[व] अथ नारायणेनेन्द्रश चकार सह संविदम अवतर्तुं महीं सवर्गाद अंशतः सहितः सुरैः ॥ 1 ॥
आदिश्य च सवयं शक्रः सर्वान एव दिवौकसः निर्जगाम पुनस तस्मात कषयान नारायणस्य ह ॥ 2 ॥
ते ऽमरारिविनाशाय सर्वलॊकहिताय च अवतेरुः करमेणेमां महीं सवर्गाद दिवौकसः ॥ 3 ॥
ततॊ बरह्मर्षिवंशेषु पार्थिवर्षिकुलेषु च जज्ञिरे राजशार्दूल यथाकामं दिवौकसः ॥ 4 ॥
दानवान राक्षसांश चैव गन्धर्वान पन्नगांस तथा पुरुषादानि चान्यानि जघ्नुः सत्त्वान्य अनेकशः ॥ 5 ॥
दानवा राक्षसाश चैव गन्धर्वाः पन्नगास तथा न तान बलस्थान बाल्ये ऽपि जघ्नुर भरतसत्तम ॥ 6 ॥
[ज] देवदानव संघानां गन्धर्वाप्सरसां तथा मानवानां च सर्वेषां तथा वै यक्षरक्षसाम ॥ 7 ॥
शरॊतुम इच्छामि तत्त्वेन संभवं कृत्स्नम आदितः पराणिनां चैव सर्वेषां सर्वशः सर्वविद धयसि ॥ 8 ॥
[व] हन्त ते कथयिष्यामि नमस्कृत्वा सवयं भुवे सुरादीनाम अहं सम्यग लॊकानां परभवाप्ययम ॥ 9 ॥
बरह्मणॊ मानसाः पुत्रा विदिताः षण महर्षयः मरीचिर अत्र्यङ्गिरसौ पुलस्त्यः पुलहः करतुः ॥ 10 ॥
मरीचेः कश्यपः पुत्रः कश्यपात तु इमाः परजाः परजज्ञिरे महाभागा दक्ष कन्यास तरयॊदश ॥ 11 ॥
अदितिर दितिर दनुः काला अनायुः सिंहिका मुनिः करॊधा परावा अरिष्टा च विनता कपिला तथा ॥ 12 ॥
कद्रूश च मनुजव्याघ्रदक्ष कन्यैव भारत एतासां वीर्यसंपन्नं पुत्रपौत्रम अनन्तकम ॥ 13 ॥
अदित्यां दवादशादित्याः संभूता भुवनेश्वराः ये राजन नामतस तांस ते कीर्तयिष्यामि भारत ॥ 14 ॥
धाता मित्रॊ ऽरयमा शक्रॊ वरुणश चांश एव च भगॊ विवस्वान पूषा च सविता दशमस तथा ॥ 15 ॥
एकादशस तथा तवष्टा विष्णुर दवादश उच्यते जघन्यजः स सर्वेषाम आदित्यानां गुणाधिकः ॥ 16 ॥
एक एव दितेः पुत्रॊ हिरण्यकशिपुः समृतः नाम्ना खयातास तु तस्येमे पुत्राः पञ्च महात्मनः ॥ 17 ॥
परह्रादः पूर्वजस तेषां संह्रादस तदनन्तरम अनुह्रादस तृतीयॊ ऽभूत तस्माच च शिबिबाष्कलौ ॥ 18 ॥
परह्रादस्य तरयः पुत्राः खयाताः सर्वत्र भारत विरॊचनश च कुम्भश च निकुम्भश चेति विश्रुताः ॥ 19 ॥
विरॊचनस्य पुत्रॊ ऽभूद बलिर एकः परतापवान बलेश च परथितः पुत्रॊ बाणॊ नाम महासुरः ॥ 20 ॥
चत्वारिंशद दनॊः पुत्राः खयाताः सर्वत्र भारत तेषां पथमजॊ राजा विप्रचित्तिर महायशाः ॥ 21 ॥
शम्बरॊ नमुचिश चैव पुलॊमा चेति विश्रुतः असि लॊमा च केशी च दुर्जयश चैव दानवः ॥ 22 ॥
अयः शिरा अश्वशिरा अयः शङ्कुश च वीर्यवान तथा गगनमूर्धा च वेगवान केतुमांश च यः ॥ 23 ॥
सवर्भानुर अश्वॊ ऽशवपतिर वृषपर्वाजकस तथा अश्वग्रीवश च सूक्ष्मश च तुहुण्डश च महासुरः ॥ 24 ॥
इसृपा एकचक्रश च विरूपाक्षॊ हराहरौ निचन्द्रश च निकुम्भश च कुपथः कापथस तथा ॥ 25 ॥
शरभः शलभश चैव सूर्या चन्द्रमसौ तथा इति खयाता दनॊर वंशे दानवाः परिकीर्तिताः अन्यौ तु खलु देवानां सूर्यचन्द्रमसौ समृतौ ॥ 26 ॥
इमे च वंशे परथिताः सत्त्ववन्तॊ महाबलाः दनु पुत्रा महाराज दश दानव पुङ्गवाः ॥ 27 ॥
एकाक्षॊ मृतपा वीरः परलम्बनरकाव अपि वातापिः शत्रुतपनः शठश चैव महासुरः ॥ 28 ॥
गविष्ठश च दनायुश च दीर्घजिह्वश च दानवः असंख्येयाः समृतास तेषां पुत्राः पौत्राश च भारत ॥ 29 ॥
सिंहिका सुषुवे पुत्रं राहुं चन्द्रार्कमर्दनम सुचन्द्रं चन्द्र हन्तारं तथा चन्द्र विमर्दनम ॥ 30 ॥
करूर सवभावं करूरायाः पुत्रपौत्रम अनन्तकम गणः करॊधवशॊ नाम करूरकर्मारि मर्दनः ॥ 31 ॥
अनायुषः पुनः पुत्राश चत्वारॊ ऽसुर पुङ्गवाः विक्षरॊ बलवीरौ च वृत्रश चैव महासुरः ॥ 32 ॥
कालायाः परथिताः पुत्राः कालकल्पाः परहारिणः भुवि खयाता महावीर्या दानवेषु परंतपाः ॥ 33 ॥
विनाशनश च करॊधश च हन्ता करॊधस्य चापरः करॊधशत्रुस तथैवान्यः कालेया इति विश्रुताः ॥ 34 ॥
असुराणाम उपाध्यायः शुक्रस तव ऋषिसुतॊ ऽभवत खयाताश चॊशनसः पुत्राश चत्वारॊ ऽसुर याजकाः ॥ 35 ॥
तवष्टावरस तथात्रिश च दवाव अन्यौ मन्त्रकर्मिणौ तेजसा सूर्यसंकाशा बरह्मलॊकप्रभावनाः ॥ 36 ॥
इत्य एष वंशप्रभवः कथितस ते तरस्विनाम असुराणां सुराणां च पुराणे संश्रुतॊ मया ॥ 37 ॥
एतेषां यद अपत्यं तु न शक्यं तद अशेषतः परसंख्यातुं महीपाल गुणभूतम अनन्तकम ॥ 38 ॥
तार्क्ष्यश चारिष्टनेमिश च तथैव गरुडारुणौ आरुणिर वारुणिश चैव वैनतेया इति समृताः ॥ 39 ॥
शेषॊ ऽनन्तॊ वासुकिश च तक्षकश च भुजंगमः कूर्मश च कुलिकश चैव काद्रवेया महाबलाः ॥ 40 ॥
भीमसेनॊग्र सेनौ च सुपर्णॊ वरुणस तथा गॊपतिर धृतराष्ट्रश च सूर्यवर्चाश च सप्तमः ॥ 41 ॥
पत्रवान अर्कपर्णश च परयुतश चैव विश्रुतः भीमश चित्ररथश चैव विख्यातः सर्वविद वशी ॥ 42 ॥
तथा शालिशिरा राजन परद्युम्नश च चतुर्दशः कलिः पञ्चदशश चैव नारदश चैव षॊडशः इत्य एते देवगन्धर्वा मौनेयाः परिकीर्तिताः ॥ 43 ॥
अतस तु भूतान्य अन्यानि कीर्तयिष्यामि भारत अनवद्याम अनुवशाम अनूनाम अरुणां परियाम अनूपां सुभगां भासीम इति परावा वयजायत ॥ 44 ॥
सिद्धः पूर्णश च बर्ही च पूर्णाशश च महायशाः बरह्म चारी रतिगुणः सुपर्णश चैव सप्तमः ॥ 45 ॥
विश्वावसुश च भानुश च सुचन्द्रॊ दशमस तथा इत्य एते देवगन्धर्वाः परावेयाः परिकीर्तिताः ॥ 46 ॥
इमं तव अप्सरसां वंशं विदितं पुण्यलक्षणम परावासूत महाभागा देवी देवर्षितः पुरा ॥ 47 ॥
अलम्बुसा मिश्रकेषी विद्युत पर्णा तुलानघा अरुणा रक्षिता चैव रम्भा तद्वन मनॊरमाः ॥ 48 ॥
असिता च सुबाहुश च सुव्रता सुभुजा तथा सुप्रिया चातिबाहुश च विख्यातौ च हहाहुहू तुम्बुरुश चेति चत्वारः समृता गन्धर्वसत्तमाः ॥ 49 ॥
अमृतं बराह्मणा गावॊ गन्धर्वाप्सरसस तथा अपत्यं कपिलायास तु पुराणे परिकीर्तितम ॥ 50 ॥
इति ते सर्वभूतानां संभवः कथितॊ मया यथावत परिसंख्यातॊ गन्धर्वाप्सरसां तथा ॥ 51 ॥
भुजगानां सुपर्णानां रुद्राणां मरुतां तथा गवां च बराह्मणानां च शरीमतां पुण्यकर्मणाम ॥ 52 ॥
आयुष्यश चैव पुण्यश च धन्यः शरुतिसुखावहः शरॊतव्यश चैव सततं शराव्यश चैवानसूयता ॥ 53 ॥
इमं तु वंशं नियमेन यः पठेन; महात्मनां बराह्मणदेव संनिधौ अपत्यलाभं लभते स पुष्कलं; शरियं यशः परेत्य च शॊभनां गतिम ॥ 54 ॥
आदिपर्व · Adi Parva
अध्याय 59
Reach this point to mark the section finished.
Continue to अध्याय 60