धर्मDharmic Data

आदिपर्व · Adi Parva

अध्याय 44

  1. [स] गतमात्रं तु भर्तारं जरत्कारुर अवेदयत भरातुस तवरितम आगम्य यथातथ्यं तपॊधन ॥ 1 ॥

  2. ततः स भुजग शरेष्ठः शरुत्वा सुमहद अप्रियम उवाच भगिनीं दीनां तदा दीनतरः सवयम ॥ 2 ॥

  3. जानामि भद्रे यत कार्यं परदाने कारणं च यत पन्नगानां हितार्थाय पुत्रस ते सयात ततॊ यदि ॥ 3 ॥

  4. स सर्पसत्रात किल नॊ मॊक्षयिष्यति वीर्यवान एवं पितामहः पूर्वम उक्तवान मां सुरैः सह ॥ 4 ॥

  5. अप्य अस्ति गर्भः सुभगे तस्मात ते मुनिसत्तमात न चेच्छाम्य अफलं तस्य दारकर्म मनीषिणः ॥ 5 ॥

  6. कामं च मम न नयाय्यं परष्टुं तवां कार्यम ईदृशम किं तु कार्यगरीयस्त्वात ततस तवाहम अचूचुदम ॥ 6 ॥

  7. दुर्वासतां विदित्वा च भर्तुस ते ऽतितपस्विनः नैनम अन्वागमिष्यामि कदाचिद धि शपेत स माम ॥ 7 ॥

  8. आचक्ष्व भद्रे भर्तुस तवं सर्वम एव विचेष्टितम शल्यम उद्धर मे घॊरं भद्रे हृदि चिरस्थितम ॥ 8 ॥

  9. जरत्कारुस ततॊ वाक्यम इत्य उक्ता परत्यभाषत आश्वासयन्ती संतप्तं वासुकिं पन्नगेश्वरम ॥ 9 ॥

  10. पृष्टॊ मयापत्य हेतॊः स महात्मा महातपाः अस्तीत्य उदरम उद्दिश्य ममेदं गतवांश च सः ॥ 10 ॥

  11. सवैरेष्व अपि न तेनाहं समरामि वितथं कव चित उक्तपूर्वं कुतॊ राजन साम्पराये स वक्ष्यति ॥ 11 ॥

  12. न संतापस तवया कार्यः कार्यं परति भुजंगमे उत्पत्स्यति हि ते पुत्रॊ जवलनार्कसमद्युतिः ॥ 12 ॥

  13. इत्य उक्त्वा हि स मां भरातर गतॊ भर्ता तपॊवनम तस्माद वयेतु परं दुःखं तवेदं मनसि सथितम ॥ 13 ॥

  14. एतच छरुत्वा स नागेन्द्रॊ वासुकिः परया मुदा एवम अस्त्व इति तद वाक्यं भगिन्याः परत्यगृह्णत ॥ 14 ॥

  15. सान्त्वमानार्थ दानैश च पूजया चानुरूपया सॊदर्यां पूजयाम आस सवसारं पन्नगॊत्तमः ॥ 15 ॥

  16. ततः स ववृधे गर्भॊ महातेजा रविप्रभः यथा सॊमॊ दविजश्रेष्ठ शुक्लपक्षॊदितॊ दिवि ॥ 16 ॥

  17. यथाकालं तु सा बरह्मन परजज्ञे भुजग सवसा कुमारं देवगर्भाभं पितृमातृभयापहम ॥ 17 ॥

  18. ववृधे स च तत्रैव नागराजनिवेशने वेदांश चाधिजगे साङ्गान भार्गवाच चयवनात्मजात ॥ 18 ॥

  19. चरितव्रतॊ बाल एव बुद्धिसत्त्वगुणान्वितः नाम चास्याभवत खयातं लॊकेष्व आस्तीक इत्य उत ॥ 19 ॥

  20. अस्तीत्य उक्त्वा गतॊ यस्मात पिता गर्भस्थम एव तम वनं तस्माद इदं तस्य नामास्तीकेति विश्रुतम ॥ 20 ॥

  21. स बाल एव तत्रस्थश चरन्न अमितबुद्धिमान गृहे पन्नगराजस्य परयत्नात पर्यरक्ष्यत ॥ 21 ॥

  22. भगवान इव देवेशः शूलपाणिर हिरण्यदः विवर्धमानः सर्वांस तान पन्नगान अभ्यहर्षयत ॥ 22 ॥

Reach this point to mark the section finished.

Continue to अध्याय 45

Previous: अध्याय 43