[स] इदम अत्यद्भुतं चान्यद आस्तीकस्यानुशुश्रुमः तथा वरैश छन्द्यमाने राज्ञा पारिक्षितेन ह ॥ 1 ॥
इन्द्रहस्ताच चयुतॊ नागः ख एव यद अतिष्ठत ततश चिन्तापरॊ राजा बभूव जनमेजयः ॥ 2 ॥
हूयमाने भृशं दीप्ते विधिवत पावके तदा न सम स परापतद वह्नौ तक्षकॊ भयपीडितः ॥ 3 ॥
[षौ] किं सूत तेषां विप्राणां मन्त्रग्रामॊ मनीषिणाम न परत्यभात तदाग्नौ यन न पपात स तक्षकः ॥ 4 ॥
[स] तम इन्द्रहस्ताद विस्रस्तं विसंज्ञं पन्नगॊत्तमम आस्तीकस तिष्ठ तिष्ठेति वाचस तिस्रॊ ऽभयुदैरयत ॥ 5 ॥
वितस्थे सॊ ऽनतरिक्षे ऽथ हृदयेन विदूयता यथा तिष्ठेत वै कश चिद गॊचक्रस्यान्तरा नरः ॥ 6 ॥
ततॊ राजाब्रवीद वाक्यं सदस्यैश चॊदितॊ भृशम कामम एतद भवत्व एवं यथास्तीकस्य भाषितम ॥ 7 ॥
समाप्यताम इदं कर्म पन्नगाः सन्त्व अनामयाः परीयताम अयम आस्तीकः सत्यं सूतवचॊ ऽसतु तत ॥ 8 ॥
ततॊ हलहलाशब्दः परीतिजः समवर्तत आस्तीकस्य वरे दत्ते तथैवॊपरराम च ॥ 9 ॥
स यज्ञः पाण्डवेयस्य राज्ञः पारिक्षितस्य ह परीतिमांश चाभवद राजा भारतॊ जनमेजयः ॥ 10 ॥
ऋत्विग्भ्यः ससदस्येभ्यॊ ये तत्रासन समागताः तेभ्यश च परददौ वित्तं शतशॊ ऽथ सहस्रशः ॥ 11 ॥
लॊहिताक्षाय सूताय तथा सथपतये विभुः येनॊक्तं तत्र सत्राग्रे यज्ञस्य विनिवर्तनम ॥ 12 ॥
निमित्तं बराह्मण इति तस्मै वित्तं ददौ बहु ततश चकारावभृथं विधिदृष्ट्तेन कर्मणा ॥ 13 ॥
आस्तीकं परेषयाम आस गृहान एव सुसत्कृतम राजा परीतमनाः परीतं कृतकृत्यं मनीषिणम ॥ 14 ॥
पुनरागमनं कार्यम इति चैनं वचॊ ऽबरवीत भविष्यसि सदस्यॊ मे वाजिमेधे महाक्रतौ ॥ 15 ॥
तथेत्य उक्त्वा परदुद्राव स चास्तीकॊ मुदा युतः कृत्वा सवकार्यम अतुलं तॊषयित्वा च पार्थिवम ॥ 16 ॥
स गत्वा परमप्रीतॊ मातरं मातुलं च तम अभिगम्यॊपसंगृह्य यथावृत्तं नयवेदयत ॥ 17 ॥
एतच छरुत्वा परीयमाणाः समेता; ये तत्रासन पन्नगा वीतमॊहाः त आस्तीके वै परीतिमन्तॊ बभूवुर; ऊचुश चैनं वरम इष्टं वृणीष्व ॥ 18 ॥
भूयॊ भूयः सर्वशस ते ऽबरुवंस तं; किं ते परियं करवामॊ ऽदय विद्वन परीता वयं मॊक्षिताश चैव सर्वे; कामं किं ते करवामॊ ऽदय वत्स ॥ 19 ॥
[आ] सायंप्रातः सुप्रसन्नात्म रूपा; लॊके विप्रा मानवाश चेतरे ऽपि धर्माख्यानं ये वदेयुर ममेदं; तेषां युष्मद्भ्यॊ नैव किं चिद भयं सयात ॥ 20 ॥
[स] तैश चाप्य उक्तॊ भागिनेयः परसन्नैर; एतत सत्यं कामम एवं चरन्तः परीत्या युक्ता ईप्सितं सर्वशस ते; कर्तारः सम परवणा भागिनेय ॥ 21 ॥
जरत्कारॊर जरत्कार्वां समुत्पन्नॊ महायशाः आस्तीकः सत्यसंधॊ मां पन्नगेभ्यॊ ऽभिरक्षतु ॥ 22 ॥
असितं चार्तिमन्तं च सुनीथं चापि यः समरेत दिवा वा यदि वा रात्रौ नास्य सर्पभयं भवेत ॥ 23 ॥
[स] मॊक्षयित्वा स भुजगान सर्पसत्राद दविजॊत्तमः जगाम काले धर्मात्मा दिष्टान्तं पुत्रपौत्रवान ॥ 24 ॥
इत्य आख्यानं मयास्तीकं यथावत कीर्तितं तव यत कीर्तयित्वा सर्पेभ्यॊ न भयं विद्यते कव चित ॥ 25 ॥
शरुत्वा धर्मिष्ठम आख्यानम आतीकं पुण्यवर्धनम आस्तीकस्य कवेर विप्र शरीमच चरितम आदितः ॥ 26 ॥
[ष] भृगुवंशात परभृत्य एव तवया मे कथितं महत आख्यानम अखिलं तात सौते परीतॊ ऽसमि तेन ते ॥ 27 ॥
परक्ष्यामि चैव भूयस तवां यथावत सूतनन्दन यां कथां वयास संपन्नां तां च भूयः परचक्ष्व मे ॥ 28 ॥
तस्मिन परमदुष्प्रापे सर्पसत्रे महात्मनाम कर्मान्तरेषु विधिवत सदस्यानां महाकवे ॥ 29 ॥
या बभूवुः कथाश चित्रा येष्व अर्थेषु यथातथम तवत्त इच्छामहे शरॊतुं सौते तवं वै विचक्षणः ॥ 30 ॥
[स] कर्मान्तरेष्व अकथयन दविजा वेदाश्रयाः कथाः वयासस तव अकथयन नित्यम आख्यानं भारतं महत ॥ 31 ॥
[ष] महाभारतम आख्यानं पाण्डवानां यशः करम जनमेजयेन यत पृष्टः कृष्णद्वैपायनस तदा ॥ 32 ॥
शरावयाम आस विधिवत तदा कर्मान्तरेषु सः ताम अहं विधिवत पुण्यां शरॊतुम इच्छामि वै कथाम ॥ 33 ॥
मनः सागरसंभूतां महर्षेः पुण्यकर्मणः कथयस्व सतां शरेष्ठ न हि तृप्यामि सूतज ॥ 34 ॥
[स] हन्त ते कथयिष्यामि महद आख्यानम उत्तमम कृष्णद्वैपायन मतं महाभारतम आदितः ॥ 35 ॥
तज जुषस्वॊत्तम मते कथ्यमानं मया दविज शंसितुं तन मनॊ हर्षॊ ममापीह परवर्तते ॥ 36 ॥
आदिपर्व · Adi Parva
अध्याय 53
Reach this point to mark the section finished.
Continue to अध्याय 54