[ष] जरत्कारुर इति परॊक्तं यत तवया सूतनन्दन इच्छाम्य एतद अहं तस्य ऋषेः शरॊतुं महात्मनः ॥ 1 ॥
किं कारणं जरत्कारॊर नामैतत परथितं भुवि जरत्कारु निरुक्तं तवं यथावद वक्तुम अर्हसि ॥ 2 ॥
[स] जरेति कषयम आहुर वै दारुणं कारु संज्ञितम शरीरं कारु तस्यासीत तत स धीमाञ शनैः शनैः ॥ 3 ॥
कषपयाम आस तीव्रेण तपसेत्य अत उच्यते जरत्कारुर इति बरह्मन वासुकेर भगिनी तथा ॥ 4 ॥
एवम उक्तस तु धर्मात्मा शौनकः पराहसत तदा उग्रश्रवसम आमन्त्र्य उपपन्नम इति बरुवन ॥ 5 ॥
[स] अथ कालस्य महतः स मुनिः संशितव्रतः तपस्य अभिरतॊ धीमान न दारान अभ्यकाङ्क्षत ॥ 6 ॥
स ऊर्ध्वरेतास तपसि परसक्तः; सवाध्यायवान वीतभयक्लमः सन चचार सर्वां पृथिवीं महात्मा; न चापि दारान मनसाप्य अकाङ्क्षत ॥ 7 ॥
ततॊ ऽपरस्मिन संप्राप्ते काले कस्मिंश चिद एव तु परिक्षिद इति विख्यातॊ राजा कौरववंशभृत ॥ 8 ॥
यथा पाण्डुर महाबाहुर धनुर्धर वरॊ भुवि बभूव मृगया शीलः पुरास्य परपितामहः ॥ 9 ॥
मृगान विध्यन वहारांश च तरक्षून महिषांस तथा अन्यांश च विविधान वन्यांश चचार पृथिवीपतिः ॥ 10 ॥
स कदा चिन मृगं विद्ध्वा बाणेन नतपर्वणा पृष्ठतॊ धनुर आदाय ससार गहने वने ॥ 11 ॥
यथा हि भगवान रुद्रॊ विद्ध्वा यज्ञमृगं दिवि अन्वगच्छद धनुष्पाणिः पर्यन्वेषंस ततस ततः ॥ 12 ॥
न हि तेन मृगॊ विद्धॊ जीवन गच्छति वै वनम पूर्वरूपं तु तन नूनम आसीत सवर्गगतिं परति परिक्षितस तस्य राज्ञॊ विद्धॊ यन नष्टवान मृगः ॥ 13 ॥
दूरं चापहृतस तेन मृगेण स महीपतिः परिश्रान्तः पिपासार्त आससाद मुनिं वने ॥ 14 ॥
गवां परचारेष्व आसीनं वत्सानां मुखनिःसृतम भूयिष्ठम उपयुञ्जानं फेनम आपिबतां पयः ॥ 15 ॥
तम अभिद्रुत्य वेगेन स राजा संशितव्रतम अपृच्छद धनुर उद्यम्य तं मुनिं कषुच्छ्रमान्वितः ॥ 16 ॥
भॊ भॊ बरह्मन्न अहं राजा परिक्षिद अभिमन्युजः मया विद्धॊ मृगॊ नष्टः कच चित तवं दृष्टवान असि ॥ 17 ॥
स मुनिस तस्य नॊवाच किं चिन मौन वरते सथितः तस्य सकन्धे मृतं सर्पं करुद्धॊ राजा समासजत ॥ 18 ॥
धनुष्कॊट्या समुत्क्षिप्य स चैनं समुदैक्षत न च किं चिद उवाचैनं शुभं वा यदि वाशुभम ॥ 19 ॥
स राजा करॊधम उत्सृज्य वयथितस तं तथागतम दृष्ट्वा जगाम नगरम ऋषिस तव आस्ते तथैव सः ॥ 20 ॥
तरुणस तस्य पुत्रॊ ऽभूत तिग्मतेजा महातपाः शृङ्गी नाम महाक्रॊधॊ दुष्प्रसादॊ महाव्रतः ॥ 21 ॥
स देवं परम ईशानं सर्वभूतहिते रतम बरह्माणम उपतस्थे वै काले काले सुसंयतः स तेन समनुज्ञातॊ बरह्मणा गृहम ईयिवान ॥ 22 ॥
सख्यॊक्तः करीडमानेन स तत्र हसता किल संरम्भी कॊपनॊ ऽतीव विषकल्प ऋषेः सुतः ऋषिपुत्रेण नर्मार्थं कृशेन दविजसत्तमः ॥ 23 ॥
तेजस्विनस तव पिता तथैव च तपस्विनः शवं सकन्धेन वहति मा शृङ्गिन गर्वितॊ भव ॥ 24 ॥
वयाहरत्स्व ऋषिपुत्रेषु मा सम किं चिद वचॊ वदीः अस्मद्विधेषु सिद्धेषु बरह्मवित्सु तपस्विषु ॥ 25 ॥
कव ते पुरुषमानित्वं कव ते वाचस तथाविधः दर्पजाः पितरं यस तवं दरष्टा शवधरं तथा ॥ 26 ॥
आदिपर्व · Adi Parva
अध्याय 36
Reach this point to mark the section finished.
Continue to अध्याय 37