[ष] जाता वै भुजगास तात वीर्यवन्तॊ दुरासदाः शापं तं तव अथ विज्ञाय कृतवन्तॊ नु किं परम ॥ 1 ॥
[स] तेषां तु भगवाञ शेषस तयक्त्वा कद्रूं महायशाः तपॊ विपुलम आतस्थे वायुभक्षॊ यतव्रतः ॥ 2 ॥
गन्धमादनम आसाद्य बदर्यां च तपॊ रतः गॊकर्णे पुष्करारण्ये तथा हिमवतस तटे ॥ 3 ॥
तेषु तेषु च पुण्येषु तीर्थेष्व आयतनेषु च एकान्तशीली नियतः सततं विजितेन्द्रियः ॥ 4 ॥
तप्यमानं तपॊ घॊरं तं ददर्श पितामहः परिशुष्कमांसत्वक सनायुं जटाचीरधरं परभुम ॥ 5 ॥
तम अब्रवीत सत्यधृतिं तप्यमानं पितामहः किम इदं कुरुषे शेषप्रजानां सवस्ति वै कुरु ॥ 6 ॥
तवं हि तीव्रेण तपसा परजास तापयसे ऽनघ बरूहि कामं च मे शेषयत ते हृदि चिरं सथितम ॥ 7 ॥
[षेस] सॊदर्या मम सर्वे हि भरातरॊ मन्दचेतसः सह तैर नॊत्सहे वस्तुं तद भवान अनुमन्यताम ॥ 8 ॥
अभ्यसूयन्ति सततं परस्परम अमित्रवत ततॊ ऽहं तप आतिष्ठे नैतान पश्येयम इत्य उत ॥ 9 ॥
न मर्षयन्ति सततं विनतां ससुतां च ते अस्माकं चापरॊ भराता वैनतेयः पितामह ॥ 10 ॥
तं च दविषन्ति ते ऽतयर्थं स चापि सुमहाबलः वरप्रदानात स पितुः कश्यपस्य महात्मनः ॥ 11 ॥
सॊ ऽहं तपः समास्थाय मॊक्ष्यामीदं कलेवरम कथं मे परेत्य भावे ऽपि न तैः सयात सह संगमः ॥ 12 ॥
[बरह्मा] जानामि शेषसर्वेषां भरातॄणां ते विचेष्टितम मातुश चाप्य अपराधाद वै भरातॄणां ते महद भयम ॥ 13 ॥
कृतॊ ऽतर परिहारश च पूर्वम एव भुजंगम भरातॄणां तव सर्वेषां न शॊकं कर्तुम अर्हसि ॥ 14 ॥
वृणीष्व च वरं मत्तः शेषयत ते ऽभिकाङ्क्षितम दित्सामि हि वरं ते ऽदय परीतिर मे परमा तवयि ॥ 15 ॥
दिष्ट्या च बुद्धिर धर्मे ते निविष्टा पन्नगॊत्तम अतॊ भूयश च ते बुद्धिर धर्मे भवतु सुस्थिरा ॥ 16 ॥
[षेस] एष एव वरॊ मे ऽदय काङ्क्षितः परपितामह धर्मे मे रमतां बुद्धिः शमे तपसि चेश्वर ॥ 17 ॥
[बर] परीतॊ ऽसम्य अनेन ते शेषदमेन परशमेन च तवया तव इदं वचः कार्यं मन्नियॊगात परजाहितम ॥ 18 ॥
इमां महीं शैलवनॊपपन्नां; ससागरां साकर पत्तनां च तवं शेषसम्यक चलितां यथावत; संगृह्य तिष्ठस्व यथाचला सयात ॥ 19 ॥
[षेस] यथाह देवॊ वरदः परजापतिर; महीपतिर भूतपतिर जगत्पतिः तथा महीं धारयितास्मि निश्चलां; परयच्छ तां मे शिरसि परजापते ॥ 20 ॥
[बर] अधॊ महीं गच्छ भुजंगमॊत्तम; सवयं तवैषा विवरं परदास्यति इमां धरां धारयता तवया हि मे; महत परियं शेषकृतं भविष्यति ॥ 21 ॥
[स] तथेति कृत्वा विवरं परविश्य स; परभुर भुवॊ भुजग वराग्रजः सथितः बिभर्ति देवीं शिरसा महीम इमां; समुद्रनेमिं परिगृह्य सर्वतः ॥ 22 ॥
[बर] शेषॊ ऽसि नागॊत्तम धर्मदेवॊ; महीम इमां धारयसे यद एकः अनन्त भॊगः परिगृह्य सर्वां; यथाहम एवं बलभिद यथा वा ॥ 23 ॥
[स] अधॊ भूमेर वसत्य एवं नागॊ ऽनन्तः परतापवान धारयन वसुधाम एकः शासनाद बरह्मणॊ विभुः ॥ 24 ॥
सुपर्णं च सखायं वै भगवान अमरॊत्तमः परादाद अनन्ताय तदा वैनतेयं पितामहः ॥ 25 ॥
आदिपर्व · Adi Parva
अध्याय 32
Reach this point to mark the section finished.
Continue to अध्याय 33