धर्मDharmic Data

आदिपर्व · Adi Parva

अध्याय 37

  1. [स] एवम उक्तः स तेजस्वी शृङ्गी कॊपसमन्वितः मृतधारं गुरुं शरुत्वा पर्यतप्यत मन्युना ॥ 1 ॥

  2. स तं कृशम अभिप्रेष्क्य सूनृतां वाचम उत्सृजन अपृच्छत कथं तातः स मे ऽदय मृतधारकः ॥ 2 ॥

  3. [कृष] राज्ञा परिक्षिता तात मृगयां परिधावता अवसक्तः पितुस ते ऽदय मृतः सकन्धे भुजंगमः ॥ 3 ॥

  4. [षृन्गी] किं मे पित्रा कृतं तस्य राज्ञॊ ऽनिष्टं दुरात्मनः बरूहि तवं कृश तत्त्वेन पश्य मे तपसॊ बलम ॥ 4 ॥

  5. [क] स राजा मृगयां यातः परिक्षिद अभिमन्युजः ससार मृगम एकाकी विद्ध्वा बाणेन पत्रिणा ॥ 5 ॥

  6. न चापश्यन मृगं राजा चरंस तस्मिन महावने पितरं ते स दृष्ट्वैव पप्रच्छानभिभाषिणम ॥ 6 ॥

  7. तं सथाणुभूतं तिष्ठन्तं कषुत्पिपासा शरमातुरः पुनः पुनर मृगं नष्टं पप्रच्छ पितरं तव ॥ 7 ॥

  8. स च मौन वरतॊपेतॊ नैव तं परत्यभाषत तस्य राजा धनुष्कॊट्या सर्पं सकन्धे समासृजत ॥ 8 ॥

  9. शृङ्गिंस तव पिताद्यासौ तथैवास्ते यतव्रतः सॊ ऽपि राजा सवनगरं परतियातॊ गजाह्वयम ॥ 9 ॥

  10. [स] शरुत्वैवम ऋषिपुत्रस तु दिवं सतब्ध्वेव विष्ठितः कॊपसंरक्त नयनः परज्वलन्न इव मन्युना ॥ 10 ॥

  11. आविष्टः स तु कॊपेन शशाप नृपतिं तदा वार्य उपस्पृश्य तेजस्वी करॊधवेगबलात कृतः ॥ 11 ॥

  12. [षृ] यॊ ऽसौ वृद्धस्य तातस्य तथा कृच्छ्रगतस्य च सकन्धे मृतम अवास्राक्षीत पन्नगं राजकिल्बिषी ॥ 12 ॥

  13. तं पापम अतिसंक्रुद्धस तक्षकः पन्नगॊत्तमः आशीविषस तिग्मतेजा मद्वाक्यबलचॊदितः ॥ 13 ॥

  14. सप्तरात्रादितॊ नेता यमस्य सदनं परति दविजानाम अवमन्तारं कुरूणाम अयशः करम ॥ 14 ॥

  15. [स] इति शप्त्वा नृपं करुद्धः शृङ्गी पितरम अभ्ययात आसीनं गॊचरे तस्मिन वहन्तं शवपन्नगम ॥ 15 ॥

  16. स तम आलक्ष्य पितरं शृङ्गी सखन्धगतेन वै शवेन भुजगेनासीद भूयः करॊधसमन्वितः ॥ 16 ॥

  17. दुःखाच चाश्रूणि मुमुचे पितरं चेदम अब्रवीत शरुत्वेमां धर्षणां तात तव तेन दुरात्मना ॥ 17 ॥

  18. राज्ञा परिक्षिता कॊपाद अशपं तम अहं नृपम यथार्हति स एवॊग्रं शापं कुरु कुलाधमः ॥ 18 ॥

  19. सप्तमे ऽहनि तं पापं तक्षकः पन्नगॊत्तमः वैवस्वतस्य भवनं नेता परमदारुणम ॥ 19 ॥

  20. तम अब्रवीत पिता बरह्मंस तथा कॊपसमन्वितम न मे परियं कृतं तात नैष धर्मस तपस्विनाम ॥ 20 ॥

  21. वयं तस्य नरेन्द्रस्य विषये निवसामहे नयायतॊ रक्षितास तेन तस्य पापं न रॊचये ॥ 21 ॥

  22. सर्वथा वर्तमानस्य राज्ञॊ हय अस्मद्विधैः सदा कषन्तव्यं पुत्र धर्मॊ हि हतॊ हन्ति न संशयः ॥ 22 ॥

  23. यदि राजा न रक्षेत पीडा वै नः परा भवेत न शक्नुयाम चरितुं धर्मं पुत्र यथासुखम ॥ 23 ॥

  24. रक्ष्यमाणा वयं तात राजभिः शास्त्रदृष्टिभिः चरामॊ विपुलं धर्मं तेषां चांशॊ ऽसति धर्मतः ॥ 24 ॥

  25. परिक्षित तु विशेषेण यथास्य परपितामहः रक्षत्य अस्मान यथा राज्ञा रक्षितव्याः परजास तथा ॥ 25 ॥

  26. तेनेह कषुधितेनाद्य शरान्तेन च तपस्विना अजानता वरतम इदं कृतम एतद असंशयम ॥ 26 ॥

  27. तस्माद इदं तवया बाल्यात सहसा दुष्कृतं कृतम न हय अर्हति नृपः शापम अस्मत्तः पुत्र सर्वथा ॥ 27 ॥

Reach this point to mark the section finished.

Continue to अध्याय 38

Previous: अध्याय 36