[ष] सर्पसत्रे तदा राज्ञः पाण्डवेयस्य धीमतः जनमेजयस्य के तव आसन्न ऋत्विजः परमर्षयः ॥ 1 ॥
के सदस्या बभूवुश च सर्पसत्रे सुदारुणे विषादजनने ऽतयर्थं पन्नगानां महाभये ॥ 2 ॥
सर्वं विस्तरतस तात भवाञ शंसितुम अर्हति सर्पसत्र विधानज्ञा विज्ञेयास ते हि सूतज ॥ 3 ॥
[सूत] हन्त ते कथयिष्यामि नामानीह मनीषिणाम ये ऋत्विजः सदस्याश च तस्यासन नृपतेस तदा ॥ 4 ॥
तत्र हॊता बभूवाथ बराह्मणश चण्डभार्गवः चयवनस्यान्वये जातः खयातॊ वेदविदां वरः ॥ 5 ॥
उद्गाता बराह्मणॊ वृद्धॊ विद्वान कौत्सार्य जैमिनिः बरह्माभवच छार्ङ्ग रवॊ अध्वर्युर बॊध पिङ्गलः ॥ 6 ॥
सदस्यश चाभवद वयासः पुत्र शिष्यसहायवान उद्दालकः शमठकः शवेतकेतुश च पञ्चमः ॥ 7 ॥
असितॊ देवलश चैव नारदः पर्वतस तथा आत्रेयः कुण्ड जठरॊ दविजः कुटि घटस तथा ॥ 8 ॥
वात्स्यः शरुतश्रवा वृद्धस तपःस्वाध्यायशीलवान कहॊडॊ देव शर्मा च मौद्गल्यः शम सौभरः ॥ 9 ॥
एते चान्ये च बहवॊ बराह्मणाः संशितव्रताः सदस्या अभवंस तत्र सत्रे पारिक्षितस्य ह ॥ 10 ॥
जुह्वत्स्व ऋत्विक्ष्व अथ तदा सर्पसत्रे महाक्रतौ अहयः परापतंस तत्र घॊराः पराणिभयावहाः ॥ 11 ॥
वसा मेदॊ वहाः कुल्या नागानां संप्रवर्तिताः ववौ गन्धश च तुमुलॊ दह्यताम अनिशं तदा ॥ 12 ॥
पततां चैव नागानां धिष्ठितानां तथाम्बरे अश्रूयतानिशं शब्दः पच्यतां चाग्निना भृशम ॥ 13 ॥
तक्षकस तु स नागेन्द्रः पुरंदर निवेशनम गतः शरुत्वैव राजानं दीक्षितं जनमेजयम ॥ 14 ॥
ततः सर्वं यथावृत्तम आख्याय भुजगॊत्तमः अगच्छच छरणं भीत आगः कृत्वा पुरंदरम ॥ 15 ॥
तम इन्द्रः पराह सुप्रीतॊ न तवास्तीह तक्षक भयं नागेन्द्र तस्माद वै सर्पसत्रात कथं चन ॥ 16 ॥
परसादितॊ मया पूर्वं तवार्थाय पितामहः तस्मात तव भयं नास्ति वयेतु ते मानसॊ जवरः ॥ 17 ॥
एवम आश्वासितस तेन ततः स भुजगॊत्तमः उवास भवने तत्र शक्रस्य मुदितः सुखी ॥ 18 ॥
अजस्रं निपतत्स्व अग्नौ नागेषु भृशदुःखितः अल्पशेष परीवारॊ वासुकिः पर्यतप्यत ॥ 19 ॥
कश्मलं चाविशद घॊरं वासुकिं पन्नगेश्वरम स घूर्णमान हृदयॊ भगिनीम इदम अब्रवीत ॥ 20 ॥
दह्यन्ते ऽङगानि मे भद्रे दिशॊ न परतिभान्ति च सीदामीव च संमॊहाद घूर्णतीव च मे मनः ॥ 21 ॥
दृष्टिर भरमति मे ऽतीव हृदयं दीर्यतीव च पतिष्याम्य अवशॊ ऽदयाहं तस्मिन दीप्ते विभावसौ ॥ 22 ॥
पारिक्षितस्य यज्ञॊ ऽसौ वर्तते ऽसमज जिघांसया वयक्तं मयापि गन्तव्यं पितृराज निवेशनम ॥ 23 ॥
अयं स कालः संप्राप्तॊ यदर्थम असि मे सवसः जरत्कारॊः पुरा दत्ता सा तराह्य अस्मान सबान्धवान ॥ 24 ॥
आस्तीकः किल यज्ञं तं वर्तन्तं भुजगॊत्तमे परतिषेत्स्यति मां पूर्वं सवयम आह पितामहः ॥ 25 ॥
तद वत्से बरूहि वत्सं सवं कुमारं वृद्धसंमतम ममाद्य तवं सभृत्यस्य मॊक्षार्थं वेद वित्तमम ॥ 26 ॥
आदिपर्व · Adi Parva
अध्याय 48
Reach this point to mark the section finished.
Continue to अध्याय 49