धर्मDharmic Data

आदिपर्व · Adi Parva

अध्याय 55

  1. [वै] गुरवे पराङ नमस्कृत्य मनॊ बुद्धिसमाधिभिः संपूज्य च दविजान सर्वांस तथान्यान विदुषॊ जनान ॥ 1 ॥

  2. महर्षेः सर्वलॊकेषु विश्रुतस्यास्य धीमतः परवक्ष्यामि मतं कृत्स्नं वयासस्यामित तेजसः ॥ 2 ॥

  3. शरॊतुं पात्रं च राजंस तवं पराप्येमां भारतीं कथाम गुरॊर वक्तुं परिस्पन्दॊ मुदा परॊत्साहतीव माम ॥ 3 ॥

  4. शृणु राजन यथा भेदः कुरुपाण्डवयॊर अभूत राज्यार्थे दयूतसंभूतॊ वनवासस तथैव च ॥ 4 ॥

  5. यथा च युद्धम अभवत पृथिवी कषयकारकम तत ते ऽहं संप्रवक्ष्यामि पृच्छते भरतर्षभ ॥ 5 ॥

  6. मृते पितरि ते वीरा वनाद एत्य सवमन्दिरम नचिराद इव विद्वांसॊ वेदे धनुषि चाभवन ॥ 6 ॥

  7. तांस तथारूपवीर्यौजः संपन्नान पौरसंमतान नामृष्यन कुरवॊ दृष्ट्वा पाण्डवाञ शरीयशॊ भृतः ॥ 7 ॥

  8. ततॊ दुर्यॊधनः करूरः कर्णश च सहसौबलः तेषां निग्रहनिर्वासान विविधांस ते समाचरन ॥ 8 ॥

  9. ददाव अथ विषं पापॊ भीमाय धृतराष्ट्रजः जरयाम आस तद वीरः सहान्नेन वृकॊदरः ॥ 9 ॥

  10. परमाण कॊट्यां संसुप्तं पुनर बद्ध्वा वृकॊदरम तॊयेषु भीमं गङ्गायाः परक्षिप्य पुरम आव्रजत ॥ 10 ॥

  11. यदा परबुद्धः कौन्तेयस तदा संछिद्य बन्धनम उदतिष्ठन महाराज भीमसेनॊ गतव्यथः ॥ 11 ॥

  12. आशीविषैः कृष्णसर्पैः सुप्तं चैनम अदंशयत सर्वेष्व एवाङ्गदेशेषु न ममार च शत्रुहा ॥ 12 ॥

  13. तेषां तु विप्रकारेषु तेषु तेषु महामतिः मॊक्षणे परतिघाते च विदुरॊ ऽवहितॊ ऽभवत ॥ 13 ॥

  14. सवर्गस्थॊ जीवलॊकस्य यथा शक्रः सुखावहः पाण्डवानां तथा नित्यं विदुरॊ ऽपि सुखावहः ॥ 14 ॥

  15. यदा तु विविधॊपायैः संवृतैर विवृतैर अपि नाशक्नॊद विनिहन्तुं तान दैवभाव्य अर्थरक्षितान ॥ 15 ॥

  16. ततः संमन्त्र्य सचिवैर वृषदुःशासनादिभिः धृतराष्ट्रम अनुज्ञाप्य जातुषं गृहम आदिशत ॥ 16 ॥

  17. तत्र तान वासयाम आस पाण्डवान अमितौजसः अदाहयच च विस्रब्धान पावकेन पुनस तदा ॥ 17 ॥

  18. विदुरस्यैव वचनात खनित्री विहिता ततः मॊक्षयाम आस यॊगेन ते मुक्ताः पराद्रवन भयात ॥ 18 ॥

  19. ततॊ महावने घॊरे हिडिम्बं नाम राक्षसम भीमसेनॊ ऽवधीत करुद्धॊ भुवि भीमपराक्रमः ॥ 19 ॥

  20. अथ संधाय ते वीरा एकचक्रां वरजंस तदा बरह्मरूपधरा भूत्वा मात्रा सह परंतपाः ॥ 20 ॥

  21. तत्र ते बराह्मणार्थाय बकं हत्वा महाबलम बराह्मणैः सहिता जग्मुः पाञ्चालानां पुरं ततः ॥ 21 ॥

  22. ते तत्र दरौपदीं लब्ध्वा परिसंवत्सरॊषिताः विदिता हास्तिनपुरं परत्याजग्मुर अरिंदमाः ॥ 22 ॥

  23. त उक्ता धृतराष्ट्रेण राज्ञा शांतनवेन च भरातृभिर विग्रहस तात कथं वॊ न भवेद इति अस्माभिः खाण्डव परस्थे युष्मद्वासॊ ऽनुचिन्तितः ॥ 23 ॥

  24. तस्माज जनपदॊपेतं सुविभक्तमहापथम वासाय खाण्डव परस्थं वरजध्वं गतमन्यवः ॥ 24 ॥

  25. तयॊस ते वचनाज जग्मुः सह सर्वैः सुहृज्जनैः नगरं खाण्डव परस्थं रत्नान्य आदाय सर्वशः ॥ 25 ॥

  26. तत्र ते नयवसन राजन संवत्सरगणान बहून वशे शस्त्रप्रतापेन कुर्वन्तॊ ऽनयान महीक्षितः ॥ 26 ॥

  27. एवं धर्मप्रधानास ते सत्यव्रतपरायणाः अप्रमत्तॊत्थिताः कषान्ताः परतपन्तॊ ऽहितांस तदा ॥ 27 ॥

  28. अजयद भीमसेनस तु दिशं पराचीं महाबलः उदीचीम अर्जुनॊ वीरः परतीचीं नकुलस तथा ॥ 28 ॥

  29. दक्षिणां सहदेवस तु विजिग्ये परवीरहा एवं चक्रुर इमां सर्वे वशे कृत्स्नां वसुंधराम ॥ 29 ॥

  30. पञ्चभिः सूर्यसंकाशैः सूर्येण च विराजता षट सूर्येवाबभौ पृथ्वी पाण्डवैः सत्यविक्रमैः ॥ 30 ॥

  31. ततॊ निमित्ते कस्मिंश चिद धर्मराजॊ युधिष्ठिरः वनं परस्थापयाम आस भरातरं वै धनंजयम ॥ 31 ॥

  32. स वै संवत्सरं पूर्णं मासं चैकं वने ऽवसत ततॊ ऽगच्छद धृषीकेशं दवारवत्यां कदा चन ॥ 32 ॥

  33. लब्धवांस तत्र बीभत्सुर भार्यां राजीवलॊचनाम अनुजां वासुदेवस्य सुभद्रां भद्र भाषिणीम ॥ 33 ॥

  34. सा शचीव महेन्द्रेण शरीः कृष्णेनेव संगता सुभद्रा युयुजे परीता पाण्डवेनार्जुनेन ह ॥ 34 ॥

  35. अतर्पयच च कौन्तेयः खाण्डवे हव्यवाहनम बीभत्सुर वासुदेवेन सहितॊ नृपसत्तम ॥ 35 ॥

  36. नातिभारॊ हि पार्थस्य केशवेनाभवत सह वयवसायसहायस्य विष्णॊः शत्रुवधेष्व इव ॥ 36 ॥

  37. पार्थायाग्निर ददौ चापि गाण्डीवं धनुर उत्तमम इषुधी चाक्षयैर बाणै रथं च कपिलक्षणम ॥ 37 ॥

  38. मॊक्षयाम आस बीभत्सुर मयं तत्र महासुरम स चकार सभां दिव्यां सर्वरत्नसमाचिताम ॥ 38 ॥

  39. तस्यां दुर्यॊधनॊ मन्दॊ लॊभं चक्रे सुदुर्मतिः ततॊ ऽकषैर वञ्चयित्वा च सौबलेन युधिष्ठिरम ॥ 39 ॥

  40. वनं परस्थापयाम आस सप्त वर्षाणि पञ्च च अज्ञातम एकं राष्ट्रे च तथा वर्षं तरयॊ दशम ॥ 40 ॥

  41. ततश चतुर्दशे वर्षे याचमानाः सवकं वसु नालभन्त महाराज ततॊ युद्धम अवर्तत ॥ 41 ॥

  42. ततस ते सर्वम उत्साद्य हत्वा दुर्यॊधनं नृपम राज्यं विद्रुत भूयिष्ठं परत्यपद्यन्त पाण्डवाः ॥ 42 ॥

  43. एवम एतत पुरावृत्तं तेषाम अक्लिष्टकर्मणाम भेदॊ राज्यविनाशश च जयश च जयतां वर ॥ 43 ॥

Reach this point to mark the section finished.

Continue to अध्याय 56

Previous: अध्याय 54