धर्मDharmic Data

आदिपर्व · Adi Parva

अध्याय 41

  1. [स] एतस्मिन्न एव काले तु जरत्कारुर महातपाः चचार पृथिवीं कृत्स्नां यत्रसायं गृहॊ मुनिः ॥ 1 ॥

  2. चरन दीक्षां महातेजा दुश्चराम अकृतात्मभिः तीर्थेष्व आप्लवनं कुर्वन पुण्येषु विचचार ह ॥ 2 ॥

  3. वायुभक्षॊ निराहारः शुष्यन्न अहर अहर मुनिः स ददर्श पितॄन गर्ते लम्बमानान अधॊमुखान ॥ 3 ॥

  4. एकतन्त्व अवशिष्टं वै वीरणस्तम्बम आश्रितान तं च तन्तुं शनैर आखुम आददानं बिलाश्रयम ॥ 4 ॥

  5. निराहारान कृशान दीनान गर्ते ऽऽरतांस तराणम इच्छतः उपसृत्य स तान दीनान दीनरूपॊ ऽभयभाषत ॥ 5 ॥

  6. के भवन्तॊ ऽवलम्बन्ते वीरणस्तम्बम आश्रिताः दुर्बलं खादितैर मूलैर आखुना बिलवासिना ॥ 6 ॥

  7. वीरणस्तम्बके मूलं यद अप्य एकम इह सथितम तद अप्य अयं शनैर आखुर आदत्ते दशनैः शितैः ॥ 7 ॥

  8. छेत्स्यते ऽलपावशिष्टत्वाद एतद अप्य अचिराद इव ततः सथ पतितारॊ ऽतर गर्ते अस्मिन्न अधॊमुखाः ॥ 8 ॥

  9. ततॊ मे दुःखम उत्पन्नं दृष्ट्वा युष्मान अधॊमुखान कृच्छ्राम आपदम आपन्नान परियं किं करवाणि वः ॥ 9 ॥

  10. तपसॊ ऽसय चतुर्थेन तृतीयेनापि वा पुनः अर्धेन वापि निस्तर्तुम आपदं बरूत माचिरम ॥ 10 ॥

  11. अथ वापि समग्रेण तरन्तु तपसा मम भवन्तः सर्व एवास्मात कामम एवं विधीयताम ॥ 11 ॥

  12. [पितरह] ऋद्धॊ भवान बरह्म चारी यॊ नस तरातुम इहेच्छति न तु विप्राग्र्य तपसा शक्यम एतद वयपॊहितुम ॥ 12 ॥

  13. अस्ति नस तात तपसः फलं परवदतां वर संतानप्रक्षयाद बरह्मन पतामॊ निरये ऽशुचौ ॥ 13 ॥

  14. लम्बताम इह नस तात न जञानं परतिभाति वै येन तवां नाभिजानीमॊ लॊके विख्यातपौरुषम ॥ 14 ॥

  15. ऋद्धॊ भवान महाभागॊ यॊ नः शॊच्यान सुदुःखितान शॊचस्य उपेत्य कारुण्याच छृणु ये वै वयं दविज ॥ 15 ॥

  16. यायावरा नाम वयम ऋषयः संशितव्रताः लॊकात पुण्याद इह भरष्टाः संतानप्रक्षयाद विभॊ ॥ 16 ॥

  17. परनष्टं नस तपः पुण्यं न हि नस तन्तुर अस्ति वै अस्ति तव एकॊ ऽदय नस तन्तुः सॊ ऽपि नास्ति यथातथा ॥ 17 ॥

  18. मन्दभाग्यॊ ऽलपभाग्यानां बन्धुः स खिल नः कुले जरत्कारुर इति खयातॊ वेदवेदाङ्गपारगः नियतात्मा महात्मा च सुव्रतः सुमहातपाः ॥ 18 ॥

  19. तेन सम तपसॊ लॊभात कृच्छ्रम आपादिता वयम न तस्य भार्या पुत्रॊ वा बान्धवॊ वास्ति कश चन ॥ 19 ॥

  20. तस्माल लम्बामहे गर्ते नष्टसंज्ञा हय अनाथवत स वक्तव्यस तवया दृष्ट्वा अस्माकं नाथवत्तया ॥ 20 ॥

  21. पितरस ते ऽवलम्बन्ते गर्ते दीना अधॊमुखाः साधु दारान कुरुष्वेति परजायस्वेति चाभिभॊ कुलतन्तुर हि नः शिष्टस तवम एवैकस तपॊधन ॥ 21 ॥

  22. यत तु पश्यसि नॊ बरह्मन वीरणस्तम्बम आश्रितान एषॊ ऽसमाकं कुलस्तम्ब आसीत सवकुलवर्धनः ॥ 22 ॥

  23. यानि पश्यसि वै बरह्मन मूलानीहास्य वीरुधः एते नस्तन्तवस तात कालेन परिभक्षिताः ॥ 23 ॥

  24. यत तव एतत पश्यसि बरह्मन मूलम अस्यार्धभक्षितम तत्र लम्बामहे सर्वे सॊ ऽपय एकस तप आस्थितः ॥ 24 ॥

  25. यम आखुं पश्यसि बरह्मन काल एष महाबलः स तं तपॊ रतं मन्दं शनैः कषपयते तुदन जरत्कारुं तपॊ लुब्धं मन्दात्मानम अचेतसम ॥ 25 ॥

  26. न हि नस तत तपस तस्य तारयिष्यति सत्तम छिन्नमूलान परिभ्रष्टान कालॊपहतचेतसः नरकप्रतिष्ठान पश्यास्मान यथा दुष्कृतिनस तथा ॥ 26 ॥

  27. अस्मासु पतितेष्व अत्र सह पूर्वैः पितामहैः छिन्नः कालेन सॊ ऽपय अत्र गन्ता वै नरकं ततः ॥ 27 ॥

  28. तपॊ वाप्य अथ वा यज्ञॊ यच चान्यत पावनं महत तत सर्वं न समं तात संतत्येति सतां मतम ॥ 28 ॥

  29. स तात दृष्ट्वा बरूयास तवं जरत्कारुं तपस्विनम यथादृष्टम इदं चास्मै तवयाख्येयम अशेषतः ॥ 29 ॥

  30. यथा दारान परकुर्यात सपुत्रांश चॊत्पादयेद यथा तथा बरह्मंस तवया वाच्यः सॊ ऽसमाकं नाथवत्तया ॥ 30 ॥

Reach this point to mark the section finished.

Continue to अध्याय 42

Previous: अध्याय 40