धर्मDharmic Data

आदिपर्व · Adi Parva

अध्याय 51

  1. [ज] बालॊ वाक्यं सथविर इव परभाषते; नायं बालः सथविरॊ ऽयं मतॊ मे इच्छाम्य अहं वरम अस्मै परदातुं; तन मे विप्रा वितरध्वं समेताः ॥ 1 ॥

  2. [सदस्याह] बालॊ ऽपि विप्रॊ मान्य एवेह राज्ञां; यश चाविद्वान यश च विद्वान यथावत सर्वान कामांस तवत्त एषॊ ऽरहते ऽदय; यथा च नस तक्षक एति शीघ्रम ॥ 2 ॥

  3. [स] वयाहर्तुकामे वरदे नृपे दविजं; वरं वृणीष्वेति ततॊ ऽभयुवाच हॊता वाक्यं नातिहृष्टान्तर आत्मा; कर्मण्य अस्मिंस तक्षकॊ नैति तावत ॥ 3 ॥

  4. [ज] यथा चेदं कर्म समाप्यते मे; यथा च नस तक्षक एति शीघ्रम तथा भवन्तः परयतन्तु सर्वे; परं शक्त्या स हि मे विद्विषाणः ॥ 4 ॥

  5. [रत्विजह] यथाशास्त्राणि नः पराहुर यथा शंसति पावकः इन्द्रस्य भवने राजंस तक्षकॊ भयपीडितः ॥ 5 ॥

  6. [स] यथा सूतॊ लॊहिताक्षॊ महात्मा; पौराणिकॊ वेदितवान पुरस्तात स राजानं पराह पृष्टस तदानीं; यथाहुर विप्रास तद्वद एतन नृदेव ॥ 6 ॥

  7. पुराणम आगम्य ततॊ बरवीम्य अहं; दत्तं तस्मै वरम इन्द्रेण राजन वसेह तवं मत्सकाशे सुगुप्तॊ; न पावकस तवां परदहिष्यतीति ॥ 7 ॥

  8. एतच छरुत्वा दीक्षितस तप्यमान; आस्ते हॊतारं चॊदयन कर्मकाले हॊता च यत्तः स जुहाव मन्त्रैर; अथॊ इन्द्रः सवयम एवाजगाम ॥ 8 ॥

  9. विमानम आरुह्य महानुभावः; सर्वैर देवैः परिसंस्तूयमानः बलाहकैश चाप्य अनुगम्यमानॊ; विद्याधरैर अप्सरसां गणैश च ॥ 9 ॥

  10. तस्यॊत्तरीये निहितः स नागॊ; भयॊद्विग्नः शर्म नैवाभ्यगच्छत ततॊ राजा मन्त्रविदॊ ऽबरवीत पुनः; करुद्धॊ वाक्यं तक्षकस्यान्तम इच्छन ॥ 10 ॥

  11. इन्द्रस्य भवने विप्रा यदि नागः स तक्षकः तम इन्द्रेणैव सहितं पातयध्वं विभावसौ ॥ 11 ॥

  12. [रत्विजह] अयम आयाति वै तूर्णं तक्षकस ते वशं नृप शरूयते ऽसय महान नादॊ रुवतॊ भैरवं भयात ॥ 12 ॥

  13. नूनं मुक्तॊ वज्रभृता स नागॊ; भरष्टश चाङ्कान मन्त्रविस्रस्त कायः घूर्णन्न आकाशे नष्टसंज्ञॊ ऽभयुपैति; तीव्रान निःश्वासान निःश्वसन पन्नगेन्द्रः ॥ 13 ॥

  14. वर्तते तव राजेन्द्र कर्मैतद विधिवत परभॊ अस्मै तु दविजमुख्याय वरं तवं दातुम अर्हसि ॥ 14 ॥

  15. [ज] बालाभिरूपस्य तवाप्रमेय; वरं परयच्छामि यथानुरूपम वृणीष्व यत ते ऽभिमतं हृदि सथितं; तत ते परदास्याम्य अपि चेद अदेयम ॥ 15 ॥

  16. [स] पतिष्यमाणे नागेन्द्रे तक्षके जातवेदसि इदम अन्तरम इत्य एवं तदास्तीकॊ ऽभयचॊदयत ॥ 16 ॥

  17. वरं ददासि चेन मह्यं वृणॊमि जनमेजय सत्रं ते विरमत्व एतन न पतेयुर इहॊरगाः ॥ 17 ॥

  18. एवम उक्तस ततॊ राजा बरह्मन पारिक्षितस तदा नातिहृष्टमना वाक्यम आस्तीकम इदम अब्रवीत ॥ 18 ॥

  19. सुवर्णं रजतं गाश च यच चान्यन मन्यसे विभॊ तत ते दद्यां वरं विप्र न निवर्तेत करतुर मम ॥ 19 ॥

  20. [आ] सुवर्णं रजतं गाश च न तवां राजन वृणॊम्य अहम सत्रं ते विरमत्व एतत सवस्ति मातृकुलस्य नः ॥ 20 ॥

  21. [स] आस्तीकेनैवम उक्तस तु राजा पारिक्षितस तदा पुनः पुनर उवाचेदम आस्तीकं वदतां वरम ॥ 21 ॥

  22. अन्यं वरय भद्रं ते वरं दविज वरॊत्तम अयाचत न चाप्य अन्यं वरं स भृगुनन्दन ॥ 22 ॥

  23. ततॊ वेदविदस तत्र सदस्याः सर्व एव तम राजानम ऊचुः सहिता लभतां बराह्मणॊ वरम ॥ 23 ॥

Reach this point to mark the section finished.

Continue to अध्याय 52

Previous: अध्याय 50