[स] शरुत्वा तु सर्पसत्राय दीक्षितं जनमेजयम अभ्यागच्छद ऋषिर विद्वान कृष्णद्वैपायनस तदा ॥ 1 ॥
जनयाम आस यं काली शक्तेः पुत्रात पराशरात कन्यैव यमुना दवीपे पाण्डवानां पितामहम ॥ 2 ॥
जातमात्रश च यः सद्य इष्ट्या देहम अवीवृधत वेदांश चाधिजगे साङ्गान सेतिहासान महायशाः ॥ 3 ॥
यं नातितपसा कश चिन न वेदाध्ययनेन च न वरतैर नॊपवासैश च न परसूत्या न मन्युना ॥ 4 ॥
विव्यासैकं चतुर्धा यॊ वेदं वेद विदां वरः परावरज्ञॊ बरह्मर्षिः कविः सत्यव्रतः शुचिः ॥ 5 ॥
यः पाण्डुं धृतराष्ट्रं च विदुरं चाप्य अजीजनत शंतनॊः संततिं तन्वन पुण्यकीर्तिर महायशाः ॥ 6 ॥
जनमेजयस्य राजर्षेः स तद यज्ञसदस तदा विवेश शिष्यैः सहितॊ वेदवेदाङ्गपारगैः ॥ 7 ॥
तत्र राजानम आसीनं ददर्श जनमेजयम वृतं सदस्यैर बहुभिर देवैर इव पुरंदरम ॥ 8 ॥
तथा मूध्वावसिक्तैश च नानाजनपदेश्वरैः ऋत्विग्भिर देवकल्पैश च कुशलैर यज्ञसंस्तरे ॥ 9 ॥
जनमेजयस तु राजर्षिर दृष्ट्वा तम ऋषिम आगतम सगणॊ ऽबयुद्ययौ तूर्णं परीत्या भरतसत्तमः ॥ 10 ॥
काञ्चनं विष्टरं तस्मै सदस्यानुमते परभुः आसनं कल्पयाम आस यथा शक्रॊ बृहस्पतेः ॥ 11 ॥
तत्रॊपविष्टं वरदं देवर्षिगणपूजितम पूजयाम आस राजेन्द्रः शास्त्रदृष्टेन कर्मणा ॥ 12 ॥
पाद्यम आचमनीयं च अर्घ्यं गां च विधानतः पितामहाय कृष्णाय तद अर्हाय नयवेदयत ॥ 13 ॥
परतिगृह्य च तां पूजां पाण्डवाज जनमेजयात गां चैव समनुज्ञाय वयासः परीतॊ ऽभवत तदा ॥ 14 ॥
तथा संपूजयित्वा तं यत्नेन परपितामहम उपॊपविश्य परीतात्मा पर्यपृच्छद अनामयम ॥ 15 ॥
भगवान अपि तं दृष्ट्वा कुशलं परतिवेद्य च सदस्यैः पूजितः सर्वैः सदस्यान अभ्यपूजयत ॥ 16 ॥
ततस तं सत्कृतं सर्वैः सदस्यैर जनमेजयः इदं पश्चाद दविजश्रेष्ठं पर्यपृच्छत कृताञ्जलिः ॥ 17 ॥
कुरूणां पाण्डवानां च भवान परत्यक्षदर्शिवान तेषां चरितम इच्छामि कथ्यमानं तवया दविज ॥ 18 ॥
कथं समभवद भेदस तेषाम अक्लिष्टकर्मणाम तच च युद्धं कथं वृत्तं भूतान्त करणं महत ॥ 19 ॥
पितामहानां सर्वेषां दैवेनाविष्ट चेतसाम कार्त्स्न्येनैतत समाचक्ष्व भगवन कुशलॊ हय असि ॥ 20 ॥
तस्य तद वचनं शरुत्वा कृष्णद्वैपायनस तदा शशास शिष्यम आसीनं वैशम्पायनम अन्तिके ॥ 21 ॥
कुरूणां पाण्डवानां च यथा भेदॊ ऽभवत पुरा तद अस्मै सर्वम आचक्ष्व यन मत्तः शरुतवान असि ॥ 22 ॥
गुरॊर वचनम आज्ञाय स तु विप्रर्षभस तदा आचचक्षे ततः सर्वम इतिहासं पुरातनम ॥ 23 ॥
तस्मै राज्ञे सदस्येभ्यः कषत्रियेभ्यश च सर्वशः भेदं राज्यविनाशं च कुरुपाण्डवयॊस तदा ॥ 24 ॥
आदिपर्व · Adi Parva
अध्याय 54
Reach this point to mark the section finished.
Continue to अध्याय 55