[वै] स कदा चिन महाबाहुः परभूतबलवाहनः वनं जगाम गहनं हयनागशतैर वृतः ॥ 1 ॥
खड्गशक्ति धरैर वीरैर गदामुसलपाणिभिः परासतॊमर हस्तैश च ययौ यॊधशतैर वृतः ॥ 2 ॥
सिंहनादैश च यॊधानां शङ्खदुन्दुभिनिस्वनैः रथनेमि सवनैश चापि सनागवरबृंहितैः ॥ 3 ॥
हेषितस्वनमिश्रैश च कष्वेडितास्फॊटित सवनैः आसीत किलकिला शब्दस तस्मिन गच्छति पार्थिवे ॥ 4 ॥
परासादवरशृङ्गस्थाः परया नृप शॊभया ददृशुस तं सत्रियस तत्र शूरम आत्मयशः करम ॥ 5 ॥
शक्रॊपमम अमित्रघ्नं परवारणवारणम पश्यन्तः सत्रीगणास तत्र शस्त्रपाणिं सम मेनिरे ॥ 6 ॥
अयं स पुरुषव्याघ्रॊ रणे ऽदभुतपराक्रमः यस्य बाहुबलं पराप्य न भवन्त्य असुहृद्गणाः ॥ 7 ॥
इति वाचॊ बरुवन्त्यस ताः सत्रियः परेम्णा नराधिपम तुष्टुवुः पुष्पवृष्टीश च ससृजुस तस्य मूधनि ॥ 8 ॥
तत्र तत्र च विप्रेन्द्रैः सतूयमानः समन्ततः निर्ययौ परया परीत्या वनं मृगजिघांसया ॥ 9 ॥
सुदूरम अनुजग्मुस तं पौरजानपदास तदा नयवर्तन्त ततः पश्चाद अनुज्ञाता नृपेण ह ॥ 10 ॥
सुपर्णप्रतिमेनाथ रथेन वसुधाधिपः महीम आपूरयाम आस घॊषेण तरिदिवं तथा ॥ 11 ॥
स गच्छन ददृशे धीमान नन्दनप्रतिमं वनम बिल्वार्क खदिराकीर्णं कपित्थ धव संकुलम ॥ 12 ॥
विषमं पर्वत परस्थैर अश्मभिश च समावृतम निर्जलं निर्मनुष्यं च बहुयॊजनम आयतम मृगसंघैर वृतं घॊरैर अन्यैश चापि वनेचरैः ॥ 13 ॥
तद वनं मनुजव्याघ्रः सभृत्यबलवाहनः लॊडयाम आस दुःषन्तः सूदयन विविधान मृगान ॥ 14 ॥
बाणगॊचर संप्राप्तांस तत्र वयाघ्रगणान बहून पातयाम आस दुःषन्तॊ निर्बिभेद च सायकैः ॥ 15 ॥
दूरस्थान सायकैः कांश चिद अभिनत स नरर्षभः अभ्याशम आगतांश चान्यान खड्गेन निरकृन्तत ॥ 16 ॥
कांश चिद एणान स निर्जघ्ने शक्त्या शक्तिमतां वरः गदा मण्डलतत्त्वज्ञश चचारामित विक्रमः ॥ 17 ॥
तॊमरैर असिभिश चापि गदामुसलकर्पणैः चचार स विनिघ्नन वै वन्यांस तत्र मृगद्विजान ॥ 18 ॥
राज्ञा चाद्भुतवीर्येण यॊधैश च समरप्रियैः लॊड्यमानं महारण्यं तत्यजुश च महामृगाः ॥ 19 ॥
तत्र विद्रुत संघानि हतयूथपतीनि च मृगयूथान्य अथौत्सुक्याच छब्दं चक्रुस ततस ततः ॥ 20 ॥
शुष्कां चापि नदीं गत्वा जलनैराश्य कर्शिताः वयायामक्लान्तहृदयाः पतन्ति सम विचेतसः ॥ 21 ॥
कषुत्पिपासापरीताश च शरान्ताश च पतिता भुवि के चित तत्र नरव्याघ्रैर अभक्ष्यन्त बुभुक्षितैः ॥ 22 ॥
के चिद अग्निम अथॊत्पाद्य समिध्य च वनेचराः भक्षयन्ति सम मांसानि परकुट्य विधिवत तदा ॥ 23 ॥
तत्र के चिद गजा मत्ता बलिनः शस्त्रविक्षताः संकॊच्याग्र करान भीताः परद्रवन्ति सम वेगिताः ॥ 24 ॥
शकृन मूत्रं सृजन्तश च कषरन्तः शॊणितं बहु वन्या गजवरास तत्र ममृदुर मनुजान बहून ॥ 25 ॥
तद वनं बलमेघेन शरधारेण संवृतम वयरॊचन महिषाकीर्णं राज्ञा हतमहामृगम ॥ 26 ॥
आदिपर्व · Adi Parva
अध्याय 63
Reach this point to mark the section finished.
Continue to अध्याय 64