[व] ततॊ गच्छन महाबाहुर एकॊ ऽमात्यान विसृज्य तान नापश्यद आश्रमे तस्मिंस तम ऋषिं संशितव्रतम ॥ 1 ॥
सॊ ऽपश्यमानस तम ऋषिं शून्यं दृष्ट्वा तम आश्रमम उवाच क इहेत्य उच्चैर वनं संनादयन्न इव ॥ 2 ॥
शरुत्वाथ तस्य तं शब्दं कन्या शरीर इव रूपिणी निश्चक्रामाश्रमात तस्मात तापसी वेषधारिणी ॥ 3 ॥
सा तं दृष्ट्वैव राजानं दुःषन्तम असितेक्षणा सवागतं त इति कषिप्रम उवाच परतिपूज्य च ॥ 4 ॥
आसनेनार्चयित्वा च पाद्येनार्घ्येण चैव हि पप्रच्छानामयं राजन कुशलं च नराधिपम ॥ 5 ॥
यथावद अर्चयित्वा सा पृष्ट्वा चानामयं तदा उवाच समयमानेव किं कार्यं करियताम इति ॥ 6 ॥
ताम अब्रवीत ततॊ राजा कन्यां मधुरभाषिणीम दृष्ट्वा सर्वानवद्याङ्गीं यथावत परतिपूजितः ॥ 7 ॥
आगतॊ ऽहं महाभागम ऋषिं कण्वम उपासितुम कव गतॊ भगवान भद्रे तन ममाचक्ष्व शॊभने ॥ 8 ॥
[षक] गतः पिता मे भगवान फलान्य आहर्तुम आश्रमात मुहूर्तं संप्रतीक्षस्व दरक्ष्यस्य एनम इहागतम ॥ 9 ॥
[व] अपश्यमानस तम ऋषिं तया चॊक्तस तथा नृपः तां च दृष्ट्वा वरारॊहां शरीमतीं चारुहासिनीम ॥ 10 ॥
विभ्राजमानां वपुषा तपसा च दमेन च रूपयौवन संपन्नाम इत्य उवाच महीपतिः ॥ 11 ॥
कासि कस्यासि सुश्रॊणि किमर्थं चागता वनम एवंरूपगुणॊपेता कुतस तवम असि शॊभने ॥ 12 ॥
दर्शनाद एव हि शुभे तवया मे ऽपहृतं मनः इच्छामि तवाम अहं जञातुं तन ममाचक्ष्व शॊभने ॥ 13 ॥
एवम उक्ता तदा कन्या तेन राज्ञा तदाश्रमे उवाच हसती वाक्यम इदं सुमधुराक्षरम ॥ 14 ॥
कण्वष्याहं भगवतॊ दुःषन्त दुहिता मता तपस्विनॊ धृतिमतॊ धर्मज्ञस्य यशस्विनः ॥ 15 ॥
[दु] ऊर्ध्वरेता महाभागॊ भगवाँल लॊकपूजितः चलेद धि वृत्ताद धर्मॊ ऽपि न चलेत संशितव्रतः ॥ 16 ॥
कथं तवं तस्य दुहिता संभूता वरवर्णिनी संशयॊ मे महान अत्र तं मे छेत्तुम इहार्हसि ॥ 17 ॥
[षक] यथायम आगमॊ मह्यं यथा चेदम अभूत पुरा शृणु राजन यथातत्त्वं यथास्मि दुहिता मुनेः ॥ 18 ॥
ऋषिः कश चिद इहागम्य मम जन्माभ्यचॊदयत तस्मै परॊवाच भगवान यथा तच छृणु पार्थिव ॥ 19 ॥
तप्यमानः किल पुरा विश्वामित्रॊ महत तपः सुभृशं तापयाम आस शक्रं सुरगणेश्वरम ॥ 20 ॥
तपसा दीप्तवीर्यॊ ऽयं सथानान मा चयावयेद इति भीतः पुरंदरस तस्मान मेनकाम इदम अब्रवीत ॥ 21 ॥
गुणैर दिव्यैर अप्सरसां मेनके तवं विशिष्यसे शरेयॊ मे कुरु कल्याणि यत तवां वक्ष्यामि तच छृणु ॥ 22 ॥
असाव आदित्यसंकाशॊ विश्वामित्रॊ महातपाः तप्यमानस तपॊ घॊरं मम कम्पयते मनः ॥ 23 ॥
मेनके तव भारॊ ऽयं विश्वामित्रः सुमध्यमे संशितात्मा सुदुर्धर्ष उग्रे तपसि वर्तते ॥ 24 ॥
स मां न चयावयेत सथानात तं वै गत्वा परलॊभय चर तस्य तपॊविघ्नं कुरु मे परियम उत्तमम ॥ 25 ॥
रूपयौवन माधुर्यचेष्टित समितभाषितैः लॊभयित्वा वरारॊहे तपसः संनिवर्तय ॥ 26 ॥
[म] महातेजाः स भगवान सदैव च महातपाः कॊपनश च तथा हय एनं जानाति भगवान अपि ॥ 27 ॥
तेजसस तपसश चैव कॊपस्य च महात्मनः तवम अप्य उद्विजसे यस्य नॊद्विजेयम अहं कथम ॥ 28 ॥
महाभागं वसिष्ठं यः पुत्रैर इष्टैर वययॊजयत कषत्रे जातश च यः पूर्वम अभवद बराह्मणॊ बलात ॥ 29 ॥
शौचार्थं यॊ नदीं चक्रे दुर्गमां बहुभिर जलैः यां तां पुण्यतमां लॊके कौशिकीति विदुर जनाः ॥ 30 ॥
बभार यत्रास्य पुरा काले दुर्गे महात्मनः दारान मतङ्गॊ धर्मात्मा राजर्षिर वयाधतां गतः ॥ 31 ॥
अतीतकाले दुर्भक्षे यत्रैत्य पुनर आश्रमम मुनिः पारेति नद्या वै नाम चक्रे तदा परभुः ॥ 32 ॥
मतङ्गं याजयां चक्रे यत्र परीतमनाः सवयम तवं च सॊमं भयाद यस्य गतः पातुं शुरेश्वर ॥ 33 ॥
अति नक्षत्रवंशांश च करुद्धॊ नक्षत्रसंपदा परति शरवणपूर्वाणि नक्षत्राणि ससर्ज यः ॥ 34 ॥
एतानि यस्य कर्माणि तस्याहं भृशम उद्विजे यथा मां न दहेत करुद्धस तथाज्ञापय मां विभॊ ॥ 35 ॥
तेजसा निर्दहेल लॊकान कम्पयेद धरणीं पदा संक्षिपेच च महामेरुं तूर्णम आवर्तयेत तथा ॥ 36 ॥
तादृशं तपसा युक्तं परदीप्तम इव पावकम कथम अस्मद्विधा बाला जितेन्द्रियम अभिस्पृशेत ॥ 37 ॥
हुताशनमुखं दीप्तं सूर्यचन्द्राक्षि तारकम कालजिह्वं सुरश्रेष्ठ कथम अस्मद्विधा सपृशेत ॥ 38 ॥
यमश च सॊमश च महर्षयश च; साध्या विश्वे वालखिल्याश च सर्वे एते ऽपि यस्यॊद्विजन्ते परभावात; कस्मात तस्मान मादृशी नॊद्विजेत ॥ 39 ॥
तवयैवम उक्ता च कथं समीपम; ऋषेर न गच्छेयम अहं सुरेन्द्र रक्षां तु मे चिन्तय देवराज; यथा तवदर्थं रक्षिताहं चरेयम ॥ 40 ॥
कामं तु मे मारुतस तत्र वासः; परक्रीडिताया विवृणॊतु देव भवेच च मे मन्मथस तत्र कार्ये; सहायभूतस तव देवप्रसादात ॥ 41 ॥
वनाच च वायुः सुरभिः परवायेत; तस्मिन काले तम ऋषिं लॊभयन्त्याः तथेत्य उक्त्वा विहिते चैव तस्मिंस; ततॊ ययौ साश्रमं कौशिकस्य ॥ 42 ॥
आदिपर्व · Adi Parva
अध्याय 65
Reach this point to mark the section finished.
Continue to अध्याय 66