[जरितारि] पुरतः कृच्छ्रकालस्य धीमाञ जागर्ति पूरुषः स कृच्छ्रकालं संप्राप्य वयथां नैवैति कर्हि चित ॥ 1 ॥
यस तु कृच्छ्रम असंप्राप्तं विचेता नावबुध्यते स कृच्छ्रकाले वयथितॊ न परजानाति किं चन ॥ 2 ॥
[सारिसृक्व] धीरस तवम असि मेधावी पराणकृच्छ्रम इदं च नः शूरः पराज्ञॊ बहूनां हि भवत्य एकॊ न संशयः ॥ 3 ॥
[सतम्बमित्र] जयेष्ठस तराता भवति वै जयेष्ठॊ मुञ्चति कृच्छ्रतः जयेष्ठश चेन न परजानाति कनीयान किं करिष्यति ॥ 4 ॥
[दरॊण] हिरण्यरेतास तवरितॊ जवलन्न आयाति नः कषयम सप्त जिह्वॊ ऽनलः कषामॊ लेलिहानॊपसर्पति ॥ 5 ॥
[वै] एवम उक्तॊ भरातृभिस तु जरितारिर बिभावसुम तुष्टाव पराञ्जलिर भूत्वा यथा तच छृणु पार्थिव ॥ 6 ॥
[जरितारि] आत्मासि वायॊः पवनः शरीरम उत वीरुधाम यॊनिर आपश च ते शुक्रयॊनिस तवम असि चाम्भसः ॥ 7 ॥
ऊर्ध्वं चाधश च गच्छन्ति विसर्पन्ति च पार्श्वतः अर्चिषस ते महावीर्यरश्मयः सवितुर यथा ॥ 8 ॥
[सारिसृक्व] माता परपन्ना पितरं न विद्मः; पक्षाश च नॊ न परजाताब्ज केतॊ न नस तराता विद्यते ऽगने तवदन्यस; तस्माद धि नः परिरक्षैक वीर ॥ 9 ॥
यद अग्ने ते शिवं रूपं ये च ते सप्त हेतवः तेन नः परिरक्षाद्य ईडितः शरणैषिणः ॥ 10 ॥
तवम एवैकस तपसे जातवेदॊ; नान्यस तप्ता विद्यते गॊषु देव ऋषीन अस्मान बालकान पालयस्व; परेणास्मान परैहि वै हव्यवाह ॥ 11 ॥
[सतम्बमित्र] सर्वम अग्ने तवम एवैकस तवयि सर्वम इदं जगत तवं धारयसि भूतानि भुवनं तवं बिभर्षि च ॥ 12 ॥
तवम अग्निर हव्यवाहस तवं तवम एव परमं हविः मनीषिणस तवां यजन्ते बहुधा चैकधैव च ॥ 13 ॥
सृष्ट्वा लॊकांस तरीन इमान हव्यवाह; पराप्ते काले पचसि पुनः समिद्धः सर्वस्यास्य भुवनस्य परसूतिस; तवम एवाग्ने भवसि पुनः परतिष्ठा ॥ 14 ॥
तवम अन्नं पराणिनां भुक्तम अन्तर भूतॊ जगत्पते नित्यं परवृद्धः पचसि तवयि सर्वं परतिष्ठितम ॥ 15 ॥
[दरॊण] सूर्यॊ भूत्वा रश्मिभिर जातवेदॊ; भूमेर अम्भॊ भूमिजातान रसांश च विश्वान आदाय पुनर उत्सर्ग काले; सृष्ट्वा वृष्ट्या भावयसीह शुक्र ॥ 16 ॥
तवत्त एताः पुनः शुक्रवीरुधॊ हरितच छदाः जायन्ते पुष्करिण्यश च समुद्रश च महॊदधिः ॥ 17 ॥
इदं वै सद्म तिग्मांशॊ वरुणस्य परायणम शिवस तराता भवास्माकं मास्मान अद्य विनाशय ॥ 18 ॥
पिङ्गाक्षलॊहितग्रीव कृष्णवर्त्मन हुताशन परेण परैहि मुञ्चास्मान सागरस्य गृहान इव ॥ 19 ॥
[वै] एवम उक्तॊ जातवेदा दरॊणेनाक्लिष्ट कर्मणा दरॊणम आह परतीतात्मा मन्दपाल परतिज्ञया ॥ 20 ॥
ऋषिर दरॊणस तवम असि वै बरह्मैतद वयाहृतं तवया ईप्सितं ते करिष्यामि न च ते विद्यते भयम ॥ 21 ॥
मन्दपालेन यूयं हि मम पूर्वं निवेदिताः वर्जयेः पुत्रकान मह्यं दहन दावम इति सम ह ॥ 22 ॥
य च तद वचनं तस्य तवया यच चेह भाषितम उभयं मे गरीयस तद बरूहि किं करवाणि ते भृशं परीतॊ ऽसमि भद्रं ते बरह्मन सतॊत्रेण ते विभॊ ॥ 23 ॥
[दरॊण] इमे मार्जारकाः शुक्रनित्यम उद्वेजयन्ति नः एतान कुरुष्व दंष्ट्रासु हव्यवाहसबान्धवान ॥ 24 ॥
[वै] तथा तत कृतवान वह्निर अभ्यनुज्ञाय शार्ङ्गकान ददाह खाण्डवं चैव समिद्धॊ जनमेजय ॥ 25 ॥
आदिपर्व · Adi Parva
अध्याय 223
Reach this point to mark the section finished.
Continue to अध्याय 224