[तक्सक] दष्टं यदि मयेह तवं शक्तः किं चिच चिकित्सितुम ततॊ वृक्षं मया दष्टम इमं जीवय काश्यप ॥ 1 ॥
परं मन्त्रबलं यत ते तद दर्शय यतस्य च नयग्रॊधम एनं धक्ष्यामि पश्यतस ते दविजॊत्तम ॥ 2 ॥
[क] दशनागेन्द्र वृक्षं तवं यम एनम अभिमन्यसे अहम एनं तवया दष्टं जीवयिष्ये भुजंगम ॥ 3 ॥
[स] एवम उक्तः स नागेन्द्रः काश्यपेन महात्मना अदशद वृक्षम अभ्येत्य नयग्रॊधं पन्नगॊत्तमः ॥ 4 ॥
स वृक्षस तेन दष्टः सन सद्य एव महाद्युते आशीविषविषॊपेतः परजज्वाल समन्ततः ॥ 5 ॥
तं दग्ध्वा स नगं नागः कश्यपं पुनर अब्रवीत कुरु यत्नं दविजश्रेष्ठ जीवयैनं वनस्पतिम ॥ 6 ॥
भस्मीभूतं ततॊ वृक्षं पन्नगेन्द्रस्य तेजसा भस्म सर्वं समाहृत्य काश्यपॊ वाक्यम अब्रवीत ॥ 7 ॥
विद्या बलं पन्नगेन्द्रपश्य मे ऽसमिन वनस्पतौ अहं संजीवयाम्य एनं पश्यतस ते भुजंगम ॥ 8 ॥
ततः स भगवान विद्वान काश्यपॊ दविजसत्तमः भस्मराशीकृतं वृक्षं विद्यया समजीवयत ॥ 9 ॥
अङ्कुरं तं स कृतवांस ततः पर्णद्वयान्वितम पलाशिनं शाखिनं च तथा विटपिनं पुनः ॥ 10 ॥
तं दृष्ट्वा जीवितं वृक्षं काश्यपेन महात्मना उवाच तक्षकॊ बरह्मन्न एतद अत्यद्भुतं तवयि ॥ 11 ॥
विप्रेन्द्र यद विषं हन्या मम वा मद्विधस्य वा कं तवम अर्थम अभिप्रेप्सुर यासि तत्र तपॊधन ॥ 12 ॥
यत ते ऽभिलषितं पराप्तुं फलं तस्मान नृपॊत्तमात अहम एव परदास्यामि तत ते यद्य अपि दुर्लभम ॥ 13 ॥
विप्र शापाभिभूते च कषीणायुषि नराधिपे घटमानस्य ते विप्र सिद्धिः संशयिता भवेत ॥ 14 ॥
ततॊ यशः परदीप्तं ते तरिषु लॊकेषु विश्रुतम विरश्मिर इव घर्मांशुर अन्तर्धानम इतॊ वरजेत ॥ 15 ॥
[क] धनार्थी याम्य अहं तत्र तन मे दित्स भुजंगम ततॊ ऽहं विनिवर्तिष्ये गृहायॊरग सत्तम ॥ 16 ॥
[त] यावद धनं परार्थयसे तस्माद राज्ञस ततॊ ऽधिकम अहं ते ऽदय परदास्यामि निवर्तस्व दविजॊत्तम ॥ 17 ॥
[स] तक्षकस्य वचः शरुत्वा काश्यपॊ दविजसत्तमः परदध्यौ सुमहातेजा राजानं परति बुद्धिमान ॥ 18 ॥
दिव्यज्ञानः स तेजस्वी जञात्वा तं नृपतिं तदा कषीणायुषं पाण्डवेयम अपावर्तत काश्यपः लब्ध्वा वित्तं मुनिवरस तक्षकाद यावद ईप्सितम ॥ 19 ॥
निवृत्ते काश्यपे तस्मिन समयेन महात्मनि जगाम तक्षकस तूर्णं नगरं नागसाह्वयम ॥ 20 ॥
अथ शुश्राव गच्छन स तक्षकॊ जगतीपतिम मन्त्रागदैर विषहरै रक्ष्यमाणं परयत्नतः ॥ 21 ॥
स चिन्तयाम आस तदा मायायॊगेन पार्थिवः मया वञ्चयितव्यॊ ऽसौ क उपायॊ भवेद इति ॥ 22 ॥
ततस तापसरूपेण पराहिणॊत स भुजंगमान फलपत्रॊदकं गृह्य राज्ञे नागॊ ऽथ तक्षकः ॥ 23 ॥
[त] गच्छध्वं यूयम अव्यग्रा राजानं कार्यवत्तया फलपत्रॊदकं नाम परतिग्राहयितुं नृपम ॥ 24 ॥
[स] ते तक्षक समादिष्टास तथा चक्रुर भुजंगमाः उपनिन्युस तथा राज्ञे दर्भान आपः फलानि च ॥ 25 ॥
तच च सर्वं स राजेन्द्रः परतिजग्राह वीर्यवान कृत्वा च तेषां कार्याणि गम्यताम इत्य उवाच तान ॥ 26 ॥
गतेषु तेषु नागेषु तापसच छद्म रूपिषु अमात्यान सुहृदश चैव परॊवाच स नराधिपः ॥ 27 ॥
भक्षयन्तु भवन्तॊ वै सवादूनीमानि सर्वशः तापसैर उपनीतानि फलानि सहिता मया ॥ 28 ॥
ततॊ राजा ससचिवः फलान्य आदातुम ऐच्छत यद गृहीतं फलं राज्ञा तत्र कृमिर अभूद अणुः हरस्वकः कृष्ण नयनस ताम्रॊ वर्णेन शौनक ॥ 29 ॥
स तं गृह्य नृपश्रेष्ठः सचिवान इदम अब्रवीत अस्तम अभ्येति सविता विषाद अद्य न मे भयम ॥ 30 ॥
सत्यवाग अस्तु स मुनिः कृमिकॊ मां दशत्व अयम तक्षकॊ नाम भूत्वा वै तथा परिहृतं भवेत ॥ 31 ॥
ते चैनम अन्ववर्तन्त मन्त्रिणः कालचॊदिताः एवम उक्त्वा स राजेन्द्रॊ गरीवायां संनिवेश्य ह कृमिकं पराहसत तूर्णं मुमूर्षुर नष्टचेतनः ॥ 32 ॥
हसन्न एव च भॊगेन तक्षकेणाभिवेष्टितः तस्मात फलाद विनिष्क्रम्य यत तद राज्ञे निवेदितम ॥ 33 ॥
आदिपर्व · Adi Parva
अध्याय 39
Reach this point to mark the section finished.
Continue to अध्याय 40