[व] राजॊपरिचरॊ नाम धर्मनित्यॊ महीपतिः बभूव मृगयां गन्तुं स कदा चिद धृतव्रतः ॥ 1 ॥
स चेदिविषयं रम्यं वसुः पौरवनन्दनः इन्द्रॊपदेशाज जग्राह गरहणीयं महीपतिः ॥ 2 ॥
तम आश्रमे नयस्तशस्त्रं निवसन्तं तपॊ रतिम देवः साक्षात सवयं वज्री समुपायान महीपतिम ॥ 3 ॥
इन्द्रत्वम अर्हॊ राजायं तपसेत्य अनुचिन्त्य वै तं सान्त्वेन नृपं साक्षात तपसः संन्यवर्तयत ॥ 4 ॥
[ईन्द्र] न संकीर्येत धर्मॊ ऽयं पृथिव्यां पृथिवीपते तं पाहि धर्मॊ हि धृतः कृत्स्नं धारयते जगत ॥ 5 ॥
लॊक्यं धर्मं पालय तवं नित्ययुक्तः समाहितः धर्मयुक्तस ततॊ लॊकान पुण्यान आप्स्यसि शाश्वतान ॥ 6 ॥
दिविष्ठस्य भुविष्ठस तवं सखा भूत्वा मम परियः ऊधः पृथिव्या यॊ देशस तम आवस नराधिप ॥ 7 ॥
पशव्यश चैव पुण्यश च सुस्थिरॊ धनधान्यवान सवारक्ष्यश चैव सौम्यश च भॊग्यैर भूमिगुणैर वृतः ॥ 8 ॥
अत्य अन्यान एष देशॊ हि धनरत्नादिभिर युतः वसु पूर्णा च वसुधा वस चेदिषु चेदिप ॥ 9 ॥
धर्मशीला जनपदाः सुसंतॊषाश च साधवः न च मिथ्या परलापॊ ऽतर सवैरेष्व अपि कुतॊ ऽनयथा ॥ 10 ॥
न च पित्रा विभज्यन्ते नरा गुरुहिते रताः युञ्जते धुरि नॊ गाश च कृशाः संधुक्षयन्ति च ॥ 11 ॥
सर्वे वर्णाः सवधर्मस्थाः सदा चेदिषु मानद न ते ऽसत्य अविदितं किं चित तरिषु लॊकेषु यद भवेत ॥ 12 ॥
देवॊपभॊग्यं दिव्यं च आकाशे सफाटिकं महत आकाशगं तवां मद्दत्तं विमानम उपपत्स्यते ॥ 13 ॥
तवम एकः सर्वमर्त्येषु विमानवरम आस्थितः चरिष्यस्य उपरिस्थॊ वै देवॊ विग्रहवान इव ॥ 14 ॥
ददामि ते वैजयन्तीं मालाम अम्लान पङ्कजाम धारयिष्यति संग्रामे या तवां शस्त्रैर अविक्षतम ॥ 15 ॥
लक्षणं चैतद एवेह भविता ते नराधिप इन्द्र मालेति विख्यातं धन्यम अप्रतिमं महत ॥ 16 ॥
[व] यष्टिं च वैणवीं तस्मै ददौ वृत्रनिषूदनः इष्टप्रदानम उद्दिश्य शिष्टानां परिपालिनीम ॥ 17 ॥
तस्याः शक्रस्य पूजार्थं भूमौ भूमिपतिस तदा परवेशं कारयाम आस गते संवत्सरे तदा ॥ 18 ॥
ततः परभृति चाद्यापि यष्ट्याः कषितिप सत्तमैः परवेशः करियते राजन यथा तेन परवर्तितः ॥ 19 ॥
अपरे दयुस तथा चास्याः करियते उच्छ्रयॊ नृपैः अलंकृतायाः पिटकैर गन्धैर माल्यैश च भूषणैः माल्यदाम परिक्षिप्ता विधिवत करियते ऽपि च ॥ 20 ॥
भगवान पूज्यते चात्र हास्यरूपेण शंकरः सवयम एव गृहीतेन वसॊः परीत्या महात्मनः ॥ 21 ॥
एतां पूजां महेन्द्रस तु दृष्ट्वा देवकृतां शुभाम वसुना राजमुख्येन परीतिमान अब्रवीद विभुः ॥ 22 ॥
ये पूजयिष्यन्ति नरा राजानश च महं मम कारयिष्यन्ति च मुदा यथा चेदिपतिर नृपः ॥ 23 ॥
तेषां शरीर विजयश चैव सराष्ट्राणां भविष्यति तथा सफीतॊ जनपदॊ मुदितश च भविष्यति ॥ 24 ॥
एवं महात्मना तेन महेन्द्रेण नराधिप वसुः परीत्या मघवता महाराजॊ ऽभिसत्कृतः ॥ 25 ॥
उत्सवं कारयिष्यन्ति सदा शक्रस्य ये नराः भूमिदानादिभिर दानैर यथा पूता भवन्ति वै वरदानमहायज्ञैस तथा शक्रॊत्सवेन ते ॥ 26 ॥
संपूजितॊ मघवता वसुश चेदिपतिस तदा पालयाम आस धर्मेण चेदिस्थः पृथिवीम इमाम इन्द्र परीत्या भूमिपतिश चकारेन्द्र महं वसुः ॥ 27 ॥
पुत्राश चास्य महावीर्याः पञ्चासन्न अमितौजसः नाना राज्येषु च सुतान स सम्राड अभ्यषेचयत ॥ 28 ॥
महारथॊ मगध राड विश्रुतॊ यॊ बृहद्रथः परत्यग्रहः कुशाम्बश च यम आहुर मणिवाहनम मच छिल्लश च यदुश चैव राजन्यश चापराजितः ॥ 29 ॥
एते तस्य सुता राजन राजर्षेर भूरि तेजसः नयवेशयन नामभिः सवैस ते देशांश च पुराणि च वासवाः पञ्च राजानः पृथग वंशाश च शाश्वताः ॥ 30 ॥
वसन्तम इन्द्र परासादे आकाशे सफाटिके च तम उपतस्थुर महात्मानं गन्धर्वाप्सरसॊ नृपम राजॊपरिचरेत्य एवं नाम तस्याथ विश्रुतम ॥ 31 ॥
पुरॊपवाहिनीं तस्य नदीं शुक्तिमतीं गिरिः अरौत्सीच चेतना युक्तः कामात कॊलाहलः किल ॥ 32 ॥
गिरिं कॊलाहलं तं तु पदा वसुर अताडयत निश्चक्राम नदी तेन परहार विवरेण सा ॥ 33 ॥
तस्यां नद्याम अजनयन मिथुनं पर्वतः सवयम तस्माद विमॊक्षणात परीता नदी राज्ञे नयवेदयत ॥ 34 ॥
यः पुमान अभवत तत्र तं स राजर्षिसत्तमः वसुर वसु परदश चक्रे सेनापतिम अरिंदमम चकार पत्नीं कन्यां तु दयितां गिरिकां नृपः ॥ 35 ॥
वसॊः पत्नी तु गिरिका कामात काले नयवेदयत ऋतुकालम अनुप्राप्तं सनाता पुंसवने शुचिः ॥ 36 ॥
तद अहः पितरश चैनम ऊचुर जहि मृगान इति तं राजसत्तमं परीतास तदा मतिमतां वरम ॥ 37 ॥
स पितॄणां नियॊगं तम अव्यतिक्रम्य पार्थिवः चचार मृगयां कामी गिरिकाम एव संस्मरन अतीव रूपसंपन्नां साक्षाच छरियम इवापराम ॥ 38 ॥
तस्य रेतः परचस्कन्द चरतॊ रुचिरे वने सकन्न मात्रं च तद रेतॊ वृक्षपत्रेण भूमिपः ॥ 39 ॥
परतिजग्राह मिथ्या मे न सकंदेद रेत इत्य उत ऋतुश च तस्या पत्न्या मे न मॊघः सयाद इति परभुः ॥ 40 ॥
संचिन्त्यैवं तदा राजा विचार्य च पुनः पुनः अमॊघत्वं च विज्ञाय रेतसॊ राजसत्तमः ॥ 41 ॥
शुक्रप्रस्थापने कालं महिष्याः परसमीक्ष्य सः अभिमन्त्र्याथ तच छुक्रम आरात तिष्ठन्तम आशुगम सूक्ष्मधर्मार्थतत्त्वज्ञॊ जञात्वा शयेनं ततॊ ऽबरवीत ॥ 42 ॥
मत्प्रियार्थम इदं सौम्य शुक्रं मम गृहं नय गिरिकायाः परयच्छाशु तस्या हय आर्तवम अद्य वै ॥ 43 ॥
गृहीत्वा तत तदा शयेनस तूर्णम उत्पत्य वेगवान जवं परमम आस्थाय परदुद्राव विहंगमः ॥ 44 ॥
तम अपश्यद अथायान्तं शयेनं शयेनस तथापरः अभ्यद्रवच च तं सद्यॊ दृष्ट्वैवामिष शङ्कया ॥ 45 ॥
तुण्डयुद्धम अथाकाशे ताव उभौ संप्रचक्रतुः युध्यतॊर अपतद रेतस तच चापि यमुनाम्भसि ॥ 46 ॥
तत्राद्रिकेति विख्याता बरह्मशापाद वराप्सराः मीनभावम अनुप्राप्ता बभूव यमुना चरी ॥ 47 ॥
शयेनपादपरिभ्रष्टं तद वीर्यम अथ वासवम जग्राह तरसॊपेत्य साद्रिका मत्स्यरूपिणी ॥ 48 ॥
कदा चिद अथ मत्सीं तां बबन्धुर मत्स्यजीविनः मासे च दशमे पराप्ते तदा भरतसत्तम उज्जह्नुर उदरात तस्याः सत्रीपुमांसं च मानुषम ॥ 49 ॥
आश्चर्यभूतं मत्वा तद राज्ञस ते परत्यवेदयन काये मत्स्या इमौ राजन संभूतौ मानुषाव इति ॥ 50 ॥
तयॊः पुमांसं जग्राह राजॊपरिचरस तदा स मत्स्यॊ नाम राजासीद धार्मिकः सत्यसंगरः ॥ 51 ॥
साप्सरा मुक्तशापा च कषणेन समपद्यत पुरॊक्ता या भगवता तिर्यग्यॊनिगता शुभे मानुषौ जनयित्वा तवं शापमॊक्षम अवाप्स्यसि ॥ 52 ॥
ततः सा जनयित्वा तौ विशस्ता मत्स्यघातिना संत्यज्य मत्स्यरूपं सा दिव्यं रूपम अवाप्य च सिद्धर्षिचारणपथं जगामाथ वराप्सराः ॥ 53 ॥
या कन्या दुहिता तस्या मत्स्या मत्स्यसगन्धिनी राज्ञा दत्ताथ दाशाय इयं तव भवत्व इति रूपसत्त्वसमायुक्ता सर्वैः समुदिता गुणैः ॥ 54 ॥
सा तु सत्यवती नाम मत्स्यघात्य अभिसंश्रयात आसीन मत्स्यसगन्धैव कं चित कालं शुचिस्मिता ॥ 55 ॥
शुश्रूषार्थं पितुर नावं तां तु वाहयतीं जले तीर्थयात्रां परिक्रामन्न अपश्यद वै पराशरः ॥ 56 ॥
अतीव रूपसंपन्नां सिद्धानाम अपि काङ्क्षिताम दृष्ट्वैव च स तान धीमांश चकमे चारुदर्शनाम विद्वांस तां वासवीं कन्यां कार्यवान मुनिपुंगवः ॥ 57 ॥
साब्रवीत पश्य भगवन पारावारे ऋषीन सथितान आवयॊर दृश्यतॊर एभिः कथं नु सयां समागमः ॥ 58 ॥
एवं तयॊक्तॊ भगवान नीहारम असृजत परभुः येन देशः स सर्वस तु तमॊ भूत इवाभवत ॥ 59 ॥
दृष्ट्वा सृष्टं तु नीहारं ततस तं परमर्षिणा विस्मिता चाब्रवीत कन्या वरीडिता च मनस्विनी ॥ 60 ॥
विद्धि मां भगवन कन्यां सदा पितृवशानुगाम तवत संयॊगाच च दुष्येत कन्या भावॊ ममानघ ॥ 61 ॥
कन्यात्वे दूषिते चापि कथं शक्ष्ये दविजॊत्तम गन्तुं गृहं गृहे चाहं धीमन न सथातुम उत्सहे एतत संचिन्त्य भगवन विधत्स्व यद अनन्तरम ॥ 62 ॥
एवम उक्तवतीं तां तु परीतिमान ऋषिसत्तमः उवाच मत्प्रियं कृत्वा कन्यैव तवं भविष्यसि ॥ 63 ॥
वृणीष्व च वरं भीरु यं तवम इच्छसि भामिनि वृथा हिन परसादॊ मे भूतपूर्वः शुचिस्मिते ॥ 64 ॥
एवम उक्ता वरं वव्रे गात्रसौगन्ध्यम उत्तमम स चास्यै भगवान परादान मनसः काङ्क्षितं परभुः ॥ 65 ॥
ततॊ लब्धवरा परीता सत्रीभावगुणभूषिता जगाम सह संसर्गम ऋषिणाद्भुत कर्मणा ॥ 66 ॥
तेन गन्धवतीत्य एव नामास्याः परथितं भुवि ततॊ यॊजनगन्धेति तस्या नाम परिश्रुतम ॥ 67 ॥
पराशरॊ ऽपि भगवाञ जगाम सवं निवेशनम इति सत्यवती हृष्टा लब्ध्वा वरम अनुत्तमम ॥ 68 ॥
पराशरेण संयुक्ता सद्यॊ गर्भं सुषाव सा जज्ञे च यमुना दवीपे पाराशर्यः सवीर्यवान ॥ 69 ॥
स मातरम उपस्थाय तपस्य एव मनॊ दधे समृतॊ ऽहं दर्शयिष्यामि कृत्येष्व इति च सॊ ऽबरवीत ॥ 70 ॥
एवं दवैपायनॊ जज्ञे सत्यवत्यां पराशरात दवीपे नयस्तः स यद बालस तस्माद दवैपायनॊ ऽभवत ॥ 71 ॥
पादापसारिणं धर्मं विद्वान स तु युगे युगे आयुः शक्तिं च मर्त्यानां युगानुगम अवेक्ष्य च ॥ 72 ॥
बरह्मणॊ बराह्मणानां च तथानुग्रह काम्यया विव्यास वेदान यस्माच च तस्माद वयास इति समृतः ॥ 73 ॥
वेदान अध्यापयाम आस महाभारत पञ्चमान सुमन्तुं जैमिनिं पैलं शुकं चैव सवम आत्मजम ॥ 74 ॥
परभुर वरिष्ठॊ वरदॊ वैशम्पायनम एव च संहितास तैः पृथक्त्वेन भारतस्य परकाशिताः ॥ 75 ॥
तथा भीष्मः शांतनवॊ गङ्गायाम अमितद्युतिः वसु वीर्यात समभवन महावीर्यॊ महायशाः ॥ 76 ॥
शूले परॊतः पुराणर्षिर अचॊरश चॊरशङ्कया अणी माण्डव्य इति वै विख्यातः सुमहायशाः ॥ 77 ॥
स धर्मम आहूय पुरा महर्षिर इदम उक्तवान इषीकया मया बाल्याद एका विद्धा शकुन्तिका ॥ 78 ॥
तत किल्बिषं समरे धर्मनान्यत पापम अहं समरे तन मे सहस्रसमितं कस्मान नेहाजयत तपः ॥ 79 ॥
गरीयान बराह्मणवधः सर्वभूतवधाद यतः तस्मात तवं किल्बिषाद अस्माच छूद्र यॊनौ जनिष्यसि ॥ 80 ॥
तेन शापेन धर्मॊ ऽपि शूद्रयॊनाव अजायत विद्वान विदुर रूपेण धार्मी तनुर अकिल्बिषी ॥ 81 ॥
संजयॊ मुनिकल्पस तु जज्ञे सूतॊ गवल्गणात सूर्याच च कुन्ति कन्यायां जज्ञे कर्णॊ महारथः सहजं कवचं विभ्रत कुण्डलॊद्द्यॊतिताननः ॥ 82 ॥
अनुग्रहार्थं लॊकानां विष्णुर लॊकनमस्कृतः वसुदेवात तु देवक्यां परादुर्भूतॊ महायशाः ॥ 83 ॥
अनादि निधनॊ देवः स कर्ता जगतः परभुः अव्यक्तम अक्षरं बरह्म परधानं निर्गुणात्मकम ॥ 84 ॥
आत्मानम अव्ययं चैव परकृतिं परभवं परम पुरुषं विश्वकर्माणं सत्त्वयॊगं धरुवाक्षरम ॥ 85 ॥
अनन्तम अचलं देवं हंसं नारायणं परभुम धातारम अजरं नित्यं तम आहुः परम अव्ययम ॥ 86 ॥
पुरुषः स विभुः कर्ता सर्वभूतपितामहः धर्मसंवर्धनार्थाय परजज्ञे ऽनधकवृष्णिषु ॥ 87 ॥
अस्त्रज्ञौ तु महावीर्यौ सर्वशस्त्रविशारदौ सात्यकिः कृतवर्मा च नारायणम अनुव्रतौ सत्यकाद धृदिकाच चैव जज्ञाते ऽसत्रविशारदौ ॥ 88 ॥
भरद्वाजस्य च सकन्नं दरॊण्यां शुक्रम अवर्धत महर्षेर उग्रतपसस तस्माद दरॊणॊ वयजायत ॥ 89 ॥
गौतमान मिथुनं जज्ञे शरस्तम्बाच छरद्वतः अश्वत्थाम्नश च जननी कृपश चैव महाबलः अश्वत्थामा ततॊ जज्ञे दरॊणाद अस्त्रभृतां वरः ॥ 90 ॥
तथैव धृष्टद्युम्नॊ ऽपि साक्षाद अग्निसमद्युतिः वैताने कर्मणि तते पावकात समजायत वीरॊ दरॊण विनाशाय धनुषा सह वीर्यवान ॥ 91 ॥
तथैव वेद्यां कृष्णापि जज्ञे तेजस्विनी शुभा विभ्राजमाना वपुषा बिभ्रती रूपम उत्तमम ॥ 92 ॥
परह्राद शिष्यॊ नग्नजित सुबलश चाभवत ततः तस्य परजा धर्महन्त्री जज्ञे देव परकॊपनात ॥ 93 ॥
गान्धारराजपुत्रॊ ऽभूच छकुनिः सौबलस तथा दुर्यॊधनस्य माता च जज्ञाते ऽरथविदाव उभौ ॥ 94 ॥
कृष्णद्वैपायनाज जज्ञे धृतराष्ट्रॊ जनेश्वरः कषेत्रे विचित्रवीर्यस्य पाण्डुश चैव महाबलः ॥ 95 ॥
पाण्डॊस तु जज्ञिरे पञ्च पुत्रा देवसमाः पृथक दवयॊः सत्रियॊर गुणज्येष्ठस तेषाम आसीद युधिष्ठिरः ॥ 96 ॥
धर्माद युधिष्ठिरॊ जज्ञे मारुतात तु वृकॊदरः इन्द्राद धनंजयः शरीमान सर्वशस्त्रभृतां वरः ॥ 97 ॥
जज्ञाते रूपसंपन्नाव अश्विभ्यां तु यमाव उभौ नकुलः सहदेवश च गुरुशुश्रूषणे रतौ ॥ 98 ॥
तथा पुत्रशतं जज्ञे धृतराष्ट्रस्य धीमतः दुर्यॊधनप्रभृतयॊ युयुत्सुः करणस तथा ॥ 99 ॥
अभिमन्युः सुभद्रायाम अर्जुनाद अभ्यजायत सवस्तीयॊ वासुदेवस्य पौत्रः पाण्डॊर महात्मनः ॥ 100 ॥
पाण्डवेभ्यॊ ऽपि पञ्चभ्यः कृष्णायां पञ्च जज्ञिरे कुमारा रूपसंपन्नाः सर्वशस्त्रविशारदाः ॥ 101 ॥
परतिविन्ध्यॊ युधिष्ठिरात सुत सॊमॊ वृकॊदरात अर्जुनाच छरुत कीर्तिस तु शतानीकस तु नाकुलिः ॥ 102 ॥
तथैव सहदेवाच च शरुतसेनः परतापवान हिडिम्बायां च भीमेन वने जज्ञे घटॊत्कचः ॥ 103 ॥
शिखण्डी दरुपदाज जज्ञे कन्या पुत्रत्वम आगता यां यक्षः पुरुषं चक्रे सथूणः परियचिकीर्षया ॥ 104 ॥
कुरूणां विग्रहे तस्मिन समागच्छन बहून्य अथ राज्ञां शतसहस्राणि यॊत्स्यमानानि संयुगे ॥ 105 ॥
तेषाम अपरिमेयानि नामधेयानि सर्वशः न शक्यं परिसंख्यातुं वर्षाणाम अयुतैर अपि एते तु कीर्तिता मुख्या यैर आख्यानम इदं ततम ॥ 106 ॥
आदिपर्व · Adi Parva
अध्याय 57
Reach this point to mark the section finished.
Continue to अध्याय 58