धर्मDharmic Data

आदिपर्व · Adi Parva

अध्याय 61

  1. [ज] देवानां दानवानां च यक्षाणाम अथ रक्षसाम अन्येषां चैव भूतानां सर्वेषां भगवन्न अहम ॥ 1 ॥

  2. शरॊतुम इच्छामि तत्त्वेन मानुषेषु महात्मनाम जन्म कर्म च भूतानाम एतेषाम अनुपूर्वशः ॥ 2 ॥

  3. [व] मानुषेषु मनुष्येन्द्र संभूता ये दिवौकसः परथमं दानवांश चैव तांस ते वक्ष्यामि सर्वशः ॥ 3 ॥

  4. विप्रचित्तिर इति खयातॊ य आसीद दानवर्षभः जरासंध इति खयातः स आसीन मनुजर्षभः ॥ 4 ॥

  5. दितेः पुत्रस तु यॊ राजन हिरण्यकशिपुः समृतः स जज्ञे मानुषे लॊके शिशुपालॊ नरर्षभः ॥ 5 ॥

  6. संह्राद इति विख्यातः परह्रादस्यानुजस तु यः स शल्य इति विख्यातॊ जज्ञे बाह्लील पुंगवः ॥ 6 ॥

  7. अनुह्रादस तु तेजस्वी यॊ ऽभूत खयातॊ जघन्यजः धृष्टकेतुर इति खयातः स आसीन मनुजेश्वरः ॥ 7 ॥

  8. यस तु राजञ शिबिर नाम दैतेयः परिकीर्तितः दरुम इत्य अभिविख्यातः स आसीद भुवि पार्थिवः ॥ 8 ॥

  9. बाष्कलॊ नाम यस तेषाम आसीद असुरसत्तमः भगदत्त इति खयातः स आसीन मनुजेश्वरः ॥ 9 ॥

  10. अयः शिरा अश्वशिरा अयः शङ्कुश च वीर्यवान तथा गगनमूर्धा च वेगवांश चात्र पञ्चमः ॥ 10 ॥

  11. पञ्चैते जज्ञिरे राजन वीर्यवन्तॊ महासुराः केकयेषु महात्मानः पार्थिवर्षभ सत्तमाः ॥ 11 ॥

  12. केतुमान इति विख्यातॊ यस ततॊ ऽनयः परतापवान अमितौजा इति खयातः पृथिव्यां सॊ ऽभवन्न नृपः ॥ 12 ॥

  13. सवर्भानुर इति विख्यातः शरीमान यस तु महासुरः उग्रसेन इति खयात उग्र कर्मा नराधिपः ॥ 13 ॥

  14. यस तव अश्व इति विख्यातः शरीमान आसीन महासुरः अशॊकॊ नाम राजासीन महावीर्यपराक्रमः ॥ 14 ॥

  15. तस्माद अवरजॊ यस तु राजन्न अश्वपतिः समृतः दैतेयः सॊ ऽभवद राजा हार्दिक्यॊ मनुजर्षभः ॥ 15 ॥

  16. वृषपर्वेति विख्यातः शरीमान यस तु महासुरः दीर्घप्रज्ञ इति खयातः पृथिव्यां सॊ ऽभवन नृपः ॥ 16 ॥

  17. अजकस तव अनुजॊ राजन य आसीद वृषपर्वणः स मल्ल इति विख्यातः पृथिव्याम अभवन नृपः ॥ 17 ॥

  18. अश्वग्रीव इति खयातः सत्त्ववान यॊ महासुरः रॊचमान इति खयातः पृथिव्यां सॊ ऽभवन नृपः ॥ 18 ॥

  19. सूक्ष्मस तु मतिमान राजन कीर्तिमान यः परकीर्तितः बृहन्त इति विख्यातः कषिताव आसीत स पार्थिवः ॥ 19 ॥

  20. तुहुण्ड इति विख्यातॊ य आसीद असुरॊत्तमः सेना बिन्दुर इति खयातः स बभूव नराधिपः ॥ 20 ॥

  21. इसृपा नाम यस तेषाम असुराणां बलाधिकः पापजिन नाम राजासीद भुवि विख्यातविक्रमः ॥ 21 ॥

  22. एकचक्र इति खयात आसीद यस तु महासुरः परतिविन्ध्य इति खयातॊ बभूव परथितः कषितौ ॥ 22 ॥

  23. विरूपाक्षस तु दैतेयश चित्रयॊधी महासुरः चित्रवर्मेति विख्यातः कषिताव आसीत स पार्थिवः ॥ 23 ॥

  24. हरस तव अरिहरॊ वीर आसीद यॊ दानवॊत्तमः सुवास्तुर इति विख्यातः स जज्ञे मनुजर्षभः ॥ 24 ॥

  25. अहरस तु महातेजाः शत्रुपक्ष कषयं करः बाह्लीकॊ नाम राजा स बभूव परथितः कषितौ ॥ 25 ॥

  26. निचन्द्रश चन्द्र वक्त्रश च य आसीद असुरॊत्तमः मुञ्ज केश इति खयातः शरीमान आसीत स पार्थिवः ॥ 26 ॥

  27. निकुम्भस तव अजितः संख्ये महामतिर अजायत भूमौ भूमिपतिः शरेष्ठॊ देवाधिप इति समृतः ॥ 27 ॥

  28. शरभॊ नाम यस तेषां दैतेयानां महासुरः पौरवॊ नाम राजर्षिः स बभूव नरेष्व इह ॥ 28 ॥

  29. दवितीयः शलभस तेषाम असुराणां बभूव यः परह्रादॊ नाम बाह्लीकः स बभूव नराधिपः ॥ 29 ॥

  30. चन्द्रस तु दितिजश्रेष्ठॊ लॊके ताराधिपॊपमः ऋषिकॊ नाम राजर्षिर बभूव नृपसत्तमः ॥ 30 ॥

  31. मृतपा इति विख्यातॊ य आसीद असुरॊत्तमः पश्चिमानूपकं विद्धि तं नृपं नृपसत्तम ॥ 31 ॥

  32. गविष्ठस तु महातेजा यः परख्यातॊ महासुरः दरुमसेन इति खयातः पृथिव्यां सॊ ऽभवन नृपः ॥ 32 ॥

  33. मयूर इति विख्यातः शरीमान यस तु महासुरः स विश्व इति विख्यातॊ बभूव पृथिवीपतिः ॥ 33 ॥

  34. सुपर्ण इति विख्याततस्माद अवरजस तु यः कालकीर्तिर इति खयातः पृथिव्यां सॊ ऽभवन नृपः ॥ 34 ॥

  35. चन्द्र हन्तेति यस तेषां कीर्तितः परवरॊ ऽसुरः शुनकॊ नाम राजर्षिः स बभूव नराधिपः ॥ 35 ॥

  36. विनाशनस तु चन्द्रस्य य आख्यातॊ महासुरः जानकिर नाम राजर्षिः स बभूव नराधिपः ॥ 36 ॥

  37. दीर्घजिह्वस तु कौरव्य य उक्तॊ दानवर्षभः काशिराज इति खयातः पृथिव्यां पृथिवीपतिः ॥ 37 ॥

  38. गरहं तु सुषुवे यं तं सिंही चन्द्रार्कमर्दनम कराथ इत्य अभिविख्यातः सॊ ऽभवन मनुजाधिपः ॥ 38 ॥

  39. अनायुषस तु पुत्राणां चतुर्णां परवरॊ ऽसुरः विक्षरॊ नाम तेजस्वी वसु मित्रॊ ऽभवन नृपः ॥ 39 ॥

  40. दवितीयॊ विक्षराद्यस तु नराधिप महासुरः पांसुराष्ट्राधिप इति विश्रुतः सॊ ऽभवन नृपः ॥ 40 ॥

  41. बलवीर इति खयातॊ यस तव आसीद असुरॊत्तमः पौण्ड्र मत्स्यक इत्य एव स बभूव नराधिपः ॥ 41 ॥

  42. वृत्र इत्य अभिविख्यातॊ यस तु राजन महासुरः मणिमान नाम राजर्षिः स बभूव नराधिपः ॥ 42 ॥

  43. करॊधहन्तेति यस तस्य बभूवावरजॊ ऽसुरः दण्ड इत्य अभिविख्यातः स आसीन नृपतिः कषितौ ॥ 43 ॥

  44. करॊधवर्धन इत्य एव यस तव अन्यः परिकीर्तितः दण्डधार इति खयातः सॊ ऽभवन मनुजेश्वरः ॥ 44 ॥

  45. कालकायास तु ये पुत्रास तेषाम अष्टौ नराधिपाः जज्ञिरे राजशार्दूल शार्दूलसमविक्रमाः ॥ 45 ॥

  46. मगधेषु जयत्सेनः शरीमान आसीत स पार्थिवः अष्टानां परवरस तेषां कालेयानां महासुरः ॥ 46 ॥

  47. दवितीयस तु ततस तेषां शरीमान हरिहयॊपमः अपराजित इत्य एव स बभूव नराधिपः ॥ 47 ॥

  48. तृतीयस तु महाराज महाबाहुर महासुरः निषादाधिपतिर जज्ञे भुवि भीमपराक्रमः ॥ 48 ॥

  49. तेषाम अन्यतमॊ यस तु चतुर्थः परिकीर्तितः शरेणिमान इति विख्यातः कषितौ राजर्षिसत्तमः ॥ 49 ॥

  50. पञ्चमस तु बभूवैषां परवरॊ यॊ महासुरः महौजा इति विख्यातॊ बभूवेह परंतपः ॥ 50 ॥

  51. षष्ठस तु मतिमान यॊ वै तेषाम आसीन महासुरः अभीरुर इति विख्यातः कषितौ राजर्षिसत्तमः ॥ 51 ॥

  52. समुद्रसेनश च नृपस तेषाम एवाभवद गुणान विश्रुतः सागरान्तायां कषितौ धर्मार्थतत्त्ववित ॥ 52 ॥

  53. बृहन्न नामाष्टमस तेषां कालेयानां परंतपः बभूव राजन धर्मात्मा सर्वभूतहिते रतः ॥ 53 ॥

  54. गणः करॊधवशॊ नाम यस ते राजन परकीर्तितः ततः संजज्ञिरे वीराः कषिताव इह नराधिपाः ॥ 54 ॥

  55. नन्दिकः कर्णवेष्टश च सिद्धार्थाः कीटकस तथा सुवीरश च सुबाहुश च महावीरॊ ऽथ बाह्लिकः ॥ 55 ॥

  56. करॊधॊ विचित्यः सुरसः शरीमान नीलश च भूमिपः वीर धामा च कौरव्य भूमिपालश च नामतः ॥ 56 ॥

  57. दन्तवक्त्रश च नामासीद दुर्जयश चैव नामतः रुक्मी च नृपशार्दूलॊ राजा च जनमेजयः ॥ 57 ॥

  58. आषाढॊ वायुवेगश च भूमितेजास तथैव च एकलव्यः सुमित्रश च वाटधानॊ ऽथ गॊमुखः ॥ 58 ॥

  59. कारूषकाश च राजानः कषेमधूर्तिस तथैव च शरुतायुर उद्धवश चैव बृहत्सेनस तथैव च ॥ 59 ॥

  60. कषेमॊग्र तीर्थः कुहरः कलिङ्गेषु नराधिपः मतिमांश च मनुष्येन्द्र ईश्वरश चेति विश्रुतः ॥ 60 ॥

  61. गणात करॊधवशाद एवं राजपूगॊ ऽभवत कषितौ जातः पुरा महाराज महाकीर्तिर महाबलः ॥ 61 ॥

  62. यस तव आसीद देवकॊ नाम देवराजसमद्युतिः स गन्धर्वपतिर मुख्यः कषितौ जज्ञे नराधिपः ॥ 62 ॥

  63. बृहस्पतेर बृहत कीर्तेर देवर्षेर विद्धि भारत अंशाद दरॊणं समुत्पन्नं भारद्वाजम अयॊनिजम ॥ 63 ॥

  64. धन्विनां नृपशार्दूल यः स सर्वास्त्रवित्तमः बृहत कीर्तिर महातेजाः संजज्ञे मनुजेष्व इह ॥ 64 ॥

  65. धनुर्वेदे च वेदे च यं तं वेदविदॊ विदुः वरिष्ठम इन्द्रकर्माणं दरॊणं सवकुलवर्धनम ॥ 65 ॥

  66. महादेवान्तकाभ्यां च कामात करॊधाच च भारत एकत्वम उपपन्नानां जज्ञे शूरः परंतपः ॥ 66 ॥

  67. अश्वत्थामा महावीर्यः शत्रुपक्ष कषयं करः वीरः कमलपत्राक्षः कषिताव आसीन नराधिप ॥ 67 ॥

  68. जज्ञिरे वसवस तव अष्टौ गङ्गायां शंतनॊः सुताः वसिष्ठस्य च शापेन नियॊगाद वासवस्य च ॥ 68 ॥

  69. तेषाम अवरजॊ भीष्मः कुरूणाम अभयंकरः मतिमान वेदविद वाग्मी शत्रुपक्ष कषयं करः ॥ 69 ॥

  70. जामदग्न्येन रामेण यः स सर्वविदां वरः अयुध्यत महातेजा भार्गवेण महात्मना ॥ 70 ॥

  71. यस तु राजन कृपॊ नाम बरह्मर्षिर अभवत कषितौ रुद्राणां तं गणाद विद्धि संभूतम अतिपौरुषम ॥ 71 ॥

  72. शकुनिर नाम यस तव आसीद राजा लॊके महारथः दवापरं विद्धि तं राजन संभूतम अरिमर्दनम ॥ 72 ॥

  73. सात्यकिः सत्यसंधस तु यॊ ऽसौ वृष्णिकुलॊद्वहः पक्षात स जज्ञे मरुतां देवानाम अरिमर्दनः ॥ 73 ॥

  74. दरुपदश चापि राजर्षिस तत एवाभवद गणात मानुषे नृप लॊके ऽसमिन सर्वशस्त्रभृतां वरः ॥ 74 ॥

  75. ततश च कृतवर्माणं विद्धि राजञ जनाधिपम जातम अप्रतिकर्माणं कषत्रियर्षभ सत्तमम ॥ 75 ॥

  76. मरुतां तु गणाद विद्धि संजातम अरिमर्दनम विराटं नाम राजर्षिं परराष्ट्र परतापनम ॥ 76 ॥

  77. अरिष्टायास तु यः पुत्रॊ हंस इत्य अभिविश्रुतः स गन्धर्वपतिर जज्ञे कुरुवंशविवर्धनः ॥ 77 ॥

  78. धृतराष्ट्र इति खयातः कृष्णद्वैपायनाद अपि दीर्घबाहुर महातेजाः परज्ञा चक्षुर नराधिपः मातुर दॊषाद ऋषेः कॊपाद अन्ध एव वयजायत ॥ 78 ॥

  79. अत्रेस तु सुमहाभागं पुत्रं पुत्रवतां वरम विदुरं विद्धि लॊके ऽसमिञ जातं बुद्धिमतां वरम ॥ 79 ॥

  80. कलेर अंशात तु संजज्ञे भुवि दुर्यॊधनॊ नृपः दुर्बुद्धिर दुर्मतिश चैव कुरूणाम अयशः करः ॥ 80 ॥

  81. जगतॊ यः स सर्वस्य विद्विष्टः कलिपूरुषः यः सर्वां घातयाम आस पृथिवीं पुरुषाधमः येन वैरं समुद्दीप्तं भूतान्त करणं महत ॥ 81 ॥

  82. पौलस्त्या भरातरः सर्वे जज्ञिरे मनुजेष्व इह शतं दुःशासनादीनां सर्वेषां करूरकर्मणाम ॥ 82 ॥

  83. दुर्मुखॊ दुःसहश चैव ये चान्ये नानुशब्दिताः दुर्यॊधन सहायास ते पौलस्त्या भरतर्षभ ॥ 83 ॥

  84. धर्मस्यांशं तु राजानं विद्धि राजन युधिष्ठिरम भीमसेनं तु वातस्य देवराजस्य चार्जुनम ॥ 84 ॥

  85. अश्विनॊस तु तथैवांशौ रूपेणाप्रतिमौ भुवि नकुलः सहदेवश च सर्वलॊकमनॊहरौ ॥ 85 ॥

  86. यः सुवर्चेति विख्यातः सॊमपुत्रः परतापवान अभिमन्युर बृहत कीर्तिर अर्जुनस्य सुतॊ ऽभवत ॥ 86 ॥

  87. अग्नेर अंशं तु विद्धि तवं धृष्टद्युम्नं महारथम शिखण्डिनम अथॊ राजन सत्रीपुंसं विद्धि राक्षसम ॥ 87 ॥

  88. दरौपदेयाश च ये पञ्च बभूवुर भरतर्षभ विश्वे देवगणान राजंस तान विद्धि भरतर्षभ ॥ 88 ॥

  89. आमुक्तकवचः कर्णॊ यस तु जज्ञे महारथः दिवाकरस्य तं विद्धि देवस्यांशम अनुत्तमम ॥ 89 ॥

  90. यस तु नारायणॊ नाम देवदेवः सनातनः तस्यांशॊ मानुषेष्व आसीद वासुदेवः परतापवान ॥ 90 ॥

  91. शेषस्यांशस तु नागस्य बलदेवॊ महाबलः सनत्कुमारं परद्युम्नं विद्धि राजन महौजसम ॥ 91 ॥

  92. एवम अन्ये मनुष्येन्द्र बहवॊ ऽंशा दिवौकसाम जज्ञिरे वसुदेवस्य कुले कुलविवर्धनाः ॥ 92 ॥

  93. गणस तव अप्सरसां यॊ वै मया राजन परकीर्तितः तस्य भागः कषितौ जज्ञे नियॊगाद वासवस्य च ॥ 93 ॥

  94. तानि षॊडश देवीनां सहस्राणि नराधिप बभूवुर मानुषे लॊके नारायण परिग्रहः ॥ 94 ॥

  95. शरियस तु भागः संजज्ञे रत्यर्थं पृथिवीतले दरुपदस्य कुले कन्या वेदिमध्याद अनिन्दिता ॥ 95 ॥

  96. नातिह्रस्वा न महती नीलॊत्पलसुगन्धिनी पद्मायताक्षी सुश्रॊणी असितायत मूर्धजा ॥ 96 ॥

  97. सर्वलक्षणसंपन्ना वैडूर्य मणिसंनिभा पञ्चानां पुरुषेन्द्राणां चित्तप्रमथिनी रहः ॥ 97 ॥

  98. सिद्दिर धृतिश च ये देव्यौ पञ्चानां मातरौ तु ते कुन्ती माद्री च जज्ञाते मतिस तु सुबलात्मजा ॥ 98 ॥

  99. इति देवासुराणां ते गन्धर्वाप्सरसां तथा अंशावतरणं राजन रक्षसानां च कीर्तितम ॥ 99 ॥

  100. ये पृथिव्यां समुद्भूता राजानॊ युद्धदुर्मदाः महात्मानॊ यदूनां च ये जाता विपुले कुले ॥ 100 ॥

  101. धन्यं यशस्यं पुत्रीयम आयुष्यं विजयावहम इदम अंशावतरणं शरॊतव्यम अनसूयता ॥ 101 ॥

  102. अंशावतरणं शरुत्वा देवगन्धर्वरक्षसाम परभवाप्ययवित पराज्ञॊ न कृच्छ्रेष्व अवसीदति ॥ 102 ॥

Reach this point to mark the section finished.

Continue to अध्याय 62

Previous: अध्याय 60