धर्मDharmic Data

आदिपर्व · Adi Parva

अध्याय 26

  1. [स] सपृष्टमात्रा तु पद्भ्यां स गरुडेन बलीयसा अभज्यत तरॊः शाखा भग्नां चैनाम अधारयत ॥ 1 ॥

  2. तां भग्नां स महाशाखां समयन समवलॊकयन अथात्र लम्बतॊ ऽपश्यद वालखिल्यान अधॊमुखान ॥ 2 ॥

  3. स तद्विनाशसंत्रासाद अनुपत्य खगाधिपः शाखाम आस्येन जग्राह तेषाम एवान्ववेक्षया शनैः पर्यपतत पक्षी पर्वतान परविशातयन ॥ 3 ॥

  4. एवं सॊ ऽभयपतद देशान बहून सगज कच्छपः दयार्थं वालखिल्यानां न च सथानम अविन्दत ॥ 4 ॥

  5. स गत्वा पर्वतश्रेष्ठं गन्धमादनम अव्ययम ददर्श कश्यपं तत्र पितरं तपसि सथितम ॥ 5 ॥

  6. ददर्श तं पिता चापि दिव्यरूपं विहंगमम तेजॊ वीर्यबलॊपेतं मनॊमारुतरंहसम ॥ 6 ॥

  7. शैलशृङ्गप्रतीकाशं बरह्मदण्डम इवॊद्यतम अचिन्त्यम अनभिज्ञेयं सर्वभूतभयंकरम ॥ 7 ॥

  8. मायावीर्यधरं साक्षाद अग्निम इद्धम इवॊद्यतम अप्रधृष्यम अजेयं च देवदानवराक्षसैः ॥ 8 ॥

  9. भेत्तारं गिरिशृङ्गाणां नदी जलविशॊषणम लॊकसंलॊडनं घॊरं कृतान्तसमदर्शनम ॥ 9 ॥

  10. तम आगतम अभिप्रेक्ष्य भगवान कश्यपस तदा विदित्वा चास्य संकल्पम इदं वचनम अब्रवीत ॥ 10 ॥

  11. पुत्र मा साहसं कार्षीर मा सद्यॊ लप्स्यसे वयथाम मा तवा दहेयुः संक्रुद्धा वालखिल्या मरीचिपाः ॥ 11 ॥

  12. परसादयाम आस स तान कश्यपः पुत्रकारणात वालखिल्यांस तपःसिद्धान इदम उद्दिश्य कारणम ॥ 12 ॥

  13. परजाहितार्थम आरम्भॊ गरुडस्य तपॊधनाः चिकीर्षति महत कर्म तदनुज्ञातुम अर्हथ ॥ 13 ॥

  14. एवम उक्ता भगवता मुनयस ते समभ्ययुः मुक्त्वा शाखां गिरिं पुण्यं हिमवन्तं तपॊ ऽरथिनः ॥ 14 ॥

  15. ततस तेष्व अपयातेषु पितरं विनतात्मजः शाखा वयाक्षिप्तवदनः पर्यपृच्छत कश्यपम ॥ 15 ॥

  16. भगवन कव विमुञ्चामि तरुशाखाम इमाम अहम वर्जितं बराह्मणैर देशम आख्यातु भगवान मम ॥ 16 ॥

  17. ततॊ निष्पुरुषं शैलं हिमसंरुद्ध कन्दरम अगम्यं मनसाप्य अन्यैस तस्याचख्यौ स कश्यपः ॥ 17 ॥

  18. तं पर्वत महाकुक्षिम आविश्य मनसा खगाः जवेनाभ्यपतत तार्क्ष्यः सशाखा गजकच्छपः ॥ 18 ॥

  19. न तां वध्रः परिणहेच छतचर्मा महान अणुः शाखिनॊ महतीं शाखां यां परगृह्य ययौ खगः ॥ 19 ॥

  20. ततः स शतसाहस्रं यॊजनान्तरम आगतः कालेन नातिमहता गरुडः पततां वरः ॥ 20 ॥

  21. स तं गत्वा कषणेनैव पर्वतं वचनात पितुः अमुञ्चन महतीं शाखां सस्वनां तत्र खेचरः ॥ 21 ॥

  22. पक्षानिलहतश चास्य पराकम्पत स शैलराट मुमॊच पुष्पवर्षं च समागलित पादपः ॥ 22 ॥

  23. शृङ्गाणि च वयशीर्यन्त गिरेस तस्य समन्ततः मणिकाञ्चनचित्राणि शॊभयन्ति महागिरिम ॥ 23 ॥

  24. शाखिनॊ बहवश चापि शाखयाभिहतास तया काञ्चनैः कुसुमैर भान्ति विद्युत्वन्त इवाम्बुदाः ॥ 24 ॥

  25. ते हेमविकचा भूयॊ युक्ताः पर्वतधातुभिः वयराजञ शाखिनस तत्र सूर्यांशुप्रतिरञ्जिताः ॥ 25 ॥

  26. ततस तस्य गिरेः शृङ्गम आस्थाय स खगॊत्तमः भक्षयाम आस गरुडस ताव उभौ गजकच्छपौ ॥ 26 ॥

  27. ततः पर्वतकूटाग्राद उत्पपात मनॊजवः परावर्तन्ताथ देवानाम उत्पाता भयवेदिनः ॥ 27 ॥

  28. इन्द्रस्य वर्जं दयितं परजज्वाल वयथान्वितम सधूमा चापतत सार्चिर दिवॊल्का नभसश चयुता ॥ 28 ॥

  29. तथा वसूनां रुद्राणाम आदित्यानां च सर्वशः साध्यानां मरुतां चैव ये चान्ये देवता गणाः सवं सवं परहरणं तेषां परस्परम उपाद्रवत ॥ 29 ॥

  30. अभूतपूर्वं संग्रामे तदा देवासुरे ऽपि च ववुर वाताः सनिर्घाताः पेतुर उल्काः समन्ततः ॥ 30 ॥

  31. निरभ्रम अपि चाकाशं परजगर्ज महास्वनम देवानाम अपि यॊ देवः सॊ ऽपय अवर्षद असृक तदा ॥ 31 ॥

  32. मम्लुर माल्यानि देवानां शेमुस तेजांसि चैव हि उत्पातमेघा रौद्राश च ववर्षुः शॊणितं बहु रजांसि मुकुटान्य एषाम उत्थितानि वयधर्षयन ॥ 32 ॥

  33. ततस तराससमुद्विग्नः सह देवैः शतक्रतुः उत्पातान दारुणान पश्यन्न इत्य उवाच बृहस्पतिम ॥ 33 ॥

  34. किमर्थं भगवन घॊरा महॊत्पाताः समुत्थिताः न च शत्रुं परपश्यामि युधि यॊ नः परधर्षयेत ॥ 34 ॥

  35. [बृह] तवापराधाद देवेन्द्र परमादाच च शतक्रतॊ तपसा वालखिल्यानां भूतम उत्पन्नम अद्भुतम ॥ 35 ॥

  36. कश्यपस्य मुनेः पुत्रॊ विनतायाश च खेचरः हर्तुं सॊमम अनुप्राप्तॊ बलवान कामरूपवान ॥ 36 ॥

  37. समर्थॊ बलिनां शरेष्ठॊ हर्तुं सॊमं विहंगमः सर्वं संभावयाम्य अस्मिन्न असाध्यम अपि साधयेत ॥ 37 ॥

  38. [स] शरुत्वैतद वचनं शक्रः परॊवाचामृत रक्षिणः महावीर्यबलः पक्षी हर्तुं सॊमम इहॊद्यतः ॥ 38 ॥

  39. युष्मान संबॊधयाम्य एष यथा स न हरेद बलात अतुलं हि बलं तस्य बृहस्पतिर उवाच मे ॥ 39 ॥

  40. तच छरुत्वा विबुधा वाक्यं विस्मिता यत्नम आस्थिताः परिवार्यामृतं तस्थुर वज्री चेन्द्रः शतक्रतुः ॥ 40 ॥

  41. धारयन्तॊ महार्हाणि कवचानि मनस्विनः काञ्चनानि विचित्राणि वैडूर्य विकृतानि च ॥ 41 ॥

  42. विविधानि च शस्त्राणि घॊररूपाण्य अनेकशः शिततीक्ष्णाग्र धाराणि समुद्यम्य सहस्रशः ॥ 42 ॥

  43. सविस्फुलिङ्गज्वालानि सधूमानि च सर्वशः चक्राणि परिघांश चैव तरिशूलानि परश्वधान ॥ 43 ॥

  44. शक्तीश च विविधास तीक्ष्णाः करवालांश च निर्मलान सवदेहरूपाण्य आदाय गदाश चॊग्रप्रदर्शनाः ॥ 44 ॥

  45. तैः शस्त्रैर भानुमद्भिस ते दिव्याभरणभूषिताः भानुमन्तः सुरगणास तस्थुर विगतकल्मषाः ॥ 45 ॥

  46. अनुपम बलवीर्यतेजसॊ; धृतमनसः परिरक्षणे ऽमृतस्य असुरपुरविदारणाः सुरा; जवलनसमिद्ध वपुः परकाशिनः ॥ 46 ॥

  47. इति समरवरं सुरास्थितं; परिघसहस्रशतैः समाकुलम विगलितम इव चाम्बरान्तरे; तपन मरीचिविभासितं बभौ ॥ 47 ॥

Reach this point to mark the section finished.

Continue to अध्याय 27

Previous: अध्याय 25