धर्मDharmic Data

आदिपर्व · Adi Parva

अध्याय 45

  1. [ष] यद अपृच्छत तदा राजा मन्त्रिणॊ जनमेजयः पितुः सवर्गगतिं तन मे विस्तरेण पुनर वद ॥ 1 ॥

  2. [स] शृणु बरह्मन यथा पृष्टा मन्त्रिणॊ नृपतेस तदा आख्यातवन्तस ते सर्वे निधनं तत्परिक्षितः ॥ 2 ॥

  3. [ज] जानन्ति तु भवन्तस तद यथावृत्तः पिता मम आसीद यथा च निधनं गतः काले महायशाः ॥ 3 ॥

  4. शरुत्वा भवत सकाशाद धि पितुर वृत्तम अशेषतः कल्याणं परतिपत्स्यामि विपरीतं न जातुचित ॥ 4 ॥

  5. [स] मन्त्रिणॊ ऽथाब्रुवन वाक्यं पृष्टास तेन महात्मना सर्वधर्मविदः पराज्ञा राजानं जनमेजयम ॥ 5 ॥

  6. धर्मात्मा च महात्मा च परजा पालः पिता तव आसीद इह यथावृत्तः स महात्मा शृणुष्व तत ॥ 6 ॥

  7. चातुर्वर्ण्यं सवधर्मस्थं स कृत्वा पर्यरक्षत धर्मतॊ धर्मविद राजा धर्मॊ विग्रहवान इव ॥ 7 ॥

  8. ररक्ष पृथिवीं देवीं शरीमान अतुलविक्रमः दवेष्टारस तस्य नैवासन स च न दवेष्टि कं चन समः सर्वेषु भूतेषु परजापतिर इवाभवत ॥ 8 ॥

  9. बराह्मणाः कषत्रिया वैश्याः शूद्राश चैव सवकर्मसु सथिताः सुमनसॊ राजंस तेन राज्ञा सवनुष्ठिताः ॥ 9 ॥

  10. विधवानाथ कृपणान विकलांश च बभार सः सुदर्शः सर्वभूतानाम आसीत सॊम इवापरः ॥ 10 ॥

  11. तुष्टपुष्टजनः शरीमान सत्यवाग दृढविक्रमः धनुर्वेदे च शिष्यॊ ऽभून नृपः शारद्वतस्य सः ॥ 11 ॥

  12. गॊविन्दस्य परियश चासीत पिता ते जनमेजय लॊकस्य चैव सर्वस्य परिय आसीन महायशाः ॥ 12 ॥

  13. परिक्षीणेषु कुरुषु उत्तरायाम अजायत परिक्षिद अभवत तेन सौभद्रस्यात्मजॊ बली ॥ 13 ॥

  14. राजधर्मार्थकुशलॊ युक्तः सर्वगुणैर नृपः जितेन्द्रियश चात्मवांश च मेधावी वृद्धसेवितः ॥ 14 ॥

  15. षड वर्गविन महाबुद्धिर नीतिधर्मविद उत्तमः परजा इमास तव पिता षष्टिं वर्षाण्य अपालयत ततॊ दिष्टान्तम आपन्नः सर्पेणानतिवर्तितम ॥ 15 ॥

  16. ततस तवं पुरुषश्रेष्ठ धर्मेण परतिपेदिवान इदं वर्षसहस्राय राज्यं कुरु कुलागतम बाल एवाभिजातॊ ऽसि सर्वभूतानुपालकः ॥ 16 ॥

  17. [ज] नास्मिन कुले जातु बभूव राजा; यॊ न परजानां हितकृत परियश च विशेषतः परेक्ष्य पितामहानां; वृत्तं महद वृत्तपरायणानाम ॥ 17 ॥

  18. कथं निधनम आपन्नः पिता मम तथाविधः आचक्षध्वं यथावन मे शरॊतुम इच्छामि तत्त्वतः ॥ 18 ॥

  19. [स] एवं संचॊदिता राज्ञा मन्त्रिणस ते नराधिपम ऊचुः सर्वे यथावृत्तं राज्ञः परियहिते रताः ॥ 19 ॥

  20. बभूव मृगया शीलस तव राजन पिता सदा यथा पाण्डुर महाभागॊ धनुर्धर वरॊ युधि अस्मास्व आसज्य सर्वाणि राजकार्याण्य अशेषतः ॥ 20 ॥

  21. स कदा चिद वनचरॊ मृगं विव्याध पत्रिणा विद्ध्वा चान्वसरत तूर्णं तं मृगं गहने वने ॥ 21 ॥

  22. पदातिर बद्धनिस्त्रिंशस ततायुध कलापवान न चाससाद गहने मृगं नष्टं पिता तव ॥ 22 ॥

  23. परिश्रान्तॊ वयःस्थश च षष्टिवर्षॊ जरान्वितः कषुधितः स महारण्ये ददर्श मुनिम अन्तिके ॥ 23 ॥

  24. स तं पप्रच्छ राजेन्द्रॊ मुनिं मौन वरतान्वितम न च किं चिद उवाचैनं स मुनिः पृच्छतॊ ऽपि सन ॥ 24 ॥

  25. ततॊ राजा कषुच छरमार्तस तं मुनिं सथाणुवत सथितम मौन वरतधरं शान्तं सद्यॊ मन्युवशं ययौ ॥ 25 ॥

  26. न बुबॊध हि तं राजा मौन वरतधरं मुनिम स तं मन्युसमाविष्टॊ धर्षयाम आस ते पिता ॥ 26 ॥

  27. मृतं सर्पं धनुष्कॊट्या समुत्क्षिप्य धरातलात तस्य शुद्धात्मनः परादात सकन्धे भरतसत्तम ॥ 27 ॥

  28. न चॊवाच स मेधावी तम अथॊ साध्व असाधु वा तस्थौ तथैव चाक्रुध्यन सर्पं सकन्धेन धारयन ॥ 28 ॥

Reach this point to mark the section finished.

Continue to अध्याय 46

Previous: अध्याय 44