[सू] तस्य कण्ठम अनुप्राप्तॊ बराह्मणः सह भार्यया दहन दीप्त इवाङ्गारस तम उवाचान्तरिक्षगः ॥ 1 ॥
दविजॊत्तम विनिर्गच्छ तूर्णम आस्याद अपावृतान न हि मे बराह्मणॊ वध्यः पापेष्व अपि रतः सदा ॥ 2 ॥
बरुवाणम एवं गरुडं बराह्मणः समभाषत निषादी मम भार्येयं निर्गच्छतु मया सह ॥ 3 ॥
[ग] एताम अपि निषादीं तवं परिगृह्याशु निष्पत तूर्णं संभावयात्मानम अजीर्णं मम तेजसा ॥ 4 ॥
[स] ततः स विप्रॊ निष्क्रान्तॊ निषादी सहितस तदा वर्धयित्वा च गरुडम इष्टं देशं जगाम ह ॥ 5 ॥
सहभार्ये विनिष्क्रान्ते तस्मिन विप्रे स पक्षिराट वितत्य पक्षाव आकाशम उत्पपात मनॊजवः ॥ 6 ॥
ततॊ ऽपश्यत स पितरं पृष्ठश चाख्यातवान पितुः अहं हि सर्पैः परहितः सॊमम आहर्तुम उद्यतः मातुर दास्य विमॊक्षार्थम आहरिष्ये तम अद्य वै ॥ 7 ॥
मात्रा चास्मि समादिष्टॊ निषादान भक्षयेति वै न च मे तृप्तिर अभवद भक्षयित्वा सहस्रशः ॥ 8 ॥
तस्माद भॊक्तव्यम अपरं भगवन परदिशस्व मे यद भुक्त्वामृतम आहर्तुं समर्थः सयाम अहं परभॊ ॥ 9 ॥
[कष्यप] आसीद विभावसुर नाम महर्षिः कॊपनॊ भृशम भराता तस्यानुजश चासीत सुप्रतीकॊ महातपाः ॥ 10 ॥
स नेच्छति धनं भरात्रा सहैकस्थं महामुनिः विभागं कीर्तयत्य एव सुप्रतीकॊ ऽथ नित्यशः ॥ 11 ॥
अथाब्रवीच च तं भराता सुप्रतीकं विभावसुः विभागं बहवॊ मॊहात कर्तुम इच्छन्ति नित्यदा ततॊ विभक्ता अन्यॊन्यं नाद्रियन्ते ऽरथमॊहिताः ॥ 12 ॥
ततः सवार्थपरान मूढान पृथग भूतान सवकैर धनैः विदित्वा भेदयन्त्य एतान अमित्रा मित्ररूपिणः ॥ 13 ॥
विदित्वा चापरे भिन्नान अन्तरेषु पतन्त्य अथ भिन्नानाम अतुलॊ नाशः कषिप्रम एव परवर्तते ॥ 14 ॥
तस्माच चैव विभागार्थं न परशंसन्ति पण्डिताः गुरु शास्त्रे निबद्धानाम अन्यॊन्यम अभिशङ्किनाम ॥ 15 ॥
नियन्तुं न हि शक्यस तवं भेदनॊ धनम इच्छसि यस्मात तस्मात सुप्रतीक हस्तित्वं समवाप्स्यसि ॥ 16 ॥
शप्तस तव एवं सुप्रतीकॊ विभावसुम अथाब्रवीत तवम अप्य अन्तर्जलचरः कच्छपः संभविष्यसि ॥ 17 ॥
एवम अन्यॊन्यशापात तौ सुप्रतीक विभावसू गजकच्छपतां पराप्ताव अर्थार्थं मूढचेतसौ ॥ 18 ॥
रॊषदॊषानुषङ्गेण तिर्यग्यॊनिगताव अपि परस्परद्वेषरतौ परमाण बलदर्पितौ ॥ 19 ॥
सरस्य अस्मिन महाकायौ पूर्ववैरानुसारिणौ तयॊर एकतरः शरीमान समुपैति महागजः ॥ 20 ॥
तस्य बृंहित शब्देन कूर्मॊ ऽपय अन्तर्जले शयः उत्थितॊ ऽसौ महाकायः कृत्स्नं संक्षॊभयन सरः ॥ 21 ॥
तं दृष्ट्वावेष्टित करः पतत्य एष गजॊ जलम दन्तहस्ताग्र लाङ्गूलपादवेगेन वीर्यवान ॥ 22 ॥
तं विक्षॊभयमाणं तु सरॊ बहु झषाकुलम कूर्मॊ ऽपय अभ्युद्यत शिरा युद्धायाभ्येति वीर्यवान ॥ 23 ॥
षड उच्छ्रितॊ यॊजनानि गजस तद दविगुणायतः कूर्मस तरियॊजनॊत्सेधॊ दशयॊजनमण्डलः ॥ 24 ॥
ताव एतौ युद्धसंमत्तौ परस्परजयैषिणौ उपयुज्याशु कर्मेदं साधयेप्सितम आत्मनः ॥ 25 ॥
[सू] स तच छरुत्वा पितुर वाक्यं भीमवेगॊ ऽनतरिक्षगः नखेन जगम एकेन कूर्मम एकेन चाक्षिपत ॥ 26 ॥
समुत्पपात चाकाशं तत उच्चैर विहंगमः सॊ ऽलम्ब तीर्थम आसाद्य देव वृक्षान उपागमत ॥ 27 ॥
ते भीताः समकम्पन्त तस्य पक्षानिलाहताः न नॊ भञ्ज्याद इति तदा दिव्याः कनकशाखिनः ॥ 28 ॥
परचलाङ्गान स तान दृष्ट्वा मनॊरथफलाङ्कुरान अन्यान अतुलरूपाङ्गान उपचक्राम खेचरः ॥ 29 ॥
काञ्चनै राजतैश चैव फलैर वैडूर्य शाखिनः सागराम्बुपरिक्षिप्तान भराजमानान महाद्रुमान ॥ 30 ॥
तम उवाच खग शरेष्ठं तत्र रॊहिण पादपः अतिप्रवृद्धः सुमहान आपतन्तं मनॊजवम ॥ 31 ॥
यैषा मम महाशाखा शतयॊजनम आयता एताम आस्थाय शाखां तवं खादेमौ गजकच्छपौ ॥ 32 ॥
ततॊ दरुमं पतगसहस्रसेवितं; महीधर परतिमवपुः परकम्पयन खगॊत्तमॊ दरुतम अभिपत्य वेगवान; बभञ्ज ताम अविरल पत्रसंवृताम ॥ 33 ॥
आदिपर्व · Adi Parva
अध्याय 25
Reach this point to mark the section finished.
Continue to अध्याय 26