[स] एलापत्रस्य तु वचः शरुत्वा नागा दविजॊत्तम सर्वे परहृष्टमनसः साधु साध्व इत्य अपूजयन ॥ 1 ॥
ततः परभृति तां कन्यां वासुकिः पर्यरक्षत जरत्कारुं सवसारं वै परं हर्षम अवाप च ॥ 2 ॥
ततॊ नातिमहान कालः समतीत इवाभवत अथ देवासुराः सर्वे ममन्थुर वरुणालयम ॥ 3 ॥
तत्र नेत्रम अभून नागॊ वासुकिर बलिनां वरः समाप्यैव च तत कर्म पितामहम उपागमन ॥ 4 ॥
देवा वासुकिना सार्धं पितामहम अथाब्रुवन भगवञ शापभीतॊ ऽयं वासुकिस तप्यते भृशम ॥ 5 ॥
तस्येदं मानसं शल्यं समुद्धर्तुं तवम अर्हसि जनन्याः शापजं देव जञातीनां हितकाङ्क्षिणः ॥ 6 ॥
हितॊ हय अयं सदास्माकं परियकारी च नागराट कुरु परसादं देवेश शमयास्य मनॊ जवरम ॥ 7 ॥
[बर] मयैवैतद वितीर्णं वै वचनं मनसामराः एलापत्रेण नागेन यद अस्याभिहितं पुरा ॥ 8 ॥
तत करॊत्व एष नागेन्द्रः पराप्तकालं वचस तथा विनशिष्यन्ति ये पापा न तु ये धर्मचारिणः ॥ 9 ॥
उत्पन्नः स जरत कारुस तपस्य उग्रे रतॊ दविजः तस्यैष भगिनीं काले जरत्कारुं परयच्छतु ॥ 10 ॥
यद एलापत्रेण वचस तदॊक्तं भुजगेन ह पन्नगानां हितं देवास तत तथा न तद अन्यथा ॥ 11 ॥
[स] एतच छरुत्वा स नागेन्द्रः पितामहवचस तदा सर्पान बनूञ जरत्कारौ नित्ययुक्तान समादधत ॥ 12 ॥
जरत्कारुर यदा भार्याम इच्छेद वरयितुं परभुः शीघ्रम एत्य ममाख्येयं तन नः शरेयॊ भविष्यति ॥ 13 ॥
आदिपर्व · Adi Parva
अध्याय 35
Reach this point to mark the section finished.
Continue to अध्याय 36