृत्य सपुत्रां गजसाह्वयम ॥ 12 ॥
गृहीत्वामर गर्भाभं पुत्रं कमललॊचनम आजगाम ततः शुभ्रा दुःषन्त विदिताद वनात ॥ 13 ॥
अभिसृत्य च राजानं विदिता सा परवेशिता सह तेनैव पुत्रेण तरुणादित्यवर्चसा ॥ 14 ॥
पूजयित्वा यथान्यायम अब्रवीत तं शकुन्तला अयं पुत्रस तवया राजन यौव राज्ये ऽभिषिच्यताम ॥ 15 ॥
तवया हय अयं सुतॊ राजन मय्य उत्पन्नः सुरॊपमः यथा समयम एतस्मिन वर्तस्व पुरुषॊत्तम ॥ 16 ॥
यथा समागमे पूर्वं कृतः स समयस तवया तं समरस्व महाभाग कण्वाश्रमपदं परति ॥ 17 ॥
सॊ ऽथ शरुत्वैव तद वाक्यं तस्या राजा समरन्न अपि अब्रवीन न समरामीति कस्य तवं दुष्टतापसि ॥ 18 ॥
धर्मकामार्थ संबन्धं न समरामि तवया सह गच्छ वा तिष्ठ वा कामं यद वापीच्छसि तत कुरु ॥ 19 ॥
सैवम उक्ता वरारॊहा वरीडितेव मनस्विनी विसंज्ञेव च दुःखेन तस्थौ सथाणुर इवाचला ॥ 20 ॥
संरम्भामर्ष ताम्राक्षी सफुरमाणौष्ठ संपुटा कटाक्षैर निर्दहन्तीव तिर्यग राजानम ऐक्षत ॥ 21 ॥
आकारं गूहमाना च मन्युनाभिसमीरिता तपसा संभृतं तेजॊ धारयाम आस वै तदा ॥ 22 ॥
सा मुहूर्तम इव धयात्वा दुःखामर्ष समन्विता भर्तारम अभिसंप्रेक्ष्य करुद्धा वचनम अब्रवीत ॥ 23 ॥
जानन्न अपि महाराज कस्माद एवं परभाषसे न जानामीति निःसङ्गं यथान्यः पराकृतस तथा ॥ 24 ॥
अत्र ते हृदयं वेद सत्यस्यैवानृतस्य च कल्याण बत साक्षी तवं मात्मानम अवमन्यथाः ॥ 25 ॥
यॊ ऽनयथा सन्तम आत्मानम अन्यथा परतिपद्यते किं तेन न कृतं पापं चॊरेणात्मापहारिणा ॥ 26 ॥
एकॊ ऽहम अस्मीति च मन्यसे तवं; न हृच्छयं वेत्सि मुनिं पुराणम यॊ वेदिता कर्मणः पापकस्य; यस्यान्तिके तवं वृजिनं करॊषि ॥ 27 ॥
मन्यते पापकं कृत्वा न कश चिद वेत्ति माम इति विदन्ति चैनं देवाश च सवश चैवान्तर पूरुषः ॥ 28 ॥
आदित्यचन्द्राव अनिलानलौ च; दयौर भूमिर आपॊ हृदयं यमश च अहश च रात्रिश च उभे च संध्ये; धर्मश च जानाति नरस्य वृत्तम ॥ 29 ॥
यमॊ वैवस्वतस तस्य निर्यातयति दुष्कृतम हृदि सथितः कर्म साक्षी कषेत्रज्ञॊ यस्य तुष्यति ॥ 30 ॥
न तु तुष्यति यस्यैष पुरुषस्य दुरात्मनः तं यमः पापकर्माणं निर्यातयति दुष्कृतम ॥ 31 ॥
अवमन्यात्मनात्मानम अन्यथा परतिपद्यते देवा न तस्य शरेयांसॊ यस्यात्मापि न कारणम ॥ 32 ॥
सवयं पराप्तेति माम एवं मावमंस्थाः पतिव्रताम अर्घ्यार्हां नार्चयसि मां सवयं भार्याम उपस्थिताम ॥ 33 ॥
किमर्थं मां पराकृतवद उपप्रेक्षसि संसदि न खल्व अहम इदं शून्ये रौमि किं न शृणॊषि मे ॥ 34 ॥
यदि मे याचमानाया वचनं न करिष्यसि दुःषन्त शतधा मूर्धा ततस ते ऽदय फलिष्यति ॥ 35 ॥
भार्यां पतिः संप्रविश्य स यस्माज जायते पुनः जायाया इति जायात्वं पुराणाः कवयॊ विदुः ॥ 36 ॥
यद आगमवतः पुंसस तद अपत्यं परजायते तत तारयति संतत्या पूर्वप्रेतान पितामहान ॥ 37 ॥
पुन नाम्नॊ नरकाद यस्मात पितरं तरायते सुतः तस्मात पुत्र इति परॊक्तः सवयम एव सवयम्भुवा ॥ 38 ॥
सा भार्या या गृहे दक्षा सा भार्या या परजावती सा भार्या या पतिप्राणा सा भार्या या पतिव्रता ॥ 39 ॥
अर्धं भार्या मनुष्यस्य भार्या शरेष्ठतमः सखा भार्या मूलं तरिवर्गस्य भार्या मित्रं मरिष्यतः ॥ 40 ॥
भार्यावन्तः करियावन्तः सभार्या गृहमेधिनः भार्यावन्तः परमॊदन्ते भार्यावन्तः शरियान्विताः ॥ 41 ॥
सखायः परविविक्तेषु भवन्त्य एताः परियंवदाः पितरॊ धर्मकार्येषु भवन्त्य आर्तस्य मातरः ॥ 42 ॥
कान्तारेष्व अपि विश्रामॊ नरस्याध्वनिकस्य वै यः सदारः स विश्वास्यस तस्माद दाराः परा गतिः ॥ 43 ॥
संसरन्तम अपि परेतं विषमेष्व एकपातिनम भार्यैवान्वेति भर्तारं सततं या पतिव्रता ॥ 44 ॥
परथमं संस्थिता भार्या पतिं परेत्य परतीक्षते पूर्वं मृतं च भर्तारं पश्चात साध्व्य अनुगच्छति ॥ 45 ॥
एतस्मात कारणाद राजन पाणिग्रहणम इष्यते यद आप्नॊति पतिर भार्याम इह लॊके परत्र च ॥ 46 ॥
आत्मात्मनैव जनितः पुत्र इत्य उच्यते बुधैः तस्माद भार्यां नरः पश्येन मातृवत पुत्र मातरम ॥ 47 ॥
भार्यायां जनितं पुत्रम आदर्शे सवम इवाननम हलादते जनिता परेष्क्य सवर्गं पराप्येव पुण्यकृत ॥ 48 ॥
दह्यमाना मनॊदुःखैर वयाधिभिश चातुरा नराः हलादन्ते सवेषु दारेषु घर्मार्ताः सलिलेष्व इव ॥ 49 ॥
सुसंरब्धॊ ऽपि रामाणां न बरूयाद अप्रियं बुधः रतिं परीतिं च धर्मं च तास्व आयत्तम अवेक्ष्य च ॥ 50 ॥
आत्मनॊ जन्मनः कषेत्रं पुण्यं रामाः सनातनम ऋषीणाम अपि का शक्तिः सरष्टुं रामाम ऋते परजाः ॥ 51 ॥
परिपत्य यदा सूनुर धरणी रेणुगुण्ठितः पितुर आश्लिष्यते ऽङगानि किम इवास्त्य अधिकं ततः ॥ 52 ॥
स तवं सवयम अनुप्राप्तं साभिलाषम इमं सुतम परेक्षमाणं च काक्षेण किमर्थम अवमन्यसे ॥ 53 ॥
अण्डानि बिभ्रति सवानि न भिन्दन्ति पिपीलिकाः न भरेथाः कथं नु तवं धर्मज्ञः सन सवम आत्मजम ॥ 54 ॥
न वाससां न रामाणां नापां सपर्शस तथा सुखः शिशॊर आलिङ्ग्यमानस्य सपर्शः सूनॊर यथासुखः ॥ 55 ॥
बराह्मणॊ दविपदां शरेष्ठॊ गौर वरिष्ठा चतुष्पदाम गुरुर गरीयसां शरेष्ठः पुत्रः सपर्शवतां वरः ॥ 56 ॥
सपृशतु तवां समाश्लिष्य पुत्रॊ ऽयं परियदर्शनः पुत्र सपर्शात सुखतरः सपर्शॊ लॊके न विद्यते ॥ 57 ॥
तरिषु वर्षेषु पूर्णेषु परजाताहम अरिंदम इमं कुमारं राजेन्द्र तव शॊकप्रणाशनम ॥ 58 ॥
आहर्ता वाजिमेधस्य शतसंख्यस्य पौरव इति वाग अन्तरिक्षे मां सूतके ऽभयवदत पुरा ॥ 59 ॥
ननु नामाङ्कम आरॊप्य सनेहाद गरामान्तरं गताः मूर्ध्नि पुत्रान उपाघ्राय परतिनन्दन्ति मानवः ॥ 60 ॥
वेदेष्व अपि वदन्तीमं मन्त्रवादं दविजातयः जातकर्मणि पुत्राणां तवापि विदितं तथा ॥ 61 ॥
अङ्गाद अङ्गात संभवसि हृदयाद अभिजायसे आत्मा वै पुत्र नामासि स जीव शरदः शतम ॥ 62 ॥
पॊषॊ हि तवदधीनॊ मे संतानम अपि चाक्षयम तस्मात तवं जीव मे वत्स सुसुखी शरदां शतम ॥ 63 ॥
तवद अङ्गेभ्यः परसूतॊ ऽयं पुरुषात पुरुषॊ ऽपरः सरसीवामल आत्मानं दवितीयं पश्य मे सुतम ॥ 64 ॥
यथा हय आहवनीयॊ ऽगनिर गार्पपत्यात परणीयते तथा तवत्तः परसूतॊ ऽयं तवम एकः सन दविधाकृतः ॥ 65 ॥
मृगापकृष्टेन हि ते मृगयां परिधावता अहम आसादिता राजन कुमारी पितुर आश्रमे ॥ 66 ॥
उर्वशी पूर्वचित्तिश च सहजन्या च मेनका विश्वाची च घृताची च षड एवाप्सरसां वराः ॥ 67 ॥
तासां मां मेनका नाम बरह्मयॊनिर वराप्सराः दिवः संप्राप्य जगतीं विश्वामित्राद अजीजनत ॥ 68 ॥
सा मां हिमवतः पृष्ठे सुषुवे मेनकाप्सराः अवकीर्य च मां याता परात्मजम इवासती ॥ 69 ॥
किं नु कर्माशुभं पूर्वं कृतवत्य अस्मि जन्मनि यद अहं बान्धवैस तयक्ता बाल्ये संप्रति च तवया ॥ 70 ॥
कामं तवया परित्यक्ता गमिष्याम्य अहम आश्रमम इमं तु बालं संत्यक्तुं नार्हस्य आत्मजम आत्मना ॥ 71 ॥
[दुह] न पुत्रम अभिजानामि तवयि जातं शकुन्तले असत्यवचना नार्यः कस ते शरद्धास्यते वचः ॥ 72 ॥
मेनका निरनुक्रॊशा बन्धकी जननी तव यया हिमवतः पृष्ठे निर्माल्येव परवेरिता ॥ 73 ॥
स चापि निरनुक्रॊशः कषत्रयॊनिः पिता तव विश्वामित्रॊ बराह्मणत्वे लुब्धः कामपरायणः ॥ 74 ॥
मेनकाप्सरसां शरेष्ठा महर्षीणां च ते पिता तयॊर अपत्यं कस्मात तवं पुंश्चलीवाभिधास्यसि ॥ 75 ॥
अश्रद्धेयम इदं वाक्यं कथयन्ती न लज्जसे विशेषतॊ मत्सकाशे दुष्टतापसि गम्यताम ॥ 76 ॥
कव महर्षिः सदैवॊग्रः साप्सरा कव च मेनका कव च तवम एवं कृपणा तापसी वेषधारिणी ॥ 77 ॥
अतिकायश च पुत्रस ते बालॊ ऽपि बलवान अयम कथम अल्पेन कालेन शालस्कन्ध इवॊद्गतः ॥ 78 ॥
सुनिकृष्टा च यॊनिस ते पुंश्चली परतिभासि मे यदृच्छया कामरागाज जाता मेनकया हय असि ॥ 79 ॥
सर्वम एतत परॊक्षं मे यत तवं वदसि तापसि नाहं तवाम अभिजानामि यथेष्टं गम्यतां तवया ॥ 80 ॥
आदिपर्व · Adi Parva
अध्याय 68
Reach this point to mark the section finished.
Continue to अध्याय 69