धर्मDharmic Data

आदिपर्व · Adi Parva

अध्याय 58

  1. [ज] य एते कीर्तिता बरह्मन ये चान्ये नानुकीर्तिताः सम्यक ताञ शरॊतुम इच्छामि राज्ञश चान्यान सुवर्चसः ॥ 1 ॥

  2. यदर्थम इह संभूता देवकल्पा महारथाः भुवि तन मे महाभाग सम्यग आख्यातुम अर्हसि ॥ 2 ॥

  3. [व] रहस्यं खल्व इदं राजन देवानाम इति नः शरुतम तत तु ते कथयिष्यामि नमस्कृत्वा सवयं भुवे ॥ 3 ॥

  4. तरिः सप्तकृत्वः पृथिवीं कृत्वा निःक्षत्रियां पुरा जामदग्न्यस तपस तेपे महेन्द्रे पर्वतॊत्तमे ॥ 4 ॥

  5. तदा निःक्षत्रिये लॊके भार्गवेण कृते सति बराह्मणान कषत्रिया राजन गर्भार्थिन्यॊ ऽभिचक्रमुः ॥ 5 ॥

  6. ताभिः सह समापेतुर बराह्मणाः संशितव्रताः ऋताव ऋतौ नरव्याघ्र न कामान नानृतौ तथा ॥ 6 ॥

  7. तेभ्यस तु लेभिरे गर्भान कषत्रियास ताः सहस्रशः ततः सुषुविरे राजन कषत्रियान वीर्यसंमतान कुमारांश च कुमारीश च पुनः कषत्राभिवृद्धये ॥ 7 ॥

  8. एवं तद बराह्मणैः कषत्रं कषत्रियासु तपस्विभिः जातम ऋध्यत धर्मेण सुदीर्घेणायुषान्वितम चत्वारॊ ऽपि तदा वर्णा बभूवुर बराह्मणॊत्तराः ॥ 8 ॥

  9. अभ्यगच्छन्न ऋतौ नारीं न कामान नानृतौ तथा तथैवान्यानि भूतानि तिर्यग्यॊनिगतान्य अपि ऋतौ दारांश च गच्छन्ति तदा सम भरतर्षभ ॥ 9 ॥

  10. ततॊ ऽवर्धन्त धर्मेण सहस्रशतजीविनः ताः परजाः पृथिवीपाल धर्मव्रतपरायणाः आधिभिर वयाधिभिश चैव विमुक्ताः सर्वशॊ नराः ॥ 10 ॥

  11. अथेमां सागरापाङ्गां गां गजेन्द्र गताखिलाम अध्यतिष्ठत पुनः कषत्रं सशैलवनकाननाम ॥ 11 ॥

  12. परशासति पुनः कषत्रे धर्मेणेमां वसुंधराम बराह्मणाद्यास तदा वर्णा लेभिरे मुदम उत्तमाम ॥ 12 ॥

  13. कामक्रॊधॊद्भवान दॊषान निरस्य च नराधिपाः दण्डं दण्ड्येषु धर्मेण परणयन्तॊ ऽनवपालयन ॥ 13 ॥

  14. तथा धर्मपरे कषत्रे सहस्राक्षः शतक्रतुः सवादु देशे च काले च ववर्षाप्याययन परजाः ॥ 14 ॥

  15. न बाल एव मरियते तदा कश चिन नराधिप न च सत्रियं परजानाति कश चिद अप्राप्तयौवनः ॥ 15 ॥

  16. एवम आयुष्मतीभिस तु परजाभिर भरतर्षभ इयं सागरपर्यन्ता समापूर्यत मेदिनी ॥ 16 ॥

  17. ईजिरे च महायज्ञैः कषत्रिया बहु दक्षिणैः साङ्गॊपनिषदान वेदान विप्राश चाधीयते तदा ॥ 17 ॥

  18. न च विक्रीणते बरह्म बराह्मणाः सम तदा नृप न च शूद्र समाभ्याशे वेदान उच्चारयन्त्य उत ॥ 18 ॥

  19. कारयन्तः कृषिं गॊभिस तथा वैश्याः कषिताव इह न गाम अयुञ्जन्त धुरि कृशाङ्गाश चाप्य अजीवयन ॥ 19 ॥

  20. फेनपांश च तथा वत्सान न दुहन्ति सम मानवाः न कूटमानैर वणिजः पण्यं विक्रीणते तदा ॥ 20 ॥

  21. कर्माणि च नरव्याघ्र धर्मॊपेतानि मानवाः धर्मम एवानुपश्यन्तश चक्रुर धर्मपरायणाः ॥ 21 ॥

  22. सवकर्मनिरताश चासन सर्वे वर्णा नराधिप एवं तदा नरव्याघ्र धर्मॊ न हरसते कव चित ॥ 22 ॥

  23. काले गावः परसूयन्ते नार्यश च भरतर्षभ फलन्त्य ऋतुषु वृष्काश च पुष्पाणि च फलानि च ॥ 23 ॥

  24. एवं कृतयुगे सम्यग वर्तमाने तदा नृप आपूर्यते महीकृत्स्ना पराणिभिर बहुभिर भृशम ॥ 24 ॥

  25. ततः समुदिते लॊके मानुषे भरतर्षभ असुरा जज्ञिरे कषेत्रे राज्ञां मनुजपुंगव ॥ 25 ॥

  26. आदित्यैर हि तदा दैत्या बहुशॊ निर्जिता युधि ऐश्वर्याद भरंशिताश चापि संबभूवुः कषिताव इह ॥ 26 ॥

  27. इह देवत्वम इच्छन्तॊ मानुषेषु मनस्विनः जज्ञिरे भुवि भूतेषु तेषु तेष्व असुरा विभॊ ॥ 27 ॥

  28. गॊष्व अश्वेषु च राजेन्द्र खरॊष्ट्रमहिषेषु च करव्यादेषु च भूतेषु गजेषु च मृगेषु च ॥ 28 ॥

  29. जातैर इह महीपाल जायमानैश च तैर मही न शशाकात्मनात्मानम इयं धारयितुं धरा ॥ 29 ॥

  30. अथ जाता महीपालाः के चिद बलसमन्विताः दितेः पुत्रा दनॊश चैव तस्माल लॊकाद इह चयुताः ॥ 30 ॥

  31. वीर्यवन्तॊ ऽवलिप्तास ते नानारूपधरा महीम इमां सागरपर्यन्तां परीयुर अरिमर्दनाः ॥ 31 ॥

  32. बराह्मणान कषत्रियान वैश्याञ शूद्रांश चैवाप्य अपीडयन अन्यानि चैव भूतानि पीडयाम आसुर ओजसा ॥ 32 ॥

  33. तरासयन्तॊ विनिघ्नन्तस तांस तान भूतगणांश च ते विचेरुः सर्वतॊ राजन महीं शतसहस्रशः ॥ 33 ॥

  34. आश्रमस्थान महर्षींश च धर्षयन्तस ततस ततः अब्रह्मण्या वीर्यमदा मत्ता मदबलेन च ॥ 34 ॥

  35. एवं वीर्यबलॊत्सिक्तैर भूर इयं तैर महासुरैः पीड्यमाना महीपाल बरह्माणम उपचक्रमे ॥ 35 ॥

  36. न हीमां पवनॊ राजन न नागा न नगा महीम तदा धारयितुं शेकुर आक्रान्तां दानवैर बलात ॥ 36 ॥

  37. ततॊ मही महीपाल भारार्ता भयपीडिता जगाम शरणं देवं सर्वभूतपितामहम ॥ 37 ॥

  38. सा संवृतं महाभागैर देवद्विज महर्षिभिः ददर्श देवं बरह्माणं लॊककर्तारम अव्ययम ॥ 38 ॥

  39. गन्धर्वैर अप्सरॊभिश च बन्दि कर्मसु निष्ठितैः वन्द्यमानं मुदॊपेतैर ववन्दे चैनम एत्य सा ॥ 39 ॥

  40. अथ विज्ञापयाम आस भूमिस तं शरणार्थिनी संनिधौ लॊकपालानां सर्वेषाम एव भारत ॥ 40 ॥

  41. तत परधानात्मनस तस्य भूमेः कृत्यं सवयं भुवः पूर्वम एवाभवद राजन विदितं परमेष्ठिनः ॥ 41 ॥

  42. सरष्टा हि जगतः कस्मान न संबुध्येत भारत सुरासुराणां लॊकानाम अशेषेण मनॊगतम ॥ 42 ॥

  43. तम उवाच महाराज भूमिं भूमिपतिर विभुः परभवः सर्वभूतानाम ईशः शम्भुः परजापतिः ॥ 43 ॥

  44. यदर्थम असि संप्राप्ता मत्सकाशं वसुंधरे तदर्थं संनियॊक्ष्यामि सर्वान एव दिवौकसः ॥ 44 ॥

  45. इत्य उक्त्वा स महीं देवॊ बरह्मा राजन विसृज्य च आदिदेश तदा सर्वान विबुधान भूतकृत सवयम ॥ 45 ॥

  46. अस्या भूमेर निरसितुं भारं भागैः पृथक पृथक अस्याम एव परसूयध्वं विरॊधायेति चाब्रवीत ॥ 46 ॥

  47. तथैव च समानीय गन्धर्वाप्सरसां गणान उवाच भगवान सर्वान इदं वचनम उत्तमम सवैर अंशैः संप्रसूयध्वं यथेष्टं मानुषेष्व इति ॥ 47 ॥

  48. अथ शक्रादयः सर्वे शरुत्वा सुरगुरॊर वचः तथ्यम अर्थ्यं च पथ्यं च तस्य ते जगृहुस तदा ॥ 48 ॥

  49. अथ ते सर्वशॊ ऽंशैः सवैर गन्तुं भूमिं कृतक्षणाः नारायणम अमित्रघ्नं वैकुण्ठम उपचक्रमुः ॥ 49 ॥

  50. यः सचक्रगदापाणिः पीतवासासित परभः पद्मनाभः सुरारिघ्नः पृथुचार्वञ्चितेक्षणः ॥ 50 ॥

  51. तं भुवः शॊधनायेन्द्र उवाच पुरुषॊत्तमम अंशेनावतरस्वेति तथेत्य आह च तं हरिः ॥ 51 ॥

Reach this point to mark the section finished.

Continue to अध्याय 59

Previous: अध्याय 57