[व] बरह्मणॊ मानसाः पुत्रा विदिताः षण महर्षयः एकादश सुताः सथाणॊः खयाताः परममानसाः ॥ 1 ॥
मृगव्याधश च शर्वश च निरृतिश च महायशाः अजैक पाद अहिर बुध्न्यः पिनाकी च परंतपः ॥ 2 ॥
दहनॊ ऽथेश्वरश चैव कपाली च महाद्युतिः सथाणुर भवश च भगवान रुदा एकादश समृताः ॥ 3 ॥
मरीचिर अङ्गिरा अत्रिः पुलस्त्यः पुजहः करतुः षड एते बरह्मणः पुत्रा वीर्यवन्तॊ महर्षयः ॥ 4 ॥
तरयस तव अङ्गिरसः पुत्रा लॊके सर्वत्र विश्रुताः बृहस्पतिर उतथ्यश च संवर्तश च धृतव्रताः ॥ 5 ॥
अत्रेस तु बहवः पुत्राः शरूयन्ते मनुजाधिप सर्वे वेदविदः सिद्धाः शान्तात्मानॊ महर्षयः ॥ 6 ॥
रक्षसास तु पुलस्त्यस्य वानराः किंनरास तथा पुलहस्य मृगाः सिंहा वयाघ्राः किंपुरुषास तथा ॥ 7 ॥
करतॊः करतुसमाः पुत्राः पतंगसहचारिणः विश्रुतास तरिषु लॊकेषु सत्यव्रतपरायणाः ॥ 8 ॥
दक्षस तव अजायताङ्गुष्ठाद दक्षिणाद भगवान ऋषिः बरह्मणः पृथिवीपाल पुत्रः पुत्रवतां वरः ॥ 9 ॥
वामाद अजायताङ्गुष्ठाद भार्या तस्य महात्मनः तस्यां पञ्चाशतं कन्याः स एवाजनयन मुनिः ॥ 10 ॥
ताः सर्वास तव अनवद्याङ्ग्यः कन्याः कमललॊचनाः पुत्रिकाः सथापयाम आस नष्टपुत्रः परजापतिः ॥ 11 ॥
ददौ स दश धर्माय सप्त विंशतिम इन्दवे दिव्येन विधिना राजन कश्यपाय तरयॊदश ॥ 12 ॥
नामतॊ धर्मपत्न्यस ताः कीर्त्यमाना निबॊध मे कीर्तिर लक्ष्मीर धृतिर मेधा पुष्टिः शरद्धा करिया तथा ॥ 13 ॥
बुद्धिर लज्जा मतिश चैव पत्न्यॊ धर्मस्य ता दश दवाराण्य एतानि धर्मस्य विहितानि सवयं भुवा ॥ 14 ॥
सप्त विंशतिसॊमस्य पत्न्यॊ लॊके परिश्रुताः कालस्य नयने युक्ताः सॊमपत्न्यः शुभव्रताः सर्वा नक्षत्रयॊगिन्यॊ लॊकयात्रा विधौ सथिताः ॥ 15 ॥
पितामहॊ मुनिर देवस तस्य पुत्रः परजापतिः तस्याष्टौ वसवः पुत्रास तेषां वक्ष्यामि विस्तरम ॥ 16 ॥
धरॊ धरुवश च सॊमश च अहश चैवानिलॊ ऽनलः परत्यूषश च परभासश च वसवॊ ऽषटाव इति समृताः ॥ 17 ॥
धूम्रायाश च धरः पुत्रॊ बरह्म विद्यॊ धरुवस तथा चन्द्रमास तु मनस्विन्याः शवसायाः शवसनस तथा ॥ 18 ॥
रतायाश चाप्य अहः पुत्रः शाण्डिल्याश च हुताशनः परत्यूषश च परभासश च परभातायाः सुतौ समृतौ ॥ 19 ॥
धरस्य पुत्रॊ दरविणॊ हुतहव्यवहस तथा धरुवस्य पुत्रॊ भगवान कालॊ लॊकप्रकालनः ॥ 20 ॥
सॊमस्य तु सुतॊ वर्चा वर्चस्वी येन जायते मनॊहरायाः शिशिरः पराणॊ ऽथ रमणस तथा ॥ 21 ॥
अह्नः सुतः समृतॊ जयॊतिः शरमः शान्तस तथा मुनिः अग्नेः पुत्रः कुमारस तु शरीमाञ शरवणालयः ॥ 22 ॥
तस्य शाखॊ विशाखश च नैगमेशश च पृष्ठजः कृत्तिकाभ्युपपत्तेश च कार्त्तिकेय इति समृतः ॥ 23 ॥
अनिलस्य शिवा भार्या तस्याः पुत्रः पुरॊजवः अविज्ञात गतिश चैव दवौ पुत्राव अनिलस्य तु ॥ 24 ॥
परत्यूषस्य विदुः पुत्रम ऋषिं नाम्नाथ देवलम दवौ पुत्रौ देवलस्यापि कषमावन्तौ मनीषिणौ ॥ 25 ॥
बृहस्पतेस तु भगिनी वरस्त्री बरह्मचारिणी यॊगसिद्धा जगत सर्वम असक्तं विचरत्य उत परभासस्य तु भार्या सा वसूनाम अष्टमस्य ह ॥ 26 ॥
विश्वकर्मा महाभागॊ जज्ञे शिल्पप्रजा पतिः कर्ता शिल्पसहस्राणां तरिदशानां च वर्धकिः ॥ 27 ॥
भूषणानां च सर्वेषां कर्ता शिल्पवतां वरः यॊ दिव्यानि विमानानि देवतानां चकार ह ॥ 28 ॥
मनुष्याश चॊपजीवन्ति यस्य शिल्पं महात्मनः पूजयन्ति च यं नित्यं विश्वकर्माणम अव्ययम ॥ 29 ॥
सतनं तु दक्षिणं भित्त्वा बरह्मणॊ नरविग्रहः निःसृतॊ भगवान धर्मः सर्वलॊकसुखावहः ॥ 30 ॥
तरयस तस्य वराः पुत्राः सर्वभूतमनॊहराः शमः कामश च हर्षश च तेजसा लॊकधारिणः ॥ 31 ॥
कामस्य तु रतिर भार्या शमस्य पराप्तिर अङ्गना नन्दी तु भार्या हर्षस्य यत्र लॊकाः परतिष्ठिताः ॥ 32 ॥
मरीचेः कश्यपः पुत्रः कश्यपस्य सुरासुराः जज्ञिरे नृपशार्दूल लॊकानां परभवस तु सः ॥ 33 ॥
तवाष्ट्री तु सवितुर भार्या वडवा रूपधारिणी असूयत महाभागा सान्तरिक्षे ऽशविनाव उभौ ॥ 34 ॥
दवादशैवादितेः पुत्राः शक्र मुख्या नराधिप तेषाम अवरजॊ विष्णुर यत्र लॊकाः परतिष्ठिताः ॥ 35 ॥
तरयस तरिंशत इत्य एते देवास तेषाम अहं तव अन्वयं संप्रवक्ष्यामि पक्षैश च कुलतॊ गणान ॥ 36 ॥
रुद्राणाम अपरः पक्षः साध्यानां मरुतां तथा वसूनां भार्गवं विद्याद विश्वे देवांस तथैव च ॥ 37 ॥
वैनतेयस तु गरुडॊ बलवान अरुणस तथा बृहस्पतिश च भगवान आदित्येष्व एव गण्यते ॥ 38 ॥
अश्विभ्यां गुह्यकान विद्धि सर्वौषध्यस तथा पशून एष देवगणॊ राजन कीर्तितस ते ऽनुपूर्वशः यं कीर्तयित्वा मनुजः सर्वपापैः परमुच्यते ॥ 39 ॥
बरह्मणॊ हृदयं भित्त्वा निःसृतॊ भगवान भृगुः भृगॊः पुत्रः कविर विद्वाञ शुक्रः कवि सुतॊ गरहः ॥ 40 ॥
तरैलॊक्यप्राणयात्रार्थे वर्षावर्षे भयाभये सवयं भुवा नियुक्तः सन भुवनं परिधावति ॥ 41 ॥
यॊगाचार्यॊ महाबुद्धिर दैत्यानाम अभवद गुरुः सुराणां चापि मेधावी बरह्म चारी यतव्रतः ॥ 42 ॥
तस्मिन नियुक्ते विभुना यॊगक्षेमाय भार्गवे अन्यम उत्पादयाम आस पुत्रं भृगुर अनिन्दितम ॥ 43 ॥
चयवनं दीप्ततपसं धर्मात्मानं मनीषिणम यः सरॊषाच चयुतॊ गर्भान मातुर मॊक्षाय भारत ॥ 44 ॥
आरुणी तु मनॊः कन्या तस्य पत्नी मनीषिणः और्वस तस्यां समभवद ऊरुं भित्त्वा महायशाः महातपा महातेजा बाल एव गुणैर युतः ॥ 45 ॥
ऋचीकस तस्य पुत्रस तु जमदग्निस ततॊ ऽभवत जमदग्नेस तु चत्वार आसन पुत्रा महात्मनः ॥ 46 ॥
रामस तेषां जघन्यॊ ऽभूद अजघन्यैर गुणैर युतः सर्वशस्त्रास्त्रकुशलः कषत्रियान्तकरॊ वशी ॥ 47 ॥
और्वस्यासीत पुत्रशतं जमदग्निपुरॊगमम तेषां पुत्रसहस्राणि बभूवुर भृगुविस्तरः ॥ 48 ॥
दवौ पुत्रौ बरह्मणस तव अन्यौ ययॊस तिष्ठति लक्षणम लॊके धाता विधाता च यौ सथितौ मनुना सह ॥ 49 ॥
तयॊर एव सवसा देवी लक्ष्मीः पद्मगृहा शुभा तस्यास तु मानसाः पुत्रास तुरगा वयॊम चारिणः ॥ 50 ॥
वरुणस्य भार्या जयेष्ठा तु शुक्राद देवी वयजायत तस्याः पुत्रं बलं विद्धि सुरां च सुरनन्दिनीम ॥ 51 ॥
परजानाम अन्नकामानाम अन्यॊन्यपरिभक्षणात अधर्मस तत्र संजातः सर्वभूतविनाशनः ॥ 52 ॥
तस्यापि निरृतिर भार्या नैरृता येन राक्षसाः घॊरास तस्यास तरयः पुत्राः पापकर्म रताः सदा भयॊ महाभयश चैव मृत्युर भूतान्तकस तथा ॥ 53 ॥
काकीं शयेनीं च भासीं च धृतराष्ट्रीं तथा शुकीम ताम्रा तु सुषुवे देवी पञ्चैता लॊकविश्रुताः ॥ 54 ॥
उलूकान सुषुवे काकी शयेनी शयेनान वयजायत भासी भासान अजनयद गृध्रांश चैव जनाधिप ॥ 55 ॥
धृतराष्ट्री तु हंसांश च कलहंसांश च सर्वशः चक्रवाकांश च भद्रं ते परजज्ञे सा तु भामिनी ॥ 56 ॥
शुकी विजज्ञे धर्मज्ञ शुकान एव मनस्विनी कल्याण गुणसंपन्ना सर्वलक्षणपूजिता ॥ 57 ॥
नव करॊधवशा नारीः परजज्ञे ऽपय आत्मसंभवाः मृगीं च मृगमन्दां च हरिं भद्र मनाम अपि ॥ 58 ॥
मातङ्गीम अथ शार्दूलीं शवेतां सुरभिम एव च सर्वलक्षणसंपन्नां सुरसां च यशस्विनीम ॥ 59 ॥
अपत्यं तु मृगाः सर्वे मृग्या नरवरात्मज ऋक्षाश च मृगमन्दायाः सृमराश चमरा अपि ॥ 60 ॥
ततस तव ऐरावतं नागं जज्ञे भद्र मना सुतम ऐरावतः सुतस तस्या देव नागॊ महागजः ॥ 61 ॥
हर्याश च हरयॊ ऽपत्यं वानराश च तरस्विनः गॊलाङ्गूलांश च भद्रं ते हर्याः पुत्रान परचक्षते ॥ 62 ॥
परजज्ञे तव अथ शार्दूली सिंहान वयाघ्रांश च भारत दवीपिनश च महाभाग सर्वान एव न संशयः ॥ 63 ॥
मातङ्ग्यास तव अथ मातङ्गा अपत्यानि नराधिप दिशागजं तु शवेताख्यं शवेताजनयद आशुगम ॥ 64 ॥
तथा दुहितरौ राजन सुरभिर वै वयजायत रॊहिणीं चैव भद्रं ते गन्धर्वीं च यशस्विनीम रॊहिण्यां जज्ञिरे गावॊ गन्धर्व्यां वाजिनः सुताः ॥ 65 ॥
सुरसाजनयन नागान राजन कद्रूश च पन्नगान सप्त पिण्ड फलान वृक्षान अनलापि वयजायत अनलायाः शुकी पुत्री कद्र्वास तु सुरसा सुता ॥ 66 ॥
अरुणस्य भार्या शयेनी तु वीर्यवन्तौ महाबलौ संपातिं जनयाम आस तथैव च जटायुषम दवौ पुत्रौ विनतायास तु विख्यातौ गरुडारुणौ ॥ 67 ॥
इत्य एष सर्वभूतानां महतां मनुजाधिप परभवः कीर्तितः सम्यङ मया मतिमतां वर ॥ 68 ॥
यं शरुत्वा पुरुषः सम्यक पूतॊ भवति पाप्मनः सर्वज्ञतां च लभते गतिम अग्र्यां च विन्दति ॥ 69 ॥
आदिपर्व · Adi Parva
अध्याय 60
Reach this point to mark the section finished.
Continue to अध्याय 61