धर्मDharmic Data

आदिपर्व · Adi Parva

अध्याय 27

  1. [ष] कॊ ऽपराधॊ महेन्द्रस्य कः परमादश च सूतज तपसा वालखिल्यानां संभूतॊ गरुडः कथम ॥ 1 ॥

  2. कश्यपस्य दविजातेश च कथं वै पक्षिराट सुतः अधृष्यः सर्वभूतानाम अवध्यश चाभवत कथम ॥ 2 ॥

  3. कथं च कामचारी स कामवीर्यश च खेचरः एतद इच्छाम्य अहं शरॊतुं पुराणे यदि पठ्यते ॥ 3 ॥

  4. [स] विषयॊ ऽयं पुराणस्य यन मां तवं परिपृच्छसि शृणु मे वदतः सर्वम एतत संक्षेपतॊ दविज ॥ 4 ॥

  5. यजतः पुत्र कामस्य कश्यपस्य परजापतेः साहाय्यम ऋषयॊ देवा गन्धर्वाश च ददुः किल ॥ 5 ॥

  6. तत्रेध्मानयने शक्रॊ नियुक्तः कश्यपेन ह मुनयॊ वालखिल्याश च ये चान्ये देवता गणाः ॥ 6 ॥

  7. शक्रस तु वीर्यसदृशम इध्म भारं गिरिप्रभम समुद्यम्यानयाम आस नातिकृच्छ्राद इव परभुः ॥ 7 ॥

  8. अथापश्यद ऋषीन हरस्वान अङ्गुष्ठॊदर पर्वणः पलाशवृन्तिकाम एकां सहितान वहतः पथि ॥ 8 ॥

  9. परलीनान सवेष्व इवाङ्गेषु निराहारांस तपॊधनान कलिश्यमानान मन्दबलान गॊष्पदे संप्लुतॊदके ॥ 9 ॥

  10. तांश च सर्वान समयाविष्टॊ वीर्यॊन्मत्तः पुरंदरः अवहस्यात्यगाच छीघ्रं लङ्घयित्वावमन्य च ॥ 10 ॥

  11. ते ऽथ रॊषसमाविष्टाः सुभृशं जातमन्यवः आरेभिरे महत कर्म तदा शक्र भयंकरम ॥ 11 ॥

  12. जुहुवुस ते सुतपसॊ विधिवज जातवेदसम मन्त्रैर उच्चावचैर विप्रा येन कामेन तच छृणु ॥ 12 ॥

  13. कामवीर्यः कामगमॊ देवराजभयप्रदः इन्द्रॊ ऽनयः सर्वदेवानां भवेद इति यतव्रताः ॥ 13 ॥

  14. इन्द्राच छतगुणः शौर्ये वीर्ये चैव मनॊजवः तपसॊ नः फलेनाद्य दारुणः संभवत्व इति ॥ 14 ॥

  15. तद बुद्ध्वा भृशसंतप्तॊ देवराजः शतक्रतुः जगाम शरणं तत्र कश्यपं संशितव्रतम ॥ 15 ॥

  16. तच छरुत्वा देवराजस्य कश्यपॊ ऽथ परजापतिः वालखिल्यान उपागम्य कर्मसिद्धिम अपृच्छत ॥ 16 ॥

  17. एवम अस्त्व इति तं चापि परत्यूचुः सत्यवादिनः तान कश्यप उवाचेदं सान्त्वपूर्वं परजापतिः ॥ 17 ॥

  18. अयम इन्द्रस तरिभुवने नियॊगाद बरह्मणः कृतः इन्द्रार्थं च भवन्तॊ ऽपि यत्नवन्तस तपॊधनाः ॥ 18 ॥

  19. न मिथ्या बरह्मणॊ वाक्यं कर्तुम अर्हथ सत्तमाः भवतां च न मिथ्यायं संकल्पॊ मे चिकीर्षितः ॥ 19 ॥

  20. भवत्व एष पतत्रीणाम इन्द्रॊ ऽतिबलसत्त्ववान परसादः करियतां चैव देवराजस्य याचतः ॥ 20 ॥

  21. एवम उक्ताः कश्यपेन वालखिल्यास तपॊधनाः परत्यूचुर अभिसंपूज्य मुनिश्रेष्ठं परजापतिम ॥ 21 ॥

  22. इन्द्रार्थॊ ऽयं समारम्भः सर्वेषां नः परजापते अपत्यार्थं समारम्भॊ भवतश चायम ईप्सितः ॥ 22 ॥

  23. तद इदं सफलं कर्म तवया वै परतिगृह्यताम तथा चैव विधत्स्वात्र यथा शरेयॊ ऽनुपश्यसि ॥ 23 ॥

  24. एतस्मिन्न एव काले तु देवी दाक्षायणी शुभा विनता नाम कल्याणी पुत्र कामा यशस्विनी ॥ 24 ॥

  25. तपस तप्त्वा वरतपरा सनाता पुंसवने शुचिः उपचक्राम भर्तारं ताम उवाचाथ कश्यपः ॥ 25 ॥

  26. आरम्भः सफलॊ देवि भवितायं तवेप्सितः जनयिष्यसि पुत्रौ दवौ वीरौ तरिभुवनेश्वरौ ॥ 26 ॥

  27. तपसा वालखिल्यानां मम संकल्पजौ तथा भविष्यतॊ महाभागौ पुत्रौ ते लॊकपूजितौ ॥ 27 ॥

  28. उवाच चैनां भगवान मारीचः पुनर एव ह धार्यताम अप्रमादेन गर्भॊ ऽयं सुमहॊदयः ॥ 28 ॥

  29. एकः सर्वपतत्रीणाम इन्द्रत्वं कारयिष्यति लॊकसंभावितॊ वीरः कामवीर्यॊ विहंगमः ॥ 29 ॥

  30. शतक्रतुम अथॊवाच परीयमाणः परजापतिः तवत्सहायौ खगाव एतौ भरातरौ ते भविष्यतः ॥ 30 ॥

  31. नैताभ्यां भविता दॊषः सकाशात ते पुरंदर वयेतु ते शक्र संतापस तवम एवेन्द्रॊ भविष्यसि ॥ 31 ॥

  32. न चाप्य एवं तवया भूयः कषेप्तया बरह्मवादिनः न चावमान्या दर्पात ते वाग विषा भृशकॊपनाः ॥ 32 ॥

  33. एवम उक्तॊ जगामेन्द्रॊ निर्विशङ्कस तरिविष्टपम विनता चापि सिद्धार्था बभूव मुदिता तदा ॥ 33 ॥

  34. जनयाम आस पुत्रौ दवाव अरुणं गरुडं तथा अरुणस तयॊस तु विकल आदित्यस्य पुरःसरः ॥ 34 ॥

  35. पतत्रीणां तु गरुड इन्द्रत्वेनाभ्यषिच्यत तस्यैतत कर्म सुमहच छरूयतां भृगुनन्दन ॥ 35 ॥

Reach this point to mark the section finished.

Continue to अध्याय 28

Previous: अध्याय 26