धर्मDharmic Data

आदिपर्व · Adi Parva

अध्याय 52

  1. [ष] ये सर्पाः सर्पसत्रे ऽसमिन पतिता हव्यवाहने तेषां नामानि सर्वेषां शरॊतुम इच्छामि सूतज ॥ 1 ॥

  2. [स] सहस्राणि बहून्य अस्मिन परयुतान्य अर्बुदानि च न शक्यं परिसंख्यातुं बहुत्वाद वेदवित्तम ॥ 2 ॥

  3. यथा समृतितु नामानि पन्नगानां निबॊध मे उच्यमानानि मुख्यानां हुतानां जातवेदसि ॥ 3 ॥

  4. वासुकेः कुलजांस तावत परधान्येन निबॊध मे नीलरक्तान सितान घॊरान महाकायान विषॊल्बणान ॥ 4 ॥

  5. कॊटिकॊ मानसः पूर्णः सहः पौलॊ हलीसकः पिच्छिलः कॊणपश चक्रः कॊण वेगः परकालनः ॥ 5 ॥

  6. हिरण्यवाहः शरणः कक्षकः कालदन्तकः एते वासुकिजा नागाः परविष्टा हव्यवाहनम ॥ 6 ॥

  7. तक्षकस्य कुले जातान परवक्ष्यामि निबॊध तान पुच्छण्डकॊ मण्डलकः पिण्ड भेत्ता रभेणकः ॥ 7 ॥

  8. उच्छिखः सुरसॊ दरङ्गॊ बलहेडॊ विरॊहणः शिली शल करॊ मूकः सुकुमारः परवेपनः ॥ 8 ॥

  9. मुद्गरः शशरॊमा च सुमना वेगवाहनः एते तक्षकजा नागाः परविष्टा हव्यवाहनम ॥ 9 ॥

  10. पारावतः पारियात्रः पाण्डरॊ हरिणः कृशः विहंगः शरभॊ मॊदः परमॊदः संहताङ्गदः ॥ 10 ॥

  11. ऐरावत कुलाद एते परैविष्टा हव्यवाहनम कौरव्य कुलजान नागाञ शृणु मे दविजसत्तम ॥ 11 ॥

  12. ऐण्डिलः कुण्डलॊ मुण्डॊ वेणि सकन्धः कुमारकः बाहुकः शृङ्गवेगश च धूर्तकः पातपातरौ ॥ 12 ॥

  13. धृतराष्ट्र कुले जाताञ शृणु नागान यथातथम कीर्त्यमानान मया बरह्मन वातवेगान विषॊल्बणान ॥ 13 ॥

  14. शङ्कुकर्णः पिङ्गलकः कुठार मुखमेचकौ पूर्णाङ्गदः पूर्णमुखः परहसः शकुनिर हरिः ॥ 14 ॥

  15. आमाहठः कॊमठकः शवसनॊ मानवॊ वटः भैरवॊ मुण्डवेदाङ्गः पिशङ्गश चॊद्र पारगः ॥ 15 ॥

  16. ऋषभॊ वेगवान नाम पिण्डारक महाहनू रक्ताङ्गः सर्वसारङ्गः समृद्धः पाट राक्षसौ ॥ 16 ॥

  17. वराहकॊ वारणकः सुमित्रश चित्रवेदकः पराशरस तरुणकॊ मणिस्कन्धस तथारुणिः ॥ 17 ॥

  18. इति नागा मया बरह्मन कीर्तिताः कीर्तिवर्धनाः परधान्येन बहुत्वात तु न सर्वे परिकीर्तिताः ॥ 18 ॥

  19. एतेषां पुत्रपौत्रास तु परसवस्य च संततिः न शक्याः परिसंख्यातुं ये दीप्तं पावकं गताः ॥ 19 ॥

  20. सप्त शीर्षा दविशीर्षाश च पञ्चशीर्षास तथापरे कालानलविषा घॊरा हुताः शतसहस्रशः ॥ 20 ॥

  21. महाकाया महावीर्याः शैलशृङ्गसमुच्छ्रयाः यॊजनायाम विस्तारा दवियॊजनसमायताः ॥ 21 ॥

  22. कामरूपाः कामगमा दीप्तानलविषॊल्बणाः दग्धास तत्र महासत्रे बरह्मदण्डनिपीडिताः ॥ 22 ॥

Reach this point to mark the section finished.

Continue to अध्याय 53

Previous: अध्याय 51