[स] तं तथा मन्त्रिणॊ दृष्ट्वा भॊगेन परिवेष्टितम विवर्णवदनाः सर्वे रुरुदुर भृशदुःखिताः ॥ 1 ॥
तं तु नादं ततः शरुत्वा मन्त्रिणस ते परदुद्रुवुः अपश्यंश चैव ते यान्तम आकाशे नागम अद्भुतम ॥ 2 ॥
सीमन्तम इव कुर्वाणं नभसः पद्मवर्चसम तक्षकं पन्नगश्रेष्ठं भृशं शॊकपरायणाः ॥ 3 ॥
ततस तु ते तद्गृहम अग्निना वृतं; परदीप्यमानं विषजेन भॊगिनः भयात परित्यज्य दिशः परपेदिरे; पपात तच चाशनि ताडितं यथा ॥ 4 ॥
ततॊ नृपे तक्षक तेजसा हते; परयुज्य सर्वाः परलॊकसत्क्रियाः शुचिर दविजॊ राजपुरॊहितस तदा; तथैव ते तस्य नृपस्य मन्त्रिणः ॥ 5 ॥
नृपं शिशुं तस्य सुतं परचक्रिरे; समेत्य सर्वे पुरवासिनॊ जनाः नृपं यम आहुस तम अमित्रघातिनं; कुरुप्रवीरं जनमेजयं जनाः ॥ 6 ॥
स बाल एवार्य मतिर नृपॊत्तमः; सहैव तैर मन्त्रिपुरॊहितैस तदा शशास राज्यं कुरुपुंगवाग्रजॊ; यथास्य वीरः परपितामहस तथा ॥ 7 ॥
ततस तु राजानम अमित्रतापनं; समीक्ष्य ते तस्य नृपस्य मन्त्रिणः सुवर्णवर्माणम उपेत्य काशिपं; वपुष्टमार्थं वरयां परचक्रमुः ॥ 8 ॥
ततः स राजा परददौ वपुष्टमां; कुरुप्रवीराय परीक्ष्य धर्मतः स चापि तां पराप्य मुदा युतॊ ऽभवन; न चान्यनारीषु मनॊ दधे कव चित ॥ 9 ॥
सरःसु फुल्लेषु वनेषु चैव ह; परसन्नचेता विजहार वीर्यवान तथा स राजन्य वरॊ विजह्रिवान; यथॊर्वशीं पराप्य पुरा पुरूरवाः ॥ 10 ॥
वपुष्टमा चापि वरं पतिं तदा; परतीतरूपं समवाप्य भूमिपम भावेन रामा रमयां बभूव वै; विहारकालेष्व अवरॊध सुन्दरी ॥ 11 ॥
आदिपर्व · Adi Parva
अध्याय 40
Reach this point to mark the section finished.
Continue to अध्याय 41