[मन्त्रिणह] ततः स राजा राजेन्द्र सकन्धे तस्य भुजंगमम मुनेः कषुत कषाम आसज्य सवपुरं पुनर आययौ ॥ 1 ॥
ऋषेस तस्य तु पुत्रॊ ऽभूद गवि जातॊ महायशाः शृङ्गी नाम महातेजास तिग्मवीर्यॊ ऽतिकॊपनः ॥ 2 ॥
बरह्माणं सॊ ऽभयुपागम्य मुनिः पूजां चकार ह अनुज्ञातॊ गतस तत्र शृङ्गी शुश्राव तं तदा सख्युः सकाशात पितरं पित्रा ते धर्षितं तथा ॥ 3 ॥
मृतं सर्पं समासक्तं पित्रा ते जनमेजय वहन्तं कुरुशार्दूल सकन्धेनानपकारिणम ॥ 4 ॥
तपस्विनम अतीवाथ तं मुनिप्रवरं नृप जितेन्द्रिय विशुद्धं च सथितं कर्मण्य अथाद्भुते ॥ 5 ॥
तपसा दयॊतितात्मानं सवेष्व अङ्गेषु यतं तथा शुभाचारं शुभकथं सुस्थिरं तम अलॊलुपम ॥ 6 ॥
अक्षुद्रम अनसूयं च वृद्धं मौन वरते सथितम शरण्यं सर्वभूतानां पित्रा विप्रकृतं तव ॥ 7 ॥
शशापाथ स तच छरुत्वा पितरं ते रुषान्वितः ऋषेः पुत्रॊ महातेजा बालॊ ऽपि सथविरैर वरः ॥ 8 ॥
स कषिप्रम उदकं सपृष्ट्वा रॊषाद इदम उवाच ह पितरं ते ऽभिसंधाय तेजसा परज्वलन्न इव ॥ 9 ॥
अनागसि गुरौ यॊ मे मृतं सर्पम अवासृजत तं नागस तक्षकः करुद्धस तेजसा सादयिष्यति सप्तरात्राद इतः पापं पश्य मे तपसॊ बलम ॥ 10 ॥
इत्य उक्त्वा परययौ तत्र पिता यत्रास्य सॊ ऽभवत दृष्ट्वा च पितरं तस्मै शापं तं परत्यवेदयत ॥ 11 ॥
स चापि मुनिशार्दूलः परेषयाम आस ते पितुः शप्तॊ ऽसि मम पुत्रेण यत्तॊ भव महीपते तक्षकस तवां महाराज तेजसा सादयिष्यति ॥ 12 ॥
शरुत्वा तु तद वचॊ घॊरं पिता ते जनमेजय यत्तॊ ऽभवत परित्रस्तस तक्षकात पन्नगॊत्तमात ॥ 13 ॥
ततस तस्मिंस तु दिवसे सप्तमे समुपस्थिते राज्ञः समीपं बरह्मर्षिः काश्यपॊ गन्तुम ऐच्छत ॥ 14 ॥
तं ददर्शाथ नागेन्द्रः काश्यपं तक्षकस तदा तम अब्रवीत पन्नगेन्द्रः काश्यपं तवरितं वरजन कव भवांस तवरितॊ याति किं च कार्यं चिकीर्षति ॥ 15 ॥
[क] यत्र राजा कुरुश्रेष्ठः परिक्षिन नाम वै दविजः तक्षकेण भुजंगेन धक्ष्यते किल तत्र वै ॥ 16 ॥
गच्छाम्य अहं तं तवरितः सद्यः कर्तुम अपज्वरम मयाभिपन्नं तं चापि न सर्पॊ धर्षयिष्यति ॥ 17 ॥
[त] किमर्थं तं मया दष्टं संजीवयितुम इच्छसि बरूहि कामम अहं ते ऽदय दद्मि सवं वेश्म गम्यताम ॥ 18 ॥
[मन्त्रिणह] धनलिप्सुर अहं तत्र यामीत्य उक्तश च तेन सः तम उवाच महात्मानं मानयञ शलक्ष्णया गिरा ॥ 19 ॥
यावद धनं परार्थयसे तस्माद राज्ञस ततॊ ऽधिकम गृहाण मत्त एव तवं संनिवर्तस्व चानघ ॥ 20 ॥
स एवम उक्तॊ नागेन काश्यपॊ दविपदां वरः लब्ध्वा वित्तं निववृते तक्षकाद यावद ईप्सितम ॥ 21 ॥
तस्मिन परतिगते विप्रे छद्मनॊपेत्य तक्षकः तं नृपं नृपतिश्रेष्ठ पितरं धार्मिकं तव ॥ 22 ॥
परासादस्थं यत्तम अपि दग्धवान विषवह्निना ततस तवं पुरुषव्याघ्र विजयायाभिषेचितः ॥ 23 ॥
एतद दृष्टं शरुतं चापि यथावन नृपसत्तम अस्माभिर निखिलं सर्वं कथितं ते सुदारुणम ॥ 24 ॥
शरुत्वा चैतं नृपश्रेष्ठ पार्थिवस्य पराभवम अस्य चर्षेर उत्तङ्कस्य विधत्स्व यद अनन्तरम ॥ 25 ॥
[ज] एतत तु शरॊतुम इच्छामि अटव्यां निर्जने वने संवादं पन्नगेन्द्रस्य काश्यपस्य च यत तदा ॥ 26 ॥
केन दृष्टं शरुतं चापि भवतां शरॊत्रम आगतम शरुत्वा चाथ विधास्यामि पन्नगान्तकरीं मतिम ॥ 27 ॥
[म] शृणु राजन यथास्माकं येनैतत कथितं पुरा समागमं दविजेन्द्रस्य पन्नगेन्द्रस्य चाध्वनि ॥ 28 ॥
तस्मिन वृक्षे नरः कश चिद इन्धनार्थाय पार्थिव विचिन्वन पूर्वम आरूढः शुष्कशाखं वनस्पतिम अबुध्यमानौ तं तत्र वृक्षस्थं पन्नगद्विजौ ॥ 29 ॥
स तु तेनैव वृक्षेण भस्मीभूतॊ ऽभवत तदा दविज परभावाद राजेन्द्र जीवितः सवनस्पतिः ॥ 30 ॥
तेन गत्वा नृपश्रेष्ठ नगरे ऽसमिन निवेदितम यथावृत्तं तु तत सर्वं तक्षकस्य दविजस्य च ॥ 31 ॥
एतत ते कथितं राजन यथावृत्तं यथा शरुतम शरुत्वा तु नृपशार्दूल परकुरुष्व यथेप्सितम ॥ 32 ॥
[स] मन्त्रिणां तु वचः शरुत्वा स राजा जनमेजयः पर्यतप्यत दुःखार्तः परत्यपिंषत करे करम ॥ 33 ॥
निःश्वासम उष्णम असकृद दीर्घं राजीवलॊचनः मुमॊचाश्रूणि च तदा नेत्राभ्यां परततं नृपः उवाच च महीपालॊ दुःखशॊकसमन्वितः ॥ 34 ॥
शरुत्वैतद भवतां वाक्यं पितुर मे सवर्गतिं परति निश्चितेयं मम मतिर या वै तां मे निबॊधत ॥ 35 ॥
अनन्तरम अहं मन्ये तक्षकाय दुरात्मने परतिकर्तव्यम इत्य एव येन मे हिंसितः पिता ॥ 36 ॥
ऋषेर हि शृङ्गेर वचनं कृत्वा दग्ध्वा च पार्थिवम यदि गच्छेद असौ पापॊ ननु जीवेत पिता मम ॥ 37 ॥
परिहीयेत किं तस्य यदि जीवेत स पार्थिवः काश्यपस्य परसादेन मन्त्रिणां सुनयेन च ॥ 38 ॥
स तु वारितवान मॊहात काश्यपं दविजसत्तमम संजिजीवयिषुं पराप्तं राजानम अपराजितम ॥ 39 ॥
महान अतिक्रमॊ हय एष तक्षकस्य दुरात्मनः दविजस्य यॊ ऽददद दरव्यं मा नृपं जीवयेद इति ॥ 40 ॥
उत्तङ्कस्य परियं कुर्वन्न आत्मनश च महत परियम भवतां चैव सर्वेषां यास्याम्य अपचितिं पितुः ॥ 41 ॥
आदिपर्व · Adi Parva
अध्याय 46
Reach this point to mark the section finished.
Continue to अध्याय 47