धर्मDharmic Data

आदिपर्व · Adi Parva

अध्याय 66

  1. [षक] एवम उक्तस तया शक्रः संदिदेश सदागतिम परातिष्ठत तदा काले मेनका वायुना सह ॥ 1 ॥

  2. अथापश्यद वरारॊहा तपसा दग्धकिल्बिषम विश्वामित्रं तपस्यन्तं मेनका भीरुर आश्रमे ॥ 2 ॥

  3. अभिवाद्य ततः सा तं पराक्रीडद ऋषिसंनिधौ अपॊवाह च वासॊ ऽसया मारुतः शशिसंनिभम ॥ 3 ॥

  4. सागच्छत तवरिता भूमिं वासस तद अभिलिङ्गती उत्स्मयन्तीव सव्रीडं मारुतं वरवर्णिनी ॥ 4 ॥

  5. गृद्धां वाससि संभ्रान्तां मेनकां मुनिसत्तमः अनिर्देश्य वयॊ रूपाम अपश्यद विवृतां तदा ॥ 5 ॥

  6. तस्या रूपगुणं दृष्ट्वा स तु विप्रर्षभस तदा चकार भावं संसर्गे तया कामवशं गतः ॥ 6 ॥

  7. नयमन्त्रयत चाप्य एनां सा चाप्य ऐच्छद अनिन्दिता तौ तत्र सुचिरं कालं वने वयहरताम उभौ रममाणौ यथाकामं यथैक दिवसं तथा ॥ 7 ॥

  8. जनयाम आस स मुनिर मेनकायां शकुन्तलाम परस्थे हिमवतॊ रम्ये मालिनीम अभितॊ नदीम ॥ 8 ॥

  9. जातम उत्सृज्य तं गर्भं मेनका मालिनीम अनु कृतकार्या ततस तूर्णम अगच्छच छक्र संसदम ॥ 9 ॥

  10. तं वने विजने गर्भं सिंहव्याघ्र समाकुले दृष्ट्वा शयानं शकुनाः समन्तात पर्यवारयन ॥ 10 ॥

  11. नेमां हिंस्युर वने बालां करव्यादा मांसगृद्धिनः पर्यरक्षन्त तां तत्र शकुन्ता मेनकात्मजाम ॥ 11 ॥

  12. उपस्प्रष्टुं गतश चाहम अपश्यं शयिताम इमाम निर्जने विपिने ऽरण्ये शकुन्तैः परिवारिताम आनयित्वा ततश चैनां दुहितृत्वे नययॊजयम ॥ 12 ॥

  13. शरीरकृत पराणदाता यस्य चान्नानि भुञ्जते करमेण ते तरयॊ ऽपय उक्ताः पितरॊ धर्मनिश्चये ॥ 13 ॥

  14. निर्जने च वने यस्माच छकुन्तैः परिरक्षिता शकुन्तलेति नामास्याः कृतं चापि ततॊ मया ॥ 14 ॥

  15. एवं दुहितरं विद्धि मम सौम्य शकुन्तलाम शकुन्तला च पितरं मन्यते माम अनिन्दिता ॥ 15 ॥

  16. एतद आचष्ट पृष्टः सन मम जन्म महर्षये सुतां कण्वस्य माम एवं विद्धि तवं मनुजाधिप ॥ 16 ॥

  17. कण्वं हि पितरं मन्ये पितरं सवम अजानती इति ते कथितं राजन यथावृत्तं शरुतं मया ॥ 17 ॥

Reach this point to mark the section finished.

Continue to अध्याय 67

Previous: अध्याय 65