धर्मDharmic Data

आदिपर्व · Adi Parva

अध्याय 224

  1. [वै] मन्दपालॊ ऽपि कौरव्य चिन्तयानः सुतांस तदा उक्तवान अप्य अशीतांशुं नैव स सम न तप्यते ॥ 1 ॥

  2. स तप्यमानः पुत्रार्थे लपिताम इदम अब्रवीत कथं नव अशक्ताः पलवने लपिते मम पुत्रकाः ॥ 2 ॥

  3. वर्धमाने हुतवहे वाते शीघ्रं परवायति असमर्था विमॊक्षाय भविष्यन्ति ममात्मजाः ॥ 3 ॥

  4. कथं नव अशक्ता तराणाय माता तेषां तपस्विनी भविष्यत्य असुखाविष्टा पुत्र तराणम अपश्यती ॥ 4 ॥

  5. कथं नु सरणे ऽशक्तान पतने च ममात्मजान संतप्यमाना अभितॊ वाशमानाभिधावती ॥ 5 ॥

  6. जरितारिः कथं पुत्रः सारिसृक्वः कथं च मे सतम्ब मित्रः कथं दरॊणः कथं सा च तपस्विनी ॥ 6 ॥

  7. लालप्यमानं तम ऋषिं मन्दपालं तथा वने लपिता परत्युवाचेदं सासूयम इव भारत ॥ 7 ॥

  8. न ते सुतेष्व अवेक्षास्ति तान ऋषीन उक्तवान असि तेजस्विनॊ वीर्यवन्तॊ न तेषां जवलनाद भयम ॥ 8 ॥

  9. तथाग्नौ ते परीत्ताश च तवया हि मम संनिधौ परतिश्रुतं तथा चेति जवलनेन महात्मना ॥ 9 ॥

  10. लॊकपालॊ ऽनृतां वाचं न तु वक्ता कथं चन समर्थास ते च वक्तारॊ न ते तेष्व अस्ति मानसम ॥ 10 ॥

  11. ताम एव तु ममामित्रीं चिन्तयन परितप्यसे धरुवं मयि न ते सनेहॊ यथा तस्यां पुराभवत ॥ 11 ॥

  12. न हि पक्षवता नयाय्यं निःस्नेहेन सुहृज्जने पीड्यमान उपद्रष्टुं शक्तेनात्मा कथं चन ॥ 12 ॥

  13. गच्छ तवं जरिताम एव यदर्थं परितप्यसे चरिष्याम्य अहम अप्य एका यथा कापुरुषे तथा ॥ 13 ॥

  14. [मन्दपाल] नाहम एवं चरे लॊके यथा तवम अभिमन्यसे अपत्यहेतॊर विचरे तच च कृच्छ्रगतं मम ॥ 14 ॥

  15. भूतं हित्वा भविष्ये ऽरथे यॊ ऽवलम्बेत मन्दधीः अवमन्येत तं लॊकॊ यथेच्छसि तथा कुरु ॥ 15 ॥

  16. एष हि जवलमानॊ ऽगनिर लेलिहानॊ महीरुहान दवेष्यं हि हृदि संतापं जनयत्य अशिवं मम ॥ 16 ॥

  17. [वै] तस्माद देशाद अतिक्रान्ते जवलने जरिता ततः जगाम पुत्रकान एव तवरिता पुत्रगृद्धिनी ॥ 17 ॥

  18. सा तान कुशलिनः सर्वान निर्मुक्ताञ जातवेदसः रॊरूयमाणा कृपणा सुतान दृष्टवती वने ॥ 18 ॥

  19. अश्रद्धेयतमं तेषां दर्शनं सा पुनः पुनः एकैकशश च तान पुत्रान करॊशमानान्वपद्यत ॥ 19 ॥

  20. ततॊ ऽभयगच्छत सहसा मन्दपालॊ ऽपि भारत अथ ते सर्वम एवैनं नाभ्यनन्दन्त वै सुताः ॥ 20 ॥

  21. लालप्यमानम एकैकं जरितां च पुनः पुनः नॊचुस ते वचनं किं चित तम ऋषिं साध्व असाधु वा ॥ 21 ॥

  22. [मन्दपाल] जयेष्ठः सुतस ते कतमः कतमस तदनन्तरः मध्यमः कतमः पुत्रः कनिष्ठः कतमश च ते ॥ 22 ॥

  23. एवं बरुवन्तं दुःखार्तं किं मां न परतिभाषसे कृतवान अस्मि हव्याशे नैव शान्तिम इतॊ लभे ॥ 23 ॥

  24. [जरिता] किं ते जयेष्ठे सुते कार्यं किम अनन्तरजेन वा किं च ते मध्यमे कार्यं किं कनिष्ठे तपस्विनि ॥ 24 ॥

  25. यस तवं मां सर्वशॊ हीनाम उत्सृज्यासि गतः पुरा ताम एव लपितां गच्छ तरुणीं चारुहासिनीम ॥ 25 ॥

  26. [मन्दपाल] न सत्रीणां विद्यते किं चिद अन्यत्र पुरुषान्तरात सापत्नकम ऋते लॊके भवितव्यं हि तत तथा ॥ 26 ॥

  27. सुव्रतापि हि कल्याणी सर्वलॊकपरिश्रुता अरुन्धती पर्यशङ्कद वसिष्ठम ऋषिसत्तमम ॥ 27 ॥

  28. विशुद्धभावम अत्यन्तं सदा परियहिते रतम सप्तर्षिमध्यगं वीरम अवमेने च तं मुनिम ॥ 28 ॥

  29. अपध्यानेन सा तेन धूमारुण समप्रभा लक्ष्यालक्ष्या नाभिरूपा निमित्तम इव लक्ष्यते ॥ 29 ॥

  30. अपत्यहेतॊः संप्राप्तं तथा तवम अपि माम इह इष्टम एवंगते हित्वा सा तथैव च वर्तसे ॥ 30 ॥

  31. नैव भार्येति विश्वासः कार्यः पुंसा कथं चन न हि कार्यम अनुध्याति भार्या पुत्रवती सती ॥ 31 ॥

  32. [वै] ततस ते सर्व एवैनं पुत्राः सम्यग उपासिरे स च तान आत्मजान राजन्न आश्वासयितुम आरभत ॥ 32 ॥

Reach this point to mark the section finished.

Continue to अध्याय 225

Previous: अध्याय 223