[स] तत आहूय पुत्रं सवं जरत्कारुर भुजंगमा वासुकेर नागराजस्य वचनाद इदम अब्रवीत ॥ 1 ॥
अहं तव पितुः पुत्रभ्रात्रा दत्ता निमित्ततः कालः स चायं संप्राप्तस तत कुरुष्व यथातथम ॥ 2 ॥
[आस्तीक] किंनिमित्तं मम पितुर दत्ता तवं मातुलेन मे तन ममाचक्ष्व तत्त्वेन शरुत्वा कर्तास्मि तत तथा ॥ 3 ॥
[स] तत आचष्ट सा तस्मै बान्धवानां हितैषिणी भगिनी नागराजस्य जरत्कारुर अविक्लवा ॥ 4 ॥
भुजगानाम अशेषाणां माता कद्रूर इति शरुतिः तया शप्ता रुषितया सुता यस्मान निबॊध तत ॥ 5 ॥
उच्छैः शरवाः सॊ ऽशवराजॊ यन मिथ्या न कृतॊ मम विनता निमित्तं पणिते दासभावाय पुत्रकाः ॥ 6 ॥
जनमेजयस्य वॊ यज्ञे धक्ष्यत्य अनिलसारथिः तत्र पञ्चत्वम आपन्नाः परेतलॊकं गमिष्यथ ॥ 7 ॥
तां च शप्तवतीम एवं साक्षाल लॊकपितामहः एवम अस्त्व इति तद वाक्यं परॊवाचानुमुमॊद च ॥ 8 ॥
वासुकिश चापि तच छरुत्वा पितामहवचस तदा अमृते मथिते तात देवाञ शरणम ईयिवान ॥ 9 ॥
सिद्धार्थाश च सुराः सर्वे पराप्यामृतम अनुत्तमम भरातरं मे पुरस्कृत्य परजापतिम उपागमन ॥ 10 ॥
ते तं परसादयाम आसुर देवाः सर्वे पितामहम राज्ञा वासुकिना सार्धं स शापॊ न भवेद इति ॥ 11 ॥
वासुकिर नागराजॊ ऽयं दुःखितॊ जञातिकारणात अभिशापः स मात्रास्य भगवन न भवेद इति ॥ 12 ॥
[बर] जरत्कारुर जरत्कारुं यां भार्यां समवाप्स्यति तत्र जातॊ दविजः शापाद भुजगान मॊक्षयिष्यति ॥ 13 ॥
[ज] एतच छरुत्वा तु वचनं वासुकिः पन्नगेश्वरः परादान माम अमरप्रख्य तव पित्रे महात्मने पराग एवानागते काले तत्र तवं मय्य अजायथाः ॥ 14 ॥
अयं स कालः संप्राप्तॊ भयान नस तरातुम अर्हसि भरातरं चैव मे तस्मात तरातुम अर्हसि पावकात ॥ 15 ॥
अमॊघं नः कृतं तत सयाद यद अहं तव धीमते पित्रे दत्ता विमॊक्षार्थं कथं वा पुत्र मन्यसे ॥ 16 ॥
[स] एवम उक्तस तथेत्य उक्त्वा स आस्तीकॊ मातरं तदा अब्रवीद दुःखसंतप्तं वासुकिं जीवयन्न इव ॥ 17 ॥
अहं तवां मॊक्षयिष्यामि वासुके पन्नगॊत्तम तस्माच छापान महासत्त्वसत्यम एतद बरवीमि ते ॥ 18 ॥
भव सवस्थमना नाग न हि ते विद्यते भयम परयतिष्ये तथा सौम्य यथा शरेयॊ भविष्यति न मे वाग अनृतं पराह सवैरेष्व अपि कुतॊ ऽनयथा ॥ 19 ॥
तं वै नृप वरं गत्वा दीक्षितं जनमेजयम वाग्भिर मङ्गलयुक्ताभिस तॊषयिष्ये ऽदय मातुल यथा स यज्ञॊ नृपतेर निर्वर्तिष्यति सत्तम ॥ 20 ॥
स संभावय नागेन्द्र मयि सर्वं महामते न ते मयि मनॊ जातु मिथ्या भवितुम अर्हति ॥ 21 ॥
[व] आस्तीक परिघूर्णामि हृदयं मे विदीर्यते दिशश च न परजानामि बरह्मदण्डनिपीडितः ॥ 22 ॥
[आ] न संतापस तवया कार्यः कथं चित पन्नगॊत्तम दीप्तदाग्नेः समुत्पन्नं नाशयिष्यामि ते भयम ॥ 23 ॥
बरह्मदण्डं महाघॊरं कालाग्निसमतेजसम नाशयिष्यामि मात्रत्वं भयं कार्षीः कथं चन ॥ 24 ॥
[स] ततः स वासुकेर घॊरम अपनीय मनॊ जवरम आधाय चात्मनॊ ऽङगेषु जगाम तवरितॊ भृशम ॥ 25 ॥
जनमेजयस्य तं यज्ञं सर्वैः समुदितं गुणैः मॊक्षाय भुजगेन्द्राणाम आस्तीकॊ दविजसत्तमः ॥ 26 ॥
स गत्वापश्यद आस्तीकॊ यज्ञायतनम उत्तमम वृतं सदस्यैर बहुभिः सूर्यवह्नि समप्रभैः ॥ 27 ॥
स तत्र वारितॊ दवाःस्थैः परविशन दविजसत्तमः अभितुष्टाव तं यज्ञं परवेशार्थी दविजॊत्तमः ॥ 28 ॥
आदिपर्व · Adi Parva
अध्याय 49
Reach this point to mark the section finished.
Continue to अध्याय 50