[स] वासुकिस तव अब्रवीद वाक्यं जरत्कारुम ऋषिं तदा सनामा तव कन्येयं सवसा मे तपसान्विता ॥ 1 ॥
भरिष्यामि च ते भार्यां परतीच्छेमां दविजॊत्तम रक्षणं च करिष्ये ऽसयाः सर्वशक्त्या तपॊधन ॥ 2 ॥
परतिश्रुते तु नागेन भरिष्ये भगिनीम इति जरत्कारुस तदा वेश्म भुजगस्य जगाम ह ॥ 3 ॥
तत्र मन्त्रविदां शरेष्ठस तपॊवृद्धॊ महाव्रतः जग्राह पाणिं धर्मात्मा विधिमन्त्रपुरस्कृतम ॥ 4 ॥
ततॊ वासगृहं शुभ्रं पन्नगेन्द्रस्य संमतम जगाम भार्याम आदाय सतूयमानॊ महर्षिभिः ॥ 5 ॥
शयनं तत्र वै कॢप्तं सपर्ध्यास्तरण संवृतम तत्र भार्या सहायः स जरत्कारुर उवास ह ॥ 6 ॥
स तत्र समयं चक्रे भार्यया सह सत्तमः विप्रियं मे न कर्तव्यं न च वाच्यं कदा चन ॥ 7 ॥
तयजेयम अप्रिये हि तवां कृते वासं च ते गृहे एतद गृहाण वचनं मया यत समुदीरितम ॥ 8 ॥
ततः परमसंविग्ना सवसा नागपतेस तु सा अतिदुःखान्विता वाचं तम उवाचैवम अस्त्व इति ॥ 9 ॥
तथैव सा च भर्तारं दुःखशीलम उपाचरत उपायैः शवेतकाकीयैः परियकामा यशस्विनी ॥ 10 ॥
ऋतुकाले ततः सनाता कदा चिद वासुकेः सवसा भर्तारं तं यथान्यायम उपतस्थे महामुनिम ॥ 11 ॥
तत्र तस्याः समभवद गर्भॊ जवलनसंनिभः अतीव तपसा युक्तॊ वैश्वानरसमद्युतिः शुक्लपक्षे यथा सॊमॊ वयवर्धत तथैव सः ॥ 12 ॥
ततः कतिपयाहस्य जरत्कारुर महातपाः उत्सङ्गे ऽसयाः शिरः कृत्वा सुष्वाप परिखिन्नवत ॥ 13 ॥
तस्मिंश च सुप्ते विप्रेन्द्रे सवितास्तम इयाद गिरिम अह्नः परिक्षये बरह्मंस ततः साचिन्तयत तदा वासुकेर भगिनी भीता धर्मलॊपान मनस्विनी ॥ 14 ॥
किं नु मे सुकृतं भूयाद भर्तुर उत्थापनं न वा दुःखशीलॊ हि धर्मात्मा कथं नास्यापराध्नुयाम ॥ 15 ॥
कॊपॊ वा धर्मशीलस्य धर्मलॊपॊ ऽथ वा पुनः धर्मलॊपॊ गरीयान वै सयाद अत्रेत्य अकरॊन मनः ॥ 16 ॥
उत्थापयिष्ये यद्य एनं धरुवं कॊपं करिष्यति धर्मलॊपॊ भवेद अस्य संध्यातिक्रमणे धरुवम ॥ 17 ॥
इति निश्चित्य मनसा जरत्कारुर भुजंगमा तम ऋषिं दीप्ततपसं शयानम अनलॊपमम उवाचेदं वचः शलक्ष्णं ततॊ मधुरभाषिणी ॥ 18 ॥
उत्तिष्ठ तवं महाभाग सूर्यॊ ऽसतम उपगच्छति संध्याम उपास्स्व भगवन्न अपः सपृष्ट्वा यतव्रतः ॥ 19 ॥
परादुष्कृताग्निहॊत्रॊ ऽयं मुहूर्तॊ रम्यदारुणः संध्या परवर्तते चेयं पश्चिमायां दिशि परभॊ ॥ 20 ॥
एवम उक्तः स भगवाञ जरत्कारुर महातपाः भार्यां परस्फुरमाणौष्ठ इदं वचनम अब्रवीत ॥ 21 ॥
अवमानः परयुक्तॊ ऽयं तवया मम भुजंगमे समीपे ते न वत्स्यामि गमिष्यामि यथागतम ॥ 22 ॥
न हि तेजॊ ऽसति वामॊरु मयि सुप्ते विभावसॊः अस्तं गन्तुं यथाकालम इति मे हृदि वर्तते ॥ 23 ॥
न चाप्य अवमतस्येह वस्तुं रॊचेत कस्य चित किं पुनर धर्मशीलस्य मम वा मद्विधस्य वा ॥ 24 ॥
एवम उक्ता जरत्कारुर भर्त्रा हृदयकम्पनम अब्रवीद भगिनी तत्र वासुकेः संनिवेशने ॥ 25 ॥
नावमानात कृतवती तवाहं परतिबॊधनम धर्मलॊपॊ न ते विप्र सयाद इत्य एतत कृतं मया ॥ 26 ॥
उवाच भार्याम इत्य उक्तॊ जरत्कारुर महातपाः ऋषिः कॊपसमाविष्टस तयक्तुकामॊ भुजंगमाम ॥ 27 ॥
न मे वाग अनृतं पराह गमिष्ये ऽहं भुजंगमे समयॊ हय एष मे पूर्वं तवया सह मिथः कृतः ॥ 28 ॥
सुखम अस्म्य उषितॊ भद्रे बरूयास तवं भरातरं शुभे इतॊ मयि गते भीरु गतः स भगवान इति तवं चापि मयि निष्क्रान्ते न शॊकं कर्तुम अर्हसि ॥ 29 ॥
इत्य उक्ता सानवद्याङ्गी परत्युवाच पतिं तदा जरत्कारुं जरत्कारुश चिन्ताशॊकपरायणा ॥ 30 ॥
बाष्पगद्गदया वाचा मुखेन परिशुष्यता कृताञ्जलिर वरारॊहा पर्यश्रुनयना ततः धैर्यम आलम्ब्य वामॊरुर हृदयेन परवेपता ॥ 31 ॥
न माम अर्हसि धर्मज्ञ परित्यक्तुम अनागसम धर्मे सथितां सथितॊ धर्मे सदा परियहिते रताम ॥ 32 ॥
परदाने कारणं यच च मम तुभ्यं दविजॊत्तम तद अलब्धवतीं मन्दां किं मां वक्ष्यति वासुखिः ॥ 33 ॥
मातृशापाभिभूतानां जञातीनां मम सत्तम अपत्यम ईप्षितं तवत्तस तच च तावन न दृश्यते ॥ 34 ॥
तवत्तॊ हय अपत्यलाभेन जञातीनां मे शिवं भवेत संप्रयॊगॊ भवेन नायं मम मॊघस तवया दविज ॥ 35 ॥
जञातीनां हितम इच्छन्ती भगवंस तवां परसादये इमम अव्यक्तरूपं मे गर्भम आधाय सत्तम कथं तयक्त्वा महात्मा सन गन्तुम इच्छस्य अनागसम ॥ 36 ॥
एवम उक्तस तु स मुनिर भार्यां वचनम अब्रवीत यद्य उक्तम अनुरूपं च जरत्कारुस तपॊधनः ॥ 37 ॥
अस्त्य एष गर्भः सुभगे तव वैश्वानरॊपमः ऋषिः परमधर्मात्मा वेदवेदाङ्गपारगः ॥ 38 ॥
एवम उक्त्वा स धर्मात्मा जरत्कारुर महान ऋषिः उग्राय तपसे भूयॊ जगाम कृतनिश्चयः ॥ 39 ॥
आदिपर्व · Adi Parva
अध्याय 43
Reach this point to mark the section finished.
Continue to अध्याय 44