[ज] तवत्तः शरुतम इदं बरह्मन देवदानवरक्षसाम अंशावतरणं सम्यग गन्धर्वाप्सरसां तथा ॥ 1 ॥
इमं तु भूय इच्छामि कुरूणां वंशम आदितः कथ्यमानं तवया विप्र विप्रर्षिगणसंनिधौ ॥ 2 ॥
[व] पौरवाणां वंशकरॊ दुःषन्तॊ नाम वीर्यवान पृथिव्याश चतुरन्ताया गॊप्ता भरतसत्तम ॥ 3 ॥
चतुर्भागं भुवः कृत्स्नं स भुङ्क्ते मनुजेश्वरः समुद्रावरणांश चापि देशान स समितिंजयः ॥ 4 ॥
आम्लेच्छाटविकान सर्वान स भुङ्क्ते रिपुमर्दनः रत्नाकर समुद्रान्तांश चातुर्वर्ण्यजनावृतान ॥ 5 ॥
न वर्णसंकरकरॊ नाकृष्य करकृज जनः न पापकृत कश चिद आसीत तस्मिन राजनि शासति ॥ 6 ॥
धर्म्यां रतिं सेवमाना धर्मार्थाव अभिपेदिरे तदा नरा नरव्याघ्र तस्मिञ जनपदेश्वरे ॥ 7 ॥
नासीच चॊरभयं तात न कषुधा भयम अण्व अपि नासीद वयाधिभयं चापि तस्मिञ जनपदेश्वरे ॥ 8 ॥
सवैर धर्मै रेमिरे वर्णा दैवे कर्मणि निःस्पृहाः तम आश्रित्य महीपालम आसंश चैवाकुतॊ भयाः ॥ 9 ॥
कालवर्षी च पर्जन्यः सस्यानि फलवन्ति च सर्वरत्नसमृद्धा च मही वसुमती तदा ॥ 10 ॥
स चाद्भुतमहावीर्यॊ वज्रसंहननॊ युवा उद्यम्य मन्दरं दॊर्भ्यां हरेत सवनकाननम ॥ 11 ॥
धनुष्य अथ गदायुद्धे तसरुप्रहरणेषु च नागपृष्ठे ऽशवपृष्ठे च बभूव परिनिष्ठितः ॥ 12 ॥
बले विष्णुसमश चासीत तेजसा भास्करॊपमः अक्षुब्धत्वे ऽरणव समः सहिष्णुत्वे धरा समः ॥ 13 ॥
संमतः स महीपालः परसन्नपुरराष्ट्रवान भूयॊ धर्मपरैर भावैर विदितं जनम आवसत ॥ 14 ॥
आदिपर्व · Adi Parva
अध्याय 62
Reach this point to mark the section finished.
Continue to अध्याय 63