धर्मDharmic Data

आदिपर्व · Adi Parva

अध्याय 24

  1. [सू] इत्य उक्तॊ गरुडः सर्पैर ततॊ मातरम अब्रवीत गच्छाम्य अमृतम आहर्तुं भक्ष्यम इच्छामि वेदितुम ॥ 1 ॥

  2. [वि] समुद्रकुक्षाव एकान्ते निषादालयम उत्तमम सहस्राणाम अनेकानां तान भुक्त्वामृतम आनय ॥ 2 ॥

  3. न तु ते बराह्मणं हन्तुं कार्या बुद्धिः कदा चन अवध्यसर्वभूतानां बराह्मणॊ हय अनलॊपमः ॥ 3 ॥

  4. अग्निर अर्कॊ विषं शस्त्रं विप्रॊ भवति कॊपितः भूतानाम अग्रभुग विप्रॊ वर्णश्रेष्ठः पिता गुरुः ॥ 4 ॥

  5. [ग] यथाहम अभिजानीयां बराह्मणं लक्षणैः शुभैः तन मे कारणतॊ मातः पृच्छतॊ वक्तुम अर्हसि ॥ 5 ॥

  6. [वि] यस ते कण्ठम अनुप्राप्तॊ निगीर्णं बडिशं यथा दहेद अङ्गारवत पुत्र तं विद्याद बाह्मणर्षभम ॥ 6 ॥

  7. [सू] परॊवाच चैनं विनता पुत्रहार्दाद इदं वचः जानन्त्य अप्य अतुलं वीर्यम आशीर्वादसमन्वितम ॥ 7 ॥

  8. पक्षौ ते मारुतः पातु चन्द्रः पृष्ठं तु पुत्रक शिरस तु पातु ते वह्निर भास्करः सर्वम एव तु ॥ 8 ॥

  9. अहं च ते सदा पुत्र शान्ति सवस्ति परायणा अरिष्टं वरज पन्थानं वत्स कार्यार्थसिद्धये ॥ 9 ॥

  10. ततः स मातुर वचनं निशम्य; वितत्य पक्षौ नभ उत्पपात ततॊ निषादान बलवान उपागमद; बुभुक्षितः काल इवान्तकॊ महान ॥ 10 ॥

  11. स तान निषादान उपसंहरंस तदा; रजः समुद्धूय नभःस्पृशं महत समुद्रकुक्षौ च विशॊषयन पयः; समीपगान भूमिधरान विचालयन ॥ 11 ॥

  12. ततः सचक्रे महद आननं तदा; निषादमार्गं परतिरुध्य पक्षिराट ततॊ निषादास तवरिताः परवव्रजुर; यतॊ मुखं तस्य भुजंगभॊजितः ॥ 12 ॥

  13. तद आननं विवृतम अतिप्रमाणवत; समभ्ययुर गगनम इवार्दिताः खगाः सहस्रशः पवनरजॊ ऽभरमॊहिता; महानिल परचलित पादपे वने ॥ 13 ॥

  14. ततः खगॊ वदनम अमित्रतापनः; समाहरत परिचपलॊ महाबलः निषूदयन बहुविध मत्स्यभक्षिणॊ; बुभुक्षितॊ गगनचरेश्वरस तदा ॥ 14 ॥

Reach this point to mark the section finished.

Continue to अध्याय 25

Previous: अध्याय 23