धर्मDharmic Data

आदिपर्व · Adi Parva

अध्याय 67

  1. [दुह्सन्त] सुव्यक्तं राजपुत्री तवं यथा कल्याणि भाषसे भार्या मे भव सुश्रॊणि बरूहि किं करवाणि ते ॥ 1 ॥

  2. सुवर्णमाला वासांसि कुण्डले परिहाटके नानापत्तनजे शुभ्रे मणिरत्ने च शॊभने ॥ 2 ॥

  3. आहरामि तवाद्याहं निष्कादीन्य अजिनानि च सर्वं राज्यं तवाद्यास्तु भार्या मे भव शॊभने ॥ 3 ॥

  4. गान्धर्वेण च मां भीरु विवाहेनैहि सुन्दरि विवाहानां हि रम्भॊरु गान्धर्वः शरेष्ठ उच्यते ॥ 4 ॥

  5. [षक] फलाहारॊ गतॊ राजन पिता मे इत आश्रमात तं मुहूर्तं परतीक्षस्व स मां तुभ्यं परदास्यति ॥ 5 ॥

  6. [दुह] इच्छामि तवां वरारॊहे भजमानाम अनिन्दिते तवदर्थं मां सथितं विद्धि तवद्गतं हि मनॊ मम ॥ 6 ॥

  7. आत्मनॊ बन्धुर आत्मैव गतिर आत्मैव चात्मनः आत्मनैवात्मनॊ दानं कर्तुम अर्हसि धर्मतः ॥ 7 ॥

  8. अष्टाव एव समासेन विवाहा धर्मतः समृताः बराह्मॊ दैवस तथैवार्षः पराजापत्यस तथासुरः ॥ 8 ॥

  9. गान्धर्वॊ राक्षसश चैव पैशाचश चाष्टमः समृतः तेषां धर्मान यथापूर्वं मनुः सवायम्भुवॊ ऽबरवीत ॥ 9 ॥

  10. परशस्तांश चतुरः पूर्वान बराह्मणस्यॊपधारय षड आनुपूर्व्या कषत्रस्य विद्धि धर्मान अनिन्दिते ॥ 10 ॥

  11. राज्ञां तु राक्षसॊ ऽपय उक्तॊ विट शूद्रेष्व आसुरः समृतः पञ्चानां तु तरयॊ धर्म्या दवाव अधर्म्यौ समृताव इह ॥ 11 ॥

  12. पैशाचश चासुरश चैव न कर्तव्यौ कथं चन अनेन विधिना कार्यॊ धर्मस्यैषा गतिः समृता ॥ 12 ॥

  13. गान्धर्वराक्षसौ कषत्रे धर्म्यौ तौ मा विशङ्किथाः पृथग वा यदि वा मिश्रौ कर्तव्यौ नात्र संशयः ॥ 13 ॥

  14. सा तवं मम सकामस्य सकामा वरवर्णिनि गान्धर्वेण विवाहेन भार्या भवितुम अर्हसि ॥ 14 ॥

  15. [षक] यदि धर्मपथस तव एष यदि चात्मा परभुर मम परदाने पौरवश्रेष्ठ शृणु मे समयं परभॊ ॥ 15 ॥

  16. सत्यं मे परतिजानीहि यत तवां वक्ष्याम्य अहं रहः मम जायेत यः पुत्रः स भवेत तवद अनन्तरम ॥ 16 ॥

  17. युवराजॊ महाराज सत्यम एतद बरवीहि मे यद्य एतद एवं दुःषन्त अस्तु मे संगमस तवया ॥ 17 ॥

  18. [व] एवम अस्त्व इति तां राजा परत्युवाचाविचारयन अपि च तवां नयिष्यामि नगरं सवं शुचिस्मिते यथा तवम अर्हा सुश्रॊणि सत्यम एतद बरवीमि ते ॥ 18 ॥

  19. एवम उक्त्वा स राजर्षिस ताम अनिन्दितगामिनीम जग्राह विधिवत पाणाव उवास च तया सह ॥ 19 ॥

  20. विश्वास्य चैनां स परायाद अब्रवीच च पुनः पुनः परेषयिष्ये तवार्थाय वाहिनीं चतुरङ्गिणीम तया तवाम आनयिष्यामि निवासं सवं शुचिस्मिते ॥ 20 ॥

  21. इति तस्याः परतिश्रुत्य स नृपॊ जनमेजय मनसा चिन्तयन परायात काश्यपं परति पार्थिवः ॥ 21 ॥

  22. भगवांस तपसा युक्तः शरुत्वा किं नु करिष्यति एवं संचिन्तयन्न एव परविवेश सवकं पुरम ॥ 22 ॥

  23. मुहूर्तयाते तस्मिंस तु कण्वॊ ऽपय आश्रमम आगमत शकुन्तला च पितरं हरिया नॊपजगाम तम ॥ 23 ॥

  24. विज्ञायाथ च तां कण्वॊ दिव्यज्ञानॊ महातपाः उवाच भगवान परीतः पश्यन दिव्येन चक्षुषा ॥ 24 ॥

  25. तवयाद्य राजान्वयया माम अनादृत्य यत्कृतः पुंसा सह समायॊगॊ न स धर्मॊपघातकः ॥ 25 ॥

  26. कषत्रियस्य हि गान्धर्वॊ विवाहः शरेष्ठ उच्यते सकामायाः सकामेन निर्मन्त्रॊ रहसि समृतः ॥ 26 ॥

  27. धर्मात्मा च महात्मा च दुःषन्तः पुरुषॊत्तमः अभ्यगच्छः पतिं यं तवं भजमानं शकुन्तले ॥ 27 ॥

  28. महात्मा जनिता लॊके पुत्रस तव महाबलः य इमां सागरापाङ्गां कृत्स्नां भॊक्ष्यति मेदिनीम ॥ 28 ॥

  29. परं चाभिप्रयातस्य चक्रं तस्य महात्मनः भविष्यत्य अप्रतिहतं सततं चक्रवर्तिनः ॥ 29 ॥

  30. ततः परक्षाल्य पादौ सा विश्रान्तं मुनिम अब्रवीत विनिधाय ततॊ भारं संनिधाय फलानि च ॥ 30 ॥

  31. मया पतिर वृतॊ यॊ ऽसौ दुःषन्तः पुरुषॊत्तमः तस्मै ससचिवाय तवं परसादं कर्तुम अर्हसि ॥ 31 ॥

  32. [क] परसन्न एव तस्याहं तवत्कृते वरवर्णिनि गृहाण च वरं मत्तस तत कृते यद अभीप्सितम ॥ 32 ॥

  33. [व] ततॊ धर्मिष्ठतां वव्रे राज्याच चास्खलनं तथा शकुन्तला पौरवाणां दुःषन्त हितकाम्यया ॥ 33 ॥

Reach this point to mark the section finished.

Continue to अध्याय 68

Previous: अध्याय 66