धर्मDharmic Data

आदिपर्व · Adi Parva

अध्याय 47

  1. [स] एवम उक्त्वा ततः शरीमान मन्त्रिभिश चानुमॊदितः आरुरॊह परतिज्ञां स सर्पसत्राय पार्थिवः बरह्मन भरतशार्दूलॊ राजा पारिक्षितस तदा ॥ 1 ॥

  2. पुरॊहितम अथाहूय ऋत्विजं वसुधाधिपः अब्रवीद वाक्यसंपन्नः संपद अर्थकरं वचः ॥ 2 ॥

  3. यॊ मे हिंसितवांस तातं तक्षकः स दुरात्मवान परतिकुर्यां यथा तस्य तद भवन्तॊ बरुवन्तु मे ॥ 3 ॥

  4. अपि तत कर्म विदितं भवतां येन पन्नगम तक्षकं संप्रदीप्ते ऽगनौ पराप्स्ये ऽहं सहबान्धवम ॥ 4 ॥

  5. यथा तेन पिता मह्यं पूर्वं दग्धॊ विषाग्निना तथाहम अपि तं पापं दग्धुम इच्छामि पन्नगम ॥ 5 ॥

  6. [रत्विजह] अस्ति राजन महत सत्रं तवदर्थं देवनिर्मितम सर्पसत्रम इति खयातं पुराणे कथ्यते नृप ॥ 6 ॥

  7. आहर्ता तस्य सत्रस्य तवन नान्यॊ ऽसति नराधिप इति पौराणिकाः पराहुर अस्माकं चास्ति स करतुः ॥ 7 ॥

  8. [स] एवम उक्तः स राजर्षिर मेने सर्पं हि तक्षकम हुताशनमुखं दीप्तं परविष्टम इति सत्तम ॥ 8 ॥

  9. ततॊ ऽबरवीन मन्त्रविदस तान राजा बराह्मणांस तदा आहरिष्यामि तत सत्रं संभाराः संभ्रियन्तु मे ॥ 9 ॥

  10. ततस ते ऋत्विजस तस्य शास्त्रतॊ दविजसत्तम देशं तं मापयाम आसुर यज्ञायतन कारणात यथावज जञानविदुषः सर्वे बुद्ध्या परं गताः ॥ 10 ॥

  11. ऋद्ध्या परमया युक्तम इष्टं दविजगणायुतम परभूतधनधान्याढ्यम ऋत्विग्भिः सुनिवेशितम ॥ 11 ॥

  12. निर्माय चापि विधिवद यज्ञायतनम ईप्सितम राजानं दीक्षयाम आसुः सर्पसत्राप्तये तदा ॥ 12 ॥

  13. इदं चासीत तत्र पूर्वं सर्पसत्रे भविष्यति निमित्तं महद उत्पन्नं यज्ञविघ्न करं तदा ॥ 13 ॥

  14. यज्ञस्यायतने तस्मिन करियमाणे वचॊ ऽबरवीत सथपतिर बुद्धिसंपन्नॊ वास्तु विद्या विशारदः ॥ 14 ॥

  15. इत्य अब्रवीत सूत्रधारः सूतः पौराणिकस तदा यस्मिन देशे च काले च मापनेयं परवर्तिता बराह्मणं कारणं कृत्वा नायं संस्थास्यते करतुः ॥ 15 ॥

  16. एतच छरुत्वा तु राजा स पराग दीक्षा कालम अब्रवीत कषत्तारं नेह मे कश चिद अज्ञातः परविशेद इति ॥ 16 ॥

  17. ततः कर्म परववृते सर्पसत्रे विधानतः पर्यक्रामंश च विधिवत सवे सवे कर्मणि याजकाः ॥ 17 ॥

  18. परिधाय कृष्ण वासांसि धूमसंरक्त लॊचनाः जुहुवुर मन्त्रवच चैव समिद्धं जातवेदसम ॥ 18 ॥

  19. कम्पयन्तश च सर्वेषाम उरगाणां मनांसि ते सर्पान आजुहुवुस तत्र सर्वान अग्निमुखे तदा ॥ 19 ॥

  20. ततः सर्पाः समापेतुः परदीप्ते हव्यवाहने विवेष्टमानाः कृपणा आह्वयन्तः परस्परम ॥ 20 ॥

  21. विस्फुरन्तः शवसन्तश च वेष्टयन्तस तथा परे पुच्छैः शिरॊभिश च भृशं चित्रभानुं परपेदिरे ॥ 21 ॥

  22. शवेताः कृष्णाश च नीलाश च सथविराः शिशवस तथा रुवन्तॊ भैरवान नादान पेतुर दीप्ते विभावसौ ॥ 22 ॥

  23. एवं शतसहस्राणि परयुतान्य अर्बुदानि च अवशानि विनष्टानि पन्नगानां दविजॊत्तम ॥ 23 ॥

  24. इन्दुरा इव तत्रान्ये हस्तिहस्ता इवापरे मत्ता इव च मातङ्गा महाकाया महाबलाः ॥ 24 ॥

  25. उच्चावचाश च बहवॊ नानावर्णा विषॊल्बणाः घॊराश च परिघप्रख्या दन्द शूका महाबलाः परपेतुर अग्नाव उरगा मातृवाग दण्डपीडिताः ॥ 25 ॥

Reach this point to mark the section finished.

Continue to अध्याय 48

Previous: अध्याय 46