धर्मDharmic Data

आदिपर्व · Adi Parva

अध्याय 33

  1. [स] मातुः सकाशात तं शापं शरुत्वा पन्नगसत्तमः वासुकिश चिन्तयाम आस शापॊ ऽयं न भवेत कथम ॥ 1 ॥

  2. ततः स मन्त्रयाम आस भरातृभिः सह सर्वशः ऐरावतप्रभृतिभिर ये सम धर्मपरायणाः ॥ 2 ॥

  3. [वा] अयं शापॊ यथॊद्धिष्टॊ विदितं वस तथानघाः तस्य शापस्य मॊक्षार्थं मन्त्रयित्वा यतामहे ॥ 3 ॥

  4. सर्वेषाम एव शापानां परतिघातॊ हि विद्यते न तु मात्राभिशप्तानां मॊक्षॊ विद्येत पन्नगाः ॥ 4 ॥

  5. अव्ययस्याप्रमेयस्य सत्यस्य च तथाग्रतः शप्ता इत्य एव मे शरुत्वा जायते हृदि वेपथुः ॥ 5 ॥

  6. नूनं सर्वविनाशॊ ऽयम अस्माकं समुदाहृतः न हय एनां सॊ ऽवययॊ देवः शपन्तीं परत्यषेधयत ॥ 6 ॥

  7. तस्मात संमन्त्रयामॊ ऽतर भुजगानाम अनामयम यथा भवेत सर्वेषां मा नः कालॊ ऽतयगाद अयम ॥ 7 ॥

  8. अपि मन्त्रयमाणा हि हेतुं पश्याम मॊक्षणे यथा नष्टं पुरा देवा गूढम अग्निं गुहा गतम ॥ 8 ॥

  9. यथा स यज्ञॊ न भवेद यथा वापि पराभवेत जनमेजयस्य सर्पाणां विनाशकरणाय हि ॥ 9 ॥

  10. [स] तथेत्य उक्त्वा तु ते सर्वे काद्रवेयाः समागताः समयं चक्रिरे तत्र मन्त्रबुद्धिविशारदाः ॥ 10 ॥

  11. एके तत्राब्रुवन नागा वयं भूत्वा दविजर्षभाः जनमेजयं तं भिक्षामॊ यज्ञस ते न भवेद इति ॥ 11 ॥

  12. अपरे तव अब्रुवन नागास तत्र पण्डितमानिनः मन्त्रिणॊ ऽसय वयं सर्वे भविष्यामः सुसंमताः ॥ 12 ॥

  13. स नः परक्ष्यति सर्वेषु कार्येष्व अर्थविनिश्चयम तत्र बुद्धिं परवक्ष्यामॊ यथा यज्ञॊ निवर्तते ॥ 13 ॥

  14. स नॊ बहुमतान राजा बुद्ध्वा बुद्धिमतां वरः यज्ञार्थं परक्ष्यति वयक्तं नेति वक्ष्यामहे वयम ॥ 14 ॥

  15. दर्शयन्तॊ बहून दॊषान परेत्य चेह च दारुणान हेतुभिः कारणैश चैव यथा यज्ञॊ भवेन न सः ॥ 15 ॥

  16. अथ वा य उपाध्यायः करतौ तस्मिन भविष्यति सर्पसत्र विधानज्ञॊ राजकार्यहिते रतः ॥ 16 ॥

  17. तं गत्वा दशतां कश चिद भुजगः स मरिष्यति तस्मिन हते यज्ञकरे करतुः स न भविष्यति ॥ 17 ॥

  18. ये चान्ये सर्पसत्रज्ञा भविष्यन्त्य अस्य ऋत्विजः तांश च सर्वान दशिष्यामः कृतम एवं भविष्यति ॥ 18 ॥

  19. तत्रापरे ऽमन्त्रयन्त धर्मात्मानॊ भुजंगमाः अबुद्धिर एषा युष्माकं बरह्महत्या न शॊभना ॥ 19 ॥

  20. सम्यक सद धर्ममूला हि वयसने शान्तिर उत्तमा अधर्मॊत्तरता नाम कृत्स्नं वयापादयेज जगत ॥ 20 ॥

  21. अपरे तव अब्रुवन नागाः समिद्धं जातवेदसम वर्षैर निर्वापयिष्यामॊ मेघा भूत्वा सविद्युतः ॥ 21 ॥

  22. सरुग्भाण्डं निशि गत्वा वा अपरे भुजगॊत्तमाः परमत्तानां हरन्त्व आशु विघ्न एवं भविष्यति ॥ 22 ॥

  23. यज्ञे वा भुजगास तस्मिञ शतशॊ ऽथ सहस्रशः जनं दशन्तु वै सर्वम एवं तरासॊ भविष्यति ॥ 23 ॥

  24. अथ वा संस्कृतं भॊज्यं दूषयन्तु भुजंगमाः सवेन मूत्र पुरीषेण सर्वभॊज्य विनाशिना ॥ 24 ॥

  25. अपरे तव अब्रुवंस तत्र ऋत्विजॊ ऽसय भवामहे यज्ञविघ्नं करिष्यामॊ दीयतां दक्षिणा इति वश्यतां च गतॊ ऽसौ नः करिष्यति यथेप्षितम ॥ 25 ॥

  26. अपरे तव अब्रुवंस तत्र जले परक्रीडितं नृपम गृहम आनीय बध्नीमः करतुर एवं भवेन न सः ॥ 26 ॥

  27. अपरे तव अब्रुवंस तत्र नागाः सुकृतकारिणः दशामैनं परगृह्याशु कृतम एवं भविष्यति छिन्नं मूलम अनर्थानां मृते तस्मिन भविष्यति ॥ 27 ॥

  28. एषा वै नैष्ठिकी बुद्धिः सर्वेषाम एव संमता यथा वा मन्यसे राजंस तत कषिप्रं संविधीयताम ॥ 28 ॥

  29. इत्य उक्त्वा समुदैक्षन्त वासुकिं पन्नगेश्वरम वासुकिश चापि संचिन्त्य तान उवाच भुजंगमान ॥ 29 ॥

  30. नैषा वॊ नैष्ठिकी बुद्धिर मता कर्तुं भुजंगमाः सर्वेषाम एव मे बुद्धिः पन्नगानां न रॊचते ॥ 30 ॥

  31. किं तव अत्र संविधातव्यं भवतां यद भवेद धितम अनेनाहं भृशं तप्ये गुणदॊषौ मदाश्रयौ ॥ 31 ॥

Reach this point to mark the section finished.

Continue to अध्याय 34

Previous: अध्याय 32