[वै] ततॊ मृगसहस्राणि हत्वा विपुलवाहनः राजा मृगप्रसङ्गेन वनम अन्यद विवेश ह ॥ 1 ॥
एक एवॊत्तम बलः कषुत्पिपासा समन्वितः स वनस्यान्तम आसाद्य महद ईरिणम आसदत ॥ 2 ॥
तच चाप्य अतीत्य नृपतिर उत्तमाश्रमसंयुतम मनः परह्लाद जननं दृष्टिकान्तम अतीव च शीतमारुत संयुक्तं जगामान्यन महद वनम ॥ 3 ॥
पुष्पितैः पादपैः कीर्णम अतीव सुखशाद्वलम विपुलं मधुरारावैर नादितं विहगैस तथा ॥ 4 ॥
परवृद्धविटपैर वृक्षैः सुखच छायैः समावृतम षट पदाघूर्णित लतं लक्ष्म्या परमया युतम ॥ 5 ॥
नापुष्पः पादपः कश चिन नाफलॊ नापि कण्टकी षट पदैर वाप्य अनाकीर्णस तस्मिन वै कानने ऽभवत ॥ 6 ॥
विहगैर नादितं पुष्पैर अलंकृतम अतीव च सर्वर्तुकुसुमैर वृक्षैर अतीव सुखशाद्वलम मनॊरमं महेष्वासॊ विवेश वनम उत्तमम ॥ 7 ॥
मारुतागलितास तत्र दरुमाः कुसुमशालिनः पुष्पवृष्टिं विचित्रां सम वयसृजंस ते पुनः पुनः ॥ 8 ॥
दिवस्पृशॊ ऽथ संघुष्टाः पक्षिभिर मधुरस्वरैः विरेजुः पादपास तत्र विचित्रकुसुमाम्बराः ॥ 9 ॥
तेषां तत्र परवालेषु पुष्पभारावनामिषु रुवन्ति रावं विहगाः षट पदैः सहिता मृदु ॥ 10 ॥
तत्र परदेशांश च बहून कुसुमॊत्कर मण्डितान लतागृहपरिक्षिप्तान मनसः परीतिवर्धनान संपश्यन स महातेजा बभूव मुदितस तदा ॥ 11 ॥
परस्पराशिष्ट शाखैः पादपैः कुसुमाचितैः अशॊभत वनं तत तैर महेन्द्रध्वजसंनिभैः ॥ 12 ॥
सुखशीतः सुगन्धी च पुष्परेणु वहॊ ऽनिलः परिक्रामन वने वृक्षान उपैतीव रिरंसया ॥ 13 ॥
एवंगुणसमायुक्तं ददर्श स वनं नृपः नदी कच्छॊद्भवं कान्तम उच्छ्रितध्वजसंनिभम ॥ 14 ॥
परेक्षमाणॊ वनं तत तु सुप्रहृष्ट विहंगमम आश्रमप्रवरं रम्यं ददर्श च मनॊरमम ॥ 15 ॥
नानावृक्षसमाकीर्णं संप्रज्वलित पावकम यतिभिर वालखिल्यैश च वृतं मुनिगणान्वितम ॥ 16 ॥
अग्न्यागारैश च बहुभिः पुष्पसंस्तर संस्तृतम महाकच्छैर बृहद्भिश च विभ्राजितम अतीव च ॥ 17 ॥
मालिनीम अभितॊ राजन नदीं पुण्यां सुखॊदकाम नैकपक्षिगणाकीर्णां तपॊवनमनॊरमाम तत्र वयालमृगान सौम्यान पश्यन परीतिम अवाप सः ॥ 18 ॥
तं चाप्य अतिरथः शरीमान आश्रमं परत्यपद्यत देवलॊकप्रतीकाशं सर्वतः सुमनॊहरम ॥ 19 ॥
नदीम आश्रमसंश्लिष्टां पुण्यतॊयां ददर्श सः सर्वप्राणभृतां तत्र जननीम इव विष्ठिताम ॥ 20 ॥
सचक्रवाकपुलिनां पुष्पफेन परवाहिनीम सकिंनरगणावासां वानरर्क्ष निषेविताम ॥ 21 ॥
पुण्यस्वाख्याय संघुष्टां पुलिनैर उपशॊभिताम मत्तवारणशार्दूल भुजगेन्द्रनिषेविताम ॥ 22 ॥
नदीम आश्रमसंबद्धां दृष्ट्वाश्रमपदं तथा चकाराभिप्रवेशाय मतिं स नृपतिस तदा ॥ 23 ॥
अलंकृतं दवीपवत्या मालिन्या रम्यतीरया नरनारायण सथानं गङ्गयेवॊपशॊभितम मत्तबर्हिण संघुष्टं परविवेश महद वनम ॥ 24 ॥
तत स चैत्ररथप्रख्यं समुपेत्य नरेश्वरः अतीव गुणसंपन्नम अनिर्देश्यं च वर्चसा महर्षिं काश्यपं दरष्टुम अथ कण्वं तपॊधनम ॥ 25 ॥
रथिनीम अश्वसंबाधां पदातिगणसंकुलाम अवस्थाप्य वनद्वारि सेनाम इदम उवाच सः ॥ 26 ॥
मुनिं विरजसं दरष्टुं गमिष्यामि तपॊधनम काश्यपं सथीयताम अत्र यावदागमनं मम ॥ 27 ॥
तद वनं नन्दनप्रख्यम आसाद्य मनुजेश्वरः कषुत्पिपासे जहौ राजा हर्षं चावाप पुष्कलम ॥ 28 ॥
सामात्यॊ राजलिङ्गानि सॊ ऽपनीय नराधिपः पुरॊहित सहायश च जगामाश्रमम उत्तमम दिदृक्षुस तत्र तम ऋषिं तपॊ राशिम अथाव्ययम ॥ 29 ॥
बरह्मलॊकप्रतीकाशम आश्रमं सॊ ऽभिवीक्ष्य च षट्पदॊद्गीत संघुष्टं नानाद्विज गणायुतम ॥ 30 ॥
ऋचॊ बह्वृच मुख्यैश च परेर्यमाणाः पदक्रमैः शुश्राव मनुजव्याघ्रॊ विततेष्व इह कर्मसु ॥ 31 ॥
यज्ञविद्याङ्गविद्भिश च करमद्भिश च करमान अपि अमितात्मभिः सुनियतैः शुशुभे स तदाश्रमः ॥ 32 ॥
अथर्ववेद परवराः पूगयाज्ञिक संमताः संहिताम ईरयन्ति सम पदक्रमयुतां तु ते ॥ 33 ॥
शब्दसंस्कार संयुक्तं बरुवद्भिश चापरैर दविजैः नादितः स बभौ शरीमान बरह्मलॊक इवाश्रमः ॥ 34 ॥
यज्ञसंस्कार विद्भिश च करमशिक्षा विशारदैः नयायतत्त्वार्थ विज्ञानसंपन्नैर वेदपारगैः ॥ 35 ॥
नाना वाक्यसमाहार समवाय विशारदैः विशेषकार्यविद्भिश च मॊक्षधर्मपरायणैः ॥ 36 ॥
सथापनाक्षेप सिद्धान्त परमार्थज्ञतां गतैः लॊकायतिक मुख्यैश च समन्ताद अनुनादितम ॥ 37 ॥
तत्र तत्र च विप्रेन्द्रान नियतान संशितव्रता जपहॊमपरान सिद्धान ददर्श परवीर हा ॥ 38 ॥
आसनानि विचित्राणि पुष्पवन्ति महापतिः परयत्नॊपहितानि सम दृष्ट्वा विस्मयम आगमत ॥ 39 ॥
देवतायतनानां च पूजां परेक्ष्य कृतां दविजः बरह्मलॊकस्थम आत्मानं मेने स नृपसत्तमः ॥ 40 ॥
स काश्यप तपॊ गुप्तम आश्रमप्रवरं शुभम नातृप्यत परेक्षमाणॊ वै तपॊधनगणैर युतम ॥ 41 ॥
सा काश्यपस्यायतनं महाव्रतैर; वृतं समन्ताद ऋषिभिस तपॊधनैः विवेश सामात्यपुरॊहितॊ ऽरिहा; विविक्तम अत्यर्थ मनॊ रहं शिवम ॥ 42 ॥
आदिपर्व · Adi Parva
अध्याय 64
Reach this point to mark the section finished.
Continue to अध्याय 65