[स] शरुत्वा तु वचनं तेषां सर्वेषाम इति चेति च वासुकेश च वचः शरुत्वा एलापत्रॊ ऽबरवीद इदम ॥ 1 ॥
न स यज्ञॊ न भविता न स राजा तथाविधः जनमेजयः पाण्डवेयॊ यतॊ ऽसमाकं महाभयम ॥ 2 ॥
दैवेनॊपहतॊ राजन्यॊ भवेद इह पूरुषः स दैवम एवाश्रयते नान्यत तत्र परायणम ॥ 3 ॥
तद इदं दैवम अस्माकं भयं पन्नगसत्तमाः दैवम एवाश्रयामॊ ऽतर शृणुध्वं च वचॊ मम ॥ 4 ॥
अहं शापे समुत्सृष्टे समश्रौषं वचस तदा मातुर उत्सङ्गम आरूढॊ भयात पन्नगसत्तमाः ॥ 5 ॥
देवानां पन्नगश्रेष्ठास तीक्ष्णास तीक्ष्णा इति परभॊ पितामहम उपागम्य दुःखार्तानां महाद्युते ॥ 6 ॥
[देवाह] का हि लब्ध्वा परियान पुत्राञ शपेद एवं पितामह ऋते कद्रूं तीक्ष्णरूपां देवदेव तवाग्रतः ॥ 7 ॥
तथेति च वचस तस्यास तवयाप्य उक्तं पितामह एतद इच्छाम विज्ञातुं कारणं यन न वारिता ॥ 8 ॥
[बर] बहवः पन्नगास तीक्ष्णा भीमवीर्या विषॊल्बणाः परजानां हितकामॊ ऽहं न निवारितवांस तदा ॥ 9 ॥
ये दन्द शूकाः कषुद्राश च पापचारा विषॊल्बणाः तेषां विनाशॊ भविता न तु ये धर्मचारिणः ॥ 10 ॥
यन्निमित्तं च भविता मॊक्षस तेषां महाभयात पन्नगानां निबॊधध्वं तस्मिन काले तथागते ॥ 11 ॥
यायावर कुले धीमान भविष्यति महान ऋषिः जरत्कारुर इति खयातस तेजस्वी नियतेन्द्रियः ॥ 12 ॥
तस्य पुत्रॊ जरत्कारॊर उत्पत्स्यति महातपाः आस्तीकॊ नामयज्ञं स परतिषेत्स्यति तं तदा तत्र मॊक्ष्यन्ति भुजगा ये भविष्यन्ति धार्मिकाः ॥ 13 ॥
[देवाह] स मुनिप्रवरॊ देव जरत कारुर महातपाः कस्यां पुत्रं महात्मानं जनयिष्यति वीर्यवान ॥ 14 ॥
[बर] सनामायां सनामा स कन्यायां दविजसत्तमः अपत्यं वीर्यवान देवा वीर्यवज जनयिष्यति ॥ 15 ॥
[एलापत्र] एवम अस्त्व इति तं देवाः पितामहम अथाब्रुवन उक्त्वा चैवं गता देवाः स च देवः पितामहः ॥ 16 ॥
सॊ ऽहम एवं परपश्यामि वासुके भगिनीं तव जरत्कारुर इति खयातां तां तस्मै परतिपादय ॥ 17 ॥
भैक्षवद भिक्षमाणाय नागानां भयशान्तये ऋषये सुव्रताय तवम एष मॊक्षः शरुतॊ मया ॥ 18 ॥
आदिपर्व · Adi Parva
अध्याय 34
Reach this point to mark the section finished.
Continue to अध्याय 35